सामग्री पर जाएँ

भट्टिकाव्यं अधिकार काण्ड:

विकिपुस्तकानि तः

अतः परमधिकार-काण्डम्


भका५.९७-१ "द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने
भका५.९७-२ अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम.
भका५.९८-१ यशस्-कर-समाचारं ख्यातं भूवि दया-करम्
भका५.९८-२ पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तम-त्रपम्
भका५.९९-१ अहमन्त-करो नूनं ध्वान्तस्येव दिवा-करः
भका५.९९-२ तव राक्षस ! रामस्य नेयः कर्म-करोपमः
भका५.१००-१ सतामरुष्-करं पक्षी वैर-कारं नराऽशिनम्
भका५.१००-२ हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम्.

अतः परं प्रकीर्णकाः
भका५.१०१-१ धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ
भका५.१०१-२ मांस-शोणित-संदर्शं तुण्ड-घातमयुध्यत.
भका५.१०२-१ न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे
भका५.१०२-२ आघ्नानो विध्यमानो वा रणान् निववृते न च.
भका५.१०३-१ पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम्
भका५.१०३-२ युधि कद्-रथ-वद् भीमंबभञ्ज ध्वज-शालिनम्

अतः परं आमधिकारः


भका५.१०४-१ संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः,
भका५.१०४-२ स त्याजयांचकाराऽरिं सीतां विंशति-बाहुना.
भका५.१०५-१ अ-सीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः,
भका५.१०५-२ भूयस् तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः ख-गः.
भका५.१०६-१ हन्तुं क्रोध-वशादीहांचक्राते तौ परस्पसम्,
भका५.१०६-२ न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः.
भका५.१०७-१ उपासांचक्रिरे द्रष्टुं देव-गन्धर्व-किन्नराः,
भका५.१०७-२ छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः
भका५.१०८-१ प्रलुठितमवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन्
भका५.१०८-२ रथ-वरमधिरुह्य भीम-धुर्यं स्व-पुरमगात् परिगृह्य राम-कान्ताम्.



भका६.१-१ ओषांचकार कामाऽग्निर् दशा-वक्त्रमहर्-निशम्.
भका६.१-२ विदांचकार वैदेहीं रामादन्य-निरुत्सुकाम्.
भका६.२-१ प्रजागरांचकारारेरीहास्वनिशमादरात्,
भका६.२-२ प्रबिभयांचकारा ऽसौ काकुत्स्थादभिशङ्कितः.
भका६.३-१ न जिह्रयांचकारा ऽथ सीतामभ्यर्थ तर्जितः.
भका६.३-२ नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्.
भका६.४-१ विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्,
भका६.४-२ रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्.

अथ प्रकीर्णकाःŌ


भका६.५-१ रामो ऽपि हत-मारीचो निवर्त्स्यन् खर-नादिनः
भका६.५-२ क्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः
भका६.६-१ आशङ्कमानो वैदेहीं खादितां निहतां मृताम्
भका६.६-२ स शत्रु-घ्नस्य सोदर्यं दूरादायान्तमैक्षत.
भका६.७-१ सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां
भका६.७-२ विज्ञाया ऽमंस्त काकुत्स्थःŌ"क्षये क्षेमं सŌदुर्लभम्."

अतः परं दुहादिःŌ


भका६.८-१ सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान्,
भका६.८-२ रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः
भका६.९-१ संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्
भका६.९-२ प्राणान् दुहन्निवा ऽऽत्मानं शोकं चित्तमवारुधत्.
भका६.१०-१ "गता स्यादवचिन्वाना कुसुमान्याश्रम-द्रुमान्.
भका६.१०-२ आ यत्र तापसान् धर्मं सुतीक्ष्णः शास्ति, तत्र सा.

