च.शा.१.११०-११७
११०-११२
[सम्पाद्यताम्] निर्दिष्टा कालसम्प्राप्तिर्व्याधीनां व्याधिसङ्ग्रहे।चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा॥११०॥
मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः।जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च या॥१११॥
पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये।एषु कालेषु नियता ये रोगास्ते च कालजाः॥११२॥
पदच्छेदः-
निर्दिष्टा कालसम्प्राप्तिः व्याधीनां व्याधिसङ्ग्रहे।चय-प्रकोप-प्रशमाः पित्तादीनां यथा पुरा॥११०॥
मिथ्या-अति-हीनलिङ्गाः च वर्षान्ताः रोगहेतवः।जीर्ण-भुक्त-प्रजीर्ण-अन्नकाल-अकालस्थितिः च या॥१११॥
पूर्व-मध्य-अपराह्णाः च रात्र्याः यामाः त्रयः च ये।एषु कालेषु नियताः ये रोगाः ते च कालजाः॥११२॥
अन्वयः-
व्याधीनां कालसम्प्राप्तिः यथा, पुरा व्याधिसङ्ग्रहे निर्दिष्टाः पित्तादीनां चय-प्रकोप-प्रशमाः ॥११०॥मिथ्या-अति-हीनलिङ्गाः च वर्षान्ताः रोगहेतवः,जीर्ण-भुक्त-प्रजीर्ण-अन्नकाल-अकालस्थितिः च या॥१११॥ पूर्व-मध्य-अपराह्णाः च, रात्र्याः ये त्रयः यामाः च ,एषु कालेषु ये रोगाः नियताः, ते च कालजाः॥११२॥
सरलार्थः-
व्याधीनां कालसम्प्राप्तिः इति कारणस्य उदाहरणं नाम पूर्वं व्याधिसङ्ग्रहे उक्ताः पित्तादीनां चयप्रकोपप्रशमाः। वर्षान्तानाम् ऋतूनां मिथ्या-अति-हीनयोगाः रोगहेतवः,अन्नस्य जीर्णावस्थाकालः, भुक्तावस्थाकालः, प्रजीर्णावस्थाकालः तथा अनुचितकालः कालसम्प्राप्तिः ॥१११॥ पूर्वाह्णः, मध्याह्नः -अपराह्णाः च, रात्र्याः ये त्रयः यामाः च ,एषु कालेषु ये रोगाः नियताः, ते च कालजाः॥११२॥
आयुर्वेददीपिका
व्याधीनां कालसम्प्राप्तिम् आह निर्दिष्टा इत्यादि।व्याधिसङ्ग्रहे इति कियन्तःशिरसीये “चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्। भवन्त्येकैकशः षट्सु कालेष्वभ्रगमादिषु”(सू.१७) इत्यनेन तथा हि उदाहरणेन च।तेन, कालसम्प्राप्तिः व्याधीनां यथा- चयप्रकोप्रशमाः पित्तादीनां पुरा निर्दिष्टाः इति योज्यम्।
अरुन्धतीपद्धतिः –
सूत्रे यथा इति अव्ययं विद्यते।योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यम्, अनुमानम् उदाहरणम् इति यथा-शब्दस्य अर्थाः भवन्ति।तत्र सादृश्यम् इति अर्थः विपुलप्रचारः।‘यथा राजा तथा प्रजा’ इत्यादीनि सादृश्यार्थस्य उदाहरणानि।परं सः अर्थः अत्र विवक्षितः नास्ति। यथा इति अत्र सादृश्यार्थकं मन्यामहे चेत् तथा इत्यनेन उपमेयस्य वचनम् आवश्यकम्। यत्तदोर्नित्यसम्बन्धात्।तच्च नास्ति।अतः उदाहरणम् इत्येव अर्थः अत्र यथाशब्देन ग्राह्यः।तद्विषये विवृणोति चक्रपाणिः तेन इत्यादि।
