मानुषीषु .....वसुधातलात् ॥१.२६॥

विकिपुस्तकानि तः

मानुषीषु कथं वा स्यादस्य रुपस्य संभवः न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥१.२६॥

पदच्छेदः-
मानुषीषु कथं वा स्याद् अस्य रूपस्य संभवः न प्रभातरलं ज्योतिः उदेति वसुधातलात् ॥१.२६॥

अन्वयः-
मानुषीषु अस्य रूपस्य संभवः कथं वा स्यात्? प्रभातरलं ज्योतिः वसुधातलात् न उदेति ॥१.२६॥

सन्दर्भः-

सरलार्थः-
मनुष्ययोनौ एतादृशं रूपं कथमिव सम्भवेत्?प्रभया तरलं तेजः पृथ्वीतलात् न जायते॥१.२६

वृत्तम् –
अनुष्टुब्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि       अभिज्ञानशाकुन्तले अनुष्टुब्-वृत्तनिबद्धानि पद्यानि
कः पौरवे .....तपस्विकन्यासु ॥१.२५॥   वैखानसं .....हरिणाङ्गनाभिः ॥१.२७॥