अतः परं प्रकीर्णकाःŌ
भका६.११-१ आः, कष्टं, बत, ही-चित्रं, हूं, मातर्, दैवतानि धिक्,
भका६.११-२ हा पितः !, क्वा ऽसि हे सु-भ्रु !," बह्वेवं विललाप सः,
भका६.१२-१ इहा ऽऽसिष्ठा ऽशयिष्टेह सा, स-खेलमितो ऽगमत्,
भका६.१२-२ अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः.
भका६.१३-१ "इदं नक्तं-तनं दाम पौष्पमेतद् दिवा-तनम्,
भका६.१३-२ शुचेवोद्बध्य शाखायां प्रग्लायति तया विना,
भका६.१४-१ ऐक्षिष्महि मुहुः सुप्तां यां मृता ऽऽशङ्कया वयम्,
भका६.१४-२ अ-काले दुर्मरमहो, यज् जीवामस् तया विना,
भका६.१५-१ अ-क्षेमः परिहासो ऽयं।
परीक्षां मा कृथा मम,
भका६.१५-२ मत्तो मा ऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः,

अतः परं सिजधिकारःŌ


भका६.१६-१ अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,
भका६.१६-२ मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये.
भका६.१७-१ मा स्म द्राक्षीर् मृषा दोषं, भक्तं मा मातिचिक्लिशः,
भका६.१७-२ शैलं न्यशिश्रियद् वामा, नदीं, नु प्रत्यदुद्रुवत्.
भका६.१८-१ ऐ वाचं देहि।
धैर्यं नस् तव हेतोरसुस्रुवत्.
भका६.१८-२ त्वं नो मतिमिवा ऽघासीर् नष्टा, प्राणानिवाऽदधः.
भका६.१९-१ रुदतो ऽशिश्वयच् चक्षुŌ रास्यं हेतोस् तवा ऽश्वयीत्,
भका६.१९-२ म्रिये ऽहं, मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम्.
भका६.२०-१ लक्ष्मणा ऽऽचक्ष्व, यद्याख्यत् सा किञ्चित् कोप-कारणम्,
भका६.२०-२ दोषे प्रतिसमाधानŌ मज्ञाते क्रियतां कथम्.
भका६.२१-१ इह सा व्यलिपद् गन्धैः, स्नान्तीहाऽभ्यषिचज् जलैः,
भका६.२१-२ इहा ऽहं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः
भका६.२२-१ तस्या ऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,
भका६.२२-२ अलिप्तेवा ऽनिलः शीतो वने तं, न त्वजिह्लदत्.
भका६.२३-१ स्नानभ्यषिचता ऽम्भो ऽसौ रुदन् दयितया विना
भका६.२३-२ तथा ऽभ्यषिक्त वारीणि पितृभ्यः शोक-मूर्च्छितः
भका६.२४-१ तथा ऽऽ र्तो ऽपि क्रियां धर्म्यां स काले ना ऽमुचत् क्वचित्,
भका६.२४-२ महतां हि क्रिया नित्या छिद्रे नैवा ऽवसीदति.
भका६.२५-१ आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,
भका६.२५-२ "एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्,
भका६.२६-१ स्व-पोषमपुषद् युष्मान् या पक्षि-मृग-शावकाः !
भका६.२६-२ अद्युतच् चेन्दुना सार्धं, तां प्रब्रूत, गता यतः."
भका६.२७-१ गिरिमन्वसृपद् रामो लिप्सुर् जनक-संभवाम्,
भका६.२७-२ तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन् महत्Ō
भका६.२८-१ "सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम्,
भका६.२८-२ इदं शोणितमभ्यग्रं सप्रहारे ऽच्युतत् तयोः.
भका६.२९-१ इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णीतो रथः,
भका६.२९-२ एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्
भका६.३०-१ मन्युर् मन्ये ममा ऽस्तम्भीद्, विषादो ऽस्तभदुद्यतिम्,
भका६.३०-२ अजारीदिव च प्रज्ञा, बलं शोकात् तथाजरत्.
भका६.३१-१ गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !
भका६.३१-२ जिघत्सोर् नूनमापादि ध्वंसो ऽयं तां निशा-चरात्."
भका६.३२-१ क्रुद्धो ऽदीपि रघु-व्याघ्रो, रक्त-नेत्रो ऽजनि क्षणात्,
भका६.३२-२ उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानु-वत्.
भका६.३३-१ अताय्यस्योत्तमं सत्वमप्यायि कृत-कृत्य-वत्,
भका६.३३-२ उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्.
भका६.३४-१ अदोहीव विषादो ऽस्य, समरुद्धेव विक्रमः,
भका६.३४-२ समभावि च कोपेन, न्यश्वसीच् चाऽऽयतं मुहुः.
भका६.३५-१ अथा ऽऽलम्ब्य धनू रामो जगर्ज गज-विक्रमः,
भका६.३५-२ "रुणध्मि सवितुर् मार्गं, भिनद्मि कुल-पर्वतान्.
भका६.३६-१ रिणच्मि जलधेस् तोयं, विविनच्मि दिवः सुरान्,
भका६.३६-२ क्षुणद्मि सर्पान् पाताले, छिनद्मि क्षणदा-चरान्.
भका६.३७-१ यमं युनज्मि कालेन समिन्धानो ऽस्त्र-कौशलम्,
भका६.३७-२ शुष्क-पेषं पिनष्म्युर्वीमखिन्दानः स्व-तेजसा
भका६.३८-१ भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,
भका६.३८-२ भनज्मि सर्व-मर्यादास्, तनच्मि व्योम विस्तृतम्
भका६.३९-१ न तृणेह्मीति लोको ऽयं मां विन्ते निष्-पराक्रम्,"
भका६.३९-२ एवं वदन् दाशरथिरपृणग् धनुशा शरं.
भका६.४०-१ न्यवर्तयत् सुमित्रा-भूस् तं चिकीर्षुं जगत्-क्षयम्,
भका६.४०-२ ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम्
भका६.४१-१ तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत,
भका६.४१-२ "मा वधिष्ठा जटायुं मां सीतां रामा ऽहमैक्षिषि."
भका६.४२-१ उपास्थितैवमुक्ते तं सखायं राघवः पितुः,
भका६.४२-२ पप्रच्छ जानकी-वार्तां संग्रामं च पतत्रिणम्.