यथा इति अव्ययस्य उदाहरणम् इति अर्थः अत्र ग्राह्यः।अनेन अर्थेन शिष्टप्रयोगोऽपि दृश्यते-
तद् यथा अनुश्रूयते अभक्ष्यो ग्रामकुक्कुटः इति।–व्याकरणमहाभाष्ये पस्पशाह्निकम्।
प्रकृते अपि उदाहरणार्थकः यथा-प्रयोगः।कुत्र अस्ति उदाहरणम्? सूत्रस्थाने कियन्तःशिरसीय-अध्याये। अतिदेशतन्त्रयुक्त्या तद् उदाहरणम् अत्र अनुसन्धेयम्।
यथा इति अव्ययम् उदाहरणार्थकम् अस्ति इति निर्णीतम्।इदानीम् अस्य यथा-पदस्य अर्थस्य आधारेण वाक्ययोजना एवं करणीया यत् उदाहरणात् पूर्वं यथाशब्दः श्रूयेत।तादृशी वाक्ययोजना दर्शिता चक्रपाणिना।पदार्थतन्त्रयुक्तिः वाक्ययोजनार्थम् आश्रिता।वाक्ययोजना इत्यपि तन्त्रयुक्तिः विद्यते।तया वाक्यार्थः समुल्लसितः।
मिथ्यालिङ्गाः षड् ऋतवः, अतिलिङ्गाः षड् ऋतवः, हीनलिङ्गाः षड् ऋतवः च रोगहेतवः भवन्ति।
आयुर्वेददीपिका
उदाहरणान्तरम् आह जीर्णेत्यादौ।जीर्णेत्यादौ जीर्णादि-अवस्थात्रय-विशिष्टस्य अन्नस्य कालः, तथा अन्नस्य अकालः अजीर्णादि-अवस्थालक्षितः। प्रजीर्णं विदग्धम्।
अरुन्धतीपद्धतिः –
जीर्णं च भुक्तं च प्रजीर्णं च तानि जीर्णभुक्तप्रजीर्णानि।जीर्णभुक्तप्रजीर्णानि अन्नानि जीर्णभुक्तप्रजीर्णान्नानि।तेषां जीर्णभुक्तप्रजीर्णान्नानां कालाः जीर्णभुक्तप्रजीर्णान्नकालाः।
अत्र जीर्णान्नकाले वातः प्रबलः भवति, भुक्तान्नविशिष्टे काले कफः प्रबलः भवति, प्रजीर्णान्नविशिष्टे काले पित्तं प्रबलं भवति इति कालसम्प्राप्तेः उदाहरणम् इदम्।
‘पूर्व-मध्य-अपराह्णाः च’ इत्यपि कालसम्प्राप्तेः उदाहरणम् उक्तं मुनिना।अहःशब्दः पूर्व-मध्य-अपरेषु प्रत्येकम् अभिसम्बध्यते।तेन पूर्वाह्नः, मध्याह्नः अपराह्णः च इति अर्थः भवति। पूर्वाह्णे कफः प्रबलः, मध्याह्ने पित्तं प्रबलं तथा अपराह्णे वातः प्रबलः इति एषा अपि कालसम्प्राप्तिः एव।
सूत्रे अकालस्थितिः इति शब्दः अस्ति।अकाले स्थितिः अकालस्थितिः।अकालः इत्युक्ते अप्रशस्तः कालः।नञः अत्र अप्राशस्त्यम् इति अर्थः।
सादृश्यं तदभावश्च तदन्यत्वं तदल्पता।अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः॥
आहारार्थम् अप्रशस्तः कालः अकालः। एषः कालः मुनिना उक्तः यथा –
जीर्णे अश्नीयात्।अजीर्णे हि भुञ्जानस्य अभ्यवहृतम् आहारजातं...सर्वान् दोषान् प्रकोपयति आशु...।-च.वि.१.२४
अतः एव ‘अन्नस्य अकालः अजीर्णादि-अवस्थालक्षितः’ इति विवृणोति चक्रपाणिः।
आयुर्वेददीपिका
