कः पौरवे .....तपस्विकन्यासु ॥१.२५॥

विकिपुस्तकानि तः

कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥१.२५॥

पदच्छेदः-
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयम् आचरति अविनयं मुग्धासु तपस्विकन्यासु ॥१.२५॥

अन्वयः-
दुर्विनीतानां शासितरि पौरवे वसुमतीं शासति (सति)कः अयम् मुग्धासु तपस्विकन्यासु अविनयम् आचरति ?१.२५॥

सन्दर्भः-

सरलार्थः-
उद्धतानां शासकः पुरुकुलोद्भवः राजा यदा पृथ्वीं शासति, तदा कः एषः निष्पापासु तपस्विकन्यासु उद्धतरीत्या वर्तते?१.२५

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि
चल-अपाङ्गां .....खलु कृती ॥१.२४॥ मानुषीषु .....वसुधातलात् ॥१.२६॥