इदम् ..... पाण्डुपत्रोदरेण॥१.१९

विकिपुस्तकानि तः

इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाहाच्छादिना वल्कलेन।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं पाण्डुपत्रोदरेण॥१.१९

पदच्छेदः-
इदम् उपहित-सूक्ष्म-ग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाह-आच्छादिना वल्कलेन।
वपुः अभिनवम् अस्याः पुष्यति स्वां न शोभां कुसुमम् इव पिनद्धं पाण्डुपत्रोदरेण॥१.१९

अन्वयः-
पाण्डुपत्रोदरेण पिनद्धं कुसुमम् इव स्कन्धदेशे उपहित-सूक्ष्म-ग्रन्थिना स्तनयुगपरिणाह-आच्छादिना वल्कलेन अस्याः इदम् अभिनवं वपुः स्वां शोभां न पुष्यति ।॥१.१९

सन्दर्भः-

सरलार्थः-
यथा पाण्डुरवर्णेन पत्रोदरेण आच्छादितं पुष्पं न राजते,तथा स्कन्धे लघुग्रन्थिना बद्धेन, स्तनयुगुलाच्छादकेन वल्कलेन अस्याः तरुणं शरीरं न राजते॥१.१९

वृत्तम् –
मालिनी

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि       अभिज्ञानशाकुन्तले मालिनी-वृत्तनिबद्धानि पद्यानि
इदं किल..... ऋषिः व्यवस्यति ॥१.१८॥  सरसिजम् अनुविध्दं..... आकृतीनाम् ॥१.२० ॥