रात्रेः यामाः त्रयः च ये इति त्रयः भागाः पूर्वरात्र-मध्यरात्र-अपररात्र-रूपाः, न तु यामः प्रहरः इति ज्ञेयम्। अन्यत्रापि च भागत्रये यामविभागं कृत्वा अभिधानशास्त्रे त्रियामा निशा अभिधीयते। तेषु कालेषु इति जीर्ण-अन्नकालादिषु; जीर्णे अपराह्णे रात्रिशेषे च वातिकाः गदाः, भुक्तमात्रे पूर्वाह्णे पूर्वरात्रे च कफजाः गदाः, प्रजीर्णे मध्याह्ने मध्यरात्रे च पित्तजाः नियताः रोगाः। अन्न-अकाले च अजीर्णलक्षणे भोजनात् त्रयः अपि दोषाः भवन्ति इति ज्ञेयम्।
किंवा, ‘जीर्ण-भुक्त-प्रजीर्ण-अन्नकाला’ इति छेदः, तेन जीर्णादि-अवस्थायुक्त-अन्नकालाः पूर्ववद् एव ज्ञेयाः; तथा ‘कालस्थितिः च या’ इति योजना; कालस्थितिशब्देन बाल्य-आदिवयः-त्रैविध्यम् उच्यते। तत्र बाल्ये श्लैष्मिकाः, यौवने पैत्तिकाः, वार्धक्ये वातिकाः गदा वर्धन्ते इति ज्ञेयम्॥११०-११२॥
अरुन्धतीपद्धतिः –
‘रात्र्याः यामाः त्रयः च ये’ इत्यत्र यामशब्दस्य अर्थे विप्रतिपत्तिः सम्भवनीया अतः विवृणोति टीकाकारः त्रयः भागाः इत्यादिना।
यामशब्दस्य अर्थः एवम्-
ते (मुहूर्ताः) तुल्यरात्रिंदिवे राशि-भागे चत्वारः पादोना यामः।तैः चतुर्भिः (यामैः) अहो रात्रिश्च। - अ.हृ.सू.१.२४हेमाद्रिः
एवं चतुर्भिः यामैः रात्रिः भवति।तर्हि ‘रात्र्याः यामाः त्रयः च ये’ इत्यत्र अभिप्रेताः त्रयः यामाः एतेषु चतुर्षु के?
अत्र चक्रपाणिः समाधानं ब्रूते ।यामः इति पादोनचतुर्मुहूर्तपरिमितः कालः। अत्र यामशब्देन पादोनचतुर्मुहूर्तपरिमितः कालः न विवक्षितः।यः कोऽपि रात्रिकालः, सः त्रिषु समभागेषु विभजनीयः। ततः एकः भागः यामशब्देन अत्र ग्राह्यः।तेन रात्र्याः त्रयः यामाः इत्युक्ते पूर्वरात्रः च मध्यरात्रः च अपररात्रः च ।अत्र रात्र्याः यामत्रयम् एवं गणनीयम्।
रात्र्याः यामत्रयस्य या एषा गणना कृता सा स्वकल्पिता नास्ति इति एतदर्थम् अग्रे लिखति चक्रपाणिः ‘अन्यत्रापि च’ इति।अभिधानशास्त्रम् इति अमरादयः कोशाः।शब्दकोशेषु रात्रिपर्यायाः ये उक्ताः तेषु ‘त्रियामा’ इति अन्यतमः पर्यायः विद्यते।तत्र अपि एवमेव रात्र्याः यामत्रयस्य गणना क्रियते।अतः साधारमिदं गणनम्।
११३
[सम्पाद्यताम्]अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ।स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः॥११३॥
पदच्छेदः-
अन्येद्युष्कः द्वि-अहग्राही तृतीयक-चतुर्थकौ।स्वे स्वे काले प्रवर्तन्ते काले हि एषां बल-आगमः॥११३॥
अन्वयः-
अन्येद्युष्कः, द्वि-अहग्राही, तृतीयक-चतुर्थकौ (इत्यादयः रोगाः)स्वे स्वे काले प्रवर्तन्ते। हि काले एषां बल-आगमः भवति॥११३॥
सरलार्थः-
अन्येद्युष्कज्वरः, द्व्यहग्राही ज्वरः, तृतीयकज्वरः, चतुर्थकज्वरः इति एते रोगाः स्वस्य स्वस्य काले प्रवृत्ताः भवन्ति।यतो हि तस्मिन् तस्मिन् काले तेषां बलं वर्धते।११३
