शुध्दान्तदुर्लभम्..... वनलताभिः ॥१.१७॥

विकिपुस्तकानि तः
Jump to navigation Jump to search

शुध्दान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥१.१७॥

पदच्छेदः-
शुध्दान्तदुर्लभम् इदं वपुः आश्रमवासिनः यदि जनस्य । दूरीकृताः खलु गुणैः उद्यानलता वनलताभिः ॥१.१७॥

अन्वयः-
शुध्दान्तदुर्लभम् इदं वपुः यदि आश्रमवासिनः जनस्य, (तर्हि) उद्यानलताः वनलताभिः गुणैः दूरीकृताः खलु ॥१.१७॥

सन्दर्भः-
शकुन्तलां दृष्ट्वा दुष्यन्तः चिन्तयति।

सरलार्थः-
अन्तःपुरे अपि एतादृशं रूपं दुर्लभम्।यदि एषा आश्रमवासिनी, तर्हि नूनम् उद्यानलताः वनलताभिः गुणैः पराजिताः ।१.१७

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि         अभिज्ञानशाकुन्तले  आर्या-वृत्तनिबद्धानि पद्यानि
शान्तम् इदम्..... भवन्ति सर्वत्र ॥१.१६ ॥   इदं किल..... ऋषिः व्यवस्यति ॥१.१८॥