आयुर्वेददीपिका
विषमज्वरान् अपि कालविशेषप्रवर्तमानमात्रत्वेन कालजे दर्शयन् आह अन्यद्युष्कः इत्यादि। द्वि-अह-ग्राही चतुर्थकविपर्ययः। वक्ष्यति हि- “विषमज्वर एवान्यश्चतुर्थकविपर्ययः। मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति” इति (चि.३) कथं स्वकीये एव काले प्रवर्तन्ते इति आह काले हि एषां बलागमः इति।उक्ते एव काले यस्माद् बलवन्तः भवन्ति, तस्मात् तत्र एव सञ्जातबलाः सन्तः व्यज्यन्ते इति अर्थः॥११३॥
अरुन्धतीपद्धतिः –
कालसम्प्राप्तेः वर्णने विषमज्वरान् उदाहरति मुनिः।पूर्वं ‘सम्प्राप्तिः कालकर्मणाम्’(च.शा.१.९८) इति सूत्रे चक्रपाणिना उक्तम् -
‘कालसम्प्राप्तिग्रहणेन च इह ये कालव्यक्ताः ते गृह्यन्ते, न अवश्यं कालजन्याः; यतः स्वाभाविकान् अपि कालजन्यान् तथा तृतीयकादीन् अपि असात्म्येन्द्रियार्थ-आदिजन्यान् कालजत्वेन एव इह अभिधास्यति।‘
तद्वचनमत्र अनुसन्धेयम्। अत्र मुनिना उक्ताः विषमज्वराः न कालविशेषजन्याः, अपि तु ते कालविशेषव्यङ्ग्याः।ते इह प्रकरणे कालसम्प्राप्तौ एव मुनिना समावेशिताः।
११४
[सम्पाद्यताम्]
एते चान्ये च ये केचित् कालजा विविधा गदाः।अनागते चिकित्स्यास्ते बलकालौ विजानता॥११४॥
पदच्छेदः-
एते च अन्ये च ये केचित् कालजाः विविधाः गदाः।अनागते चिकित्स्याः ते बल-कालौ विजानता॥११४॥
अन्वयः-
एते च अन्ये च ये केचित् कालजाः विविधाः गदाः, ते बल-कालौ विजानता (वैद्येन) अनागते चिकित्स्याः ॥११४॥
सरलार्थः-
एते अत्र उक्ताः विकाराः कालव्यङ्ग्याः सन्ति।तथा अन्ये अपि कालव्यङ्ग्याः विविधाः गदाः सन्ति।वैद्येन तेषां बलं कालं च ज्ञात्वा अनागते व्यक्तिकाले एव तेषां चिकित्सा आरभणीया।
आयुर्वेददीपिका
एतेषां चिकित्साक्रमम् आह एते च इत्यादि।अन्ये च इति अनेन अन्यान् अपि कालविशेष-प्राप्तिप्रादुर्भाविनः शोथ-कुष्ठ-आदीन् सूचयति॥११४॥
अरुन्धतीपद्धतिः –
अनागते चिकित्स्याः इति मुनिना उक्तं तत् कथं शक्यम्? यः व्याधिः न प्रादुर्भूतः सः कथमिव चिकित्स्यः?पूर्वरूपाणि अवलोक्य सः चिकित्स्यः।प्रादुर्भविष्यतां व्याधीनां लिङ्गं पूर्वरूपम्।तद् दृष्ट्वा आगामिनः व्याधेः चिकित्सा सम्भवति।अतः एव उक्तं भिषक् त्रिकालां वेदनां चिकित्सति इति।
कालविशेषप्राप्तिप्रादुर्भाविनः विकाराः इति चक्रपाणेः समासप्रयोगः।तस्य विग्रहः एवम् - कालस्य विशेषः कालविशेषः पूर्वाह्णादिः।कालविशेषस्य प्राप्तिः कालविशेषप्राप्तिः।कालविशेषागमः इति यावत्।तस्यां कालविशेषप्राप्तौ सत्यां प्रादुर्भवन्ति ते कालविशेषप्राप्तिप्रादुर्भाविनः।
११५
[सम्पाद्यताम्]कालस्य परिणामेन जरामृत्युनिमित्तजाः।रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः॥११५॥
पदच्छेदः-
कालस्य परिणामेन जरा-मृत्यु-निमित्तजाः। रोगाः स्वाभाविकाः दृष्टाः स्वभावः निष्प्रतिक्रियः॥११५
अन्वयः-
कालस्य परिणामेन जरा-मृत्यु-निमित्तजाः स्वाभाविकाः रोगाः दृष्टाः । स्वभावः निष्प्रतिक्रियः॥११५
सरलार्थः-
कालस्य परिणामः जरा तथा मृत्युः।जरामृत्युनिमित्ततः स्वाभाविकाः रोगाः जायन्ते, (ते कालजाः)।स्वभावस्य प्रतिकारः न सम्भवति।
आयुर्वेददीपिका
स्वाभाविकान् अपि कालपरिणाम-व्यज्यमानतया इह कालजे अवरोधयितुम् आह कालस्य इत्यादि।
अरुन्धतीपद्धतिः –
दुःखहेतवः के इति प्रश्नस्य उत्तरम् उपक्रान्तम्।तत्र जरामरणजन्यरोगाणां समावेशः कुत्र इति प्रश्नस्योत्तरं वदति मुनिः कालस्य परिणामेन इति।एतेषां दुःखानां हेतुः कालसम्प्राप्तिः इति आशयः।
आयुर्वेददीपिका
जरा-मृत्युरूपात् निमित्तात् जाताः जरा-मृत्यु-निमित्तजाः, मृत्युशब्देन इह युगानुरूप-आयुःपर्यवसान-भव-कालमृत्युः ग्राह्यः ; किंवा जरामृत्य्वोः यद् निमित्तं तस्मात् जाताः जरामृत्यु-निमित्तजाः, जरामृत्युनिमित्तं च प्राणिनां साधारणदेहनिवर्तकभूतस्वभावः अदृष्टं च।
अरुन्धतीपद्धतिः –
जरामृत्युनिमित्तजाः इति समासस्य द्विधा विग्रहं दर्शयति चक्रपाणिः।जरा च मृत्युः च जरामृत्यू इति इतरेतरद्वन्द्वः। जरामृत्यू एव निमित्तं जरामृत्युनिमित्तम् इति कर्मधारयः। जरामृत्युरुपात् कारणात् जाताः जरामृत्युनिमित्तजाः इति उपपदतत्पुरुषः।जरानिमित्तजाः वली-पलितादयः।एतेषां वलीपलितादीनां जरा एव निमित्तम् इत्यर्थः। मृत्युनिमित्तजाः ज्वरसंन्यासमूर्च्छादयः।एषां ज्वरादीनाम् आसन्नमृत्युः एव निमित्तम् इत्यर्थः।अनेन विग्रहेण जरामृत्यू तथा वलीपलितादयः रोगाः इति एतेषु कार्यकारणभावः प्रदर्श्यते।यथा अग्नि-ओदनयोः।
अस्य समासस्य अपरः विग्रहः एवम्।जरा च मृत्युः च जरामृत्यू इति द्वन्द्वः। जरामृत्य्वोः निमित्तं जरामृत्युनिमित्तम् इति षष्ठीसमासः।तस्मात् निमित्तात् जाताः जरामृत्यु-निमित्तजाः इति उपपदतत्पुरुषः।जरामृत्य्वोः उभयोः कारणं साधारणदेहनिवर्तकभूतस्वभावः अदृष्टं च। अनेन विग्रहेण जरामृत्यू तथा वल्यादयः रोगाः इति एतेषाम् समानकारणजन्यत्व-सम्बन्धः प्रदर्श्यते।यथा अग्निजन्ययोः दाहप्रकाशयोः।
साधारणदेहनिवर्तकभूतस्वभावः जरायाः मृत्योः च कारणम् इति उक्तम्।भूतानां स्वभावः भूतस्वभावः।तस्य ‘देहनिवर्तकः’ तथा ‘साधारणः’ इति विशेषणद्वयम्।निवर्तकः इति नाशकः। देहस्य निवर्तकः देहनाशकः।भूतानां स्वभावः एव अयं, यत् तानि देहं निवर्तयन्ति।यथा भगवता उक्तम् -
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।तथा देहान्तरप्राप्तिः..... ॥भगवद्गीता २.१३
कौमारे प्राप्ते बालदेहं निवर्तयन्ति भूतानि।यौवने कुमारदेहं निवर्तयन्ति।जरायां तरुणदेहं निवर्तयन्ति तथा देहान्तरप्राप्तिकाले पूर्वदेहं निवर्तयन्ति।देहस्य सर्वासु अवस्थासु साधारणः अयं देहनिवर्तकः भूतस्वभावः।तस्मात् साधारणः च देहनिवर्तकः च अयं भूतस्वभावः इति वर्णितः चक्रपाणिना।एषः जरायाः मृत्योः च कारणम्।
अदृष्टं च पूर्वकर्म।ततः आयुषः मानस्य निर्धारणं भवति।तथैवोक्तं पतञ्जलिना-
सति मूले तद्विपाको जात्यायुर्भोगाः ।- पा.योगदर्शनम्२.१४
जन्म, आयुर्मानं तथा भोगाः इति एते अदृष्टस्य विपाकभूताः इति अर्थः।तस्मात् अदृष्टम् इत्यपि जरामृत्य्वोः कारणम् इति वक्ति चक्रपाणिः।
आयुर्वेददीपिका
अथ स्वाभाविकानां का चिकित्सा इति आह स्वभावः इत्यादि। निष्प्रतिक्रियः इति साधारणचिकित्सया रसायनवर्ज्यया न प्रतिक्रियते, रसायनेन तु प्रतिक्रियत एव; तेन, “अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा”(चि.१.१.) इत्यादिरसायनप्रयोगेण समं न विरोधः।किंवा, स्वाभाविकाः जरादयः रसायनजनितप्रकर्षाद् उत्तरकालं पुनरवश्यं भवन्ति इति निष्प्रतिक्रियत्वेन उक्ताः॥११५॥
अरुन्धतीपद्धतिः –
स्वाभाविकानां व्याधीनां प्रतिक्रिया नास्ति इति मुनिना उक्तम्।परम् अनेन एव मुनिना रसायनाध्याये ‘रसायनप्रयोगेण च्यवनर्षेः जरा नष्टा’ इति उक्तम्।अस्य विरोधस्य परिहारः कृतः चक्रपाणिना ‘साधारणचिकित्सया इति वचनेन।जराजन्याः वलीपलितादयः रोगाः रसायनप्रयोगेण नश्यन्ति।सामान्यचिकित्सया तु ते न नश्यन्ति, इति निष्प्रतिक्रियत्वेन अत्र उक्ताः।अतः न कश्चिद् विरोधः।
अस्य विरोधस्य अपरमेकं परिहारं सूचयति चक्रपाणिः किंवा इत्यादिना।स्वाभाविकाः व्याधयः रसायनप्रयोगेण नश्यन्ति इति सत्यम्।तथापि रसायनप्रभावे समाप्ते पुनः उद्भवन्ति।अतः तेषां सर्वशः प्रतिक्रिया न सम्भवति।अनेन अर्थेन अपि एते निष्प्रतिक्रियाः रोगाः।
११६
[सम्पाद्यताम्] निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्।हेतुस्तदपि कालेन रोगाणामुपलभ्यते॥११६॥
पदच्छेदः-
निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्।हेतुः तद् अपि कालेन रोगाणाम् उपलभ्यते॥११६॥
अन्वयः-
दैवशब्देन यत् पौर्वदेहिकं कर्म निर्दिष्टं, तद् अपि कालेन रोगाणां हेतुः उपलभ्यते॥११६॥
सरलार्थः-
दैवशब्देन पुरुषस्य पूर्वजन्मसु कृतं कर्म निर्दिश्यते।तद् दैवम् अपि कालेन रोगहेतुरूपेण उपलभ्यते।
आयुर्वेददीपिका
सम्प्रति कर्मसम्प्राप्तिकृतम् अपि गदं कालविशेषव्यज्यमानतया दर्शयन् आह निर्दिष्टम् इत्यादि।
कालेन इति पच्यमानता-लक्षितेन कालेन (युक्तं सत्) कर्म कारणं भवति इति अर्थः॥११६॥
अरुन्धतीपद्धतिः –
‘सम्प्राप्तिः कालकर्मणाम्’ इति वेदनाहेतुः पूर्वम् उक्तः।तत्र कालसम्प्राप्तेः वेदनाहेतुत्वं यत्र, तेषां प्रपञ्चनं प्रवर्तते।कर्मसम्प्राप्तेः अपि तत्र एव समावेशं दर्शयति अस्मिन् सूत्रे सूत्रकारः।
दैवजानां रोगाणां कालसम्प्राप्तौ समावेशः कथम्? ‘कालविशेषव्यज्यमानतया’ इति अस्य प्रश्नस्य उत्तरम्।पूर्वं यत् कर्म कृतं, तस्य रोगरूपं फलम् अनुक्षणं न भवति।कालेन तत् कर्म पच्यते। ततः विपाकरूपेण रोगः प्रादुर्भवति।एवम् एते कर्मजाः रोगाः कालेन व्यक्ताः भवन्ति अतः कालसम्प्राप्तौ तेषां समावेशः न दोषावहः।
११७
[सम्पाद्यताम्]न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते। क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्॥११७॥
पदच्छेदः-
न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते।क्रियाघ्नाः कर्मजाः रोगाः प्रशमं यान्ति तत्क्षयात्॥११७॥
अन्वयः-
न हि किञ्चित् महत् कर्म (विद्यते), यस्य फलं न भुज्यते।कर्मजाः रोगाः क्रियाघ्नाः (सन्ति)। तत्क्षयात् (ते) प्रशमं यान्ति ॥११७॥
सरलार्थः-
एकम् अपि महत् कर्म नास्ति, यस्य फलभोगः न भवति।सर्वस्य महतः कर्मणः फलम् अवश्यं भोक्तव्यम्।कर्मजाः रोगाः चिकित्साक्रियया न नश्यन्ति।ते कर्मक्षयात् एव नश्यन्ति।
आयुर्वेददीपिका
कर्मणः फलसम्बन्धिनियमम् आह- न हीत्यादि। महद् इति विशेषणेन किञ्चिद् अमहत् कर्म प्रायश्चित्तबाधनीयफलं न ददाति अपि फलम् इति दर्शयति। कर्मजानाम् अचिकित्स्यत्वम् आह- क्रियाघ्नाः इत्यादि। तत्क्षयाद् इति कर्मक्षयात्; कर्मक्षयः च कर्मफल-उपभोगाद् एव परं भवति ॥११७॥
अरुन्धतीपद्धतिः –
सूत्रे कर्मविशेषणम् उक्तं ‘महत्’ इति।तस्य प्रयोजनं वदति चक्रपाणिः महदित्यादिना। पौर्वदेहिकं कर्म किञ्चित् ‘महत्’ अस्ति, किञ्चित् ‘लघु’ अस्ति।लघुकर्म भोगं विना अपि प्रायश्चित्तेन क्वचित् नश्यति।तादृशे भोगरहिते कर्मणि व्यभिचारः न स्याद् इति अतः महत् इति विशेषणं प्रयुक्तम्।तेन प्रायश्चित्तनाश्यस्य अतः भोग-अप्रदायिनः लघुकर्मणः व्यवच्छेदः साधितः।
कर्मजाः रोगाः क्रियाघ्नाः सन्ति इति वचनस्य ‘कर्मजाः रोगाः चिकित्सां घ्नन्ति, निष्फलां कुर्वन्ति’ इत्यर्थः।
च.शा.१.०९५-१०९ चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः च.शा.१.११८-१२९