ततो रावणमाख्याय द्विषन्तं पततां वरः


भका६.४३-१ व्रण-वेदनया ग्लायन् ममार गिरि-कन्दरे,
भका६.४३-२ तस्याग्न्यम्बु-क्रियां कृत्वा प्रतस्थाते पुनर् वनम्.
भका६.४४-१ सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता
भका६.४४-२ क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना.
भका६.४५-१ भुजौ चकृततुस् तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,
भका६.४५-२ स छिन्न-बाहुरपतद् विह्वलो ह्वलयन् भुवम्. इति प्रकीर्णकाः


अथ कृत्याऽधिकारःŌ


भका६.४६-१ प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत्
भका६.४६-२ आत्मानं वन-वासं च जेयं चा ऽरिं रघूत्तमः
भका६.४७-१ "लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,
भका६.४७-२ सह्यः कथं वियोगश् च, गद्यमेतत् त्वया मम."
भका६.४८-१ "अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन्,
भका६.४८-२ पाप-चर्यो मुनेः शापाज् जात" इत्यवदत् स तम्.
भका६.४९-१ "प्रयातस् तव यम्यत्वं शस्त्र-पूतो ब्रवीमि ते,
भका६.४९-२ रावणेन हृता सीता लङ्कां नीता सुरारिणा.
भका६.५०-१ ऋष्यमूके ऽनवद्यो ऽस्ति पण्य-भ्रातृ-वधः कपिः
भका६.५०-२ सुग्रीवो नाम, वर्यो ऽसौ भवता चारु-विक्रमः.
भका६.५१-१ तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्
भका६.५१-२ राक्षसं क्रूर-कर्माणं शक्राऽरिं दूर-वासिनम्.
भका६.५२-१ आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः
भका६.५२-२ वृषो यथोपसर्याया गोष्ठे गोर् दण्ड-ताडितः.
भका६.५३-१ तेन सङ्गतमार्येण रामा ऽजर्यं कुरु द्रुतम्.
भका६.५३-२ लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि.
भका६.५४-१ अनृतोद्यं न तत्रास्ति, सत्य-वद्यं ब्रवीम्यहम्.
भका६.५४-२ मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि.
भका६.५५-१ आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतः
भका६.५५-२ इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि.
भका६.५६-१ नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य-शालिनः,
भका६.५६-२ मन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते."
भका६.५७-१ स राजसूयŌयाजीव तेजसा सूर्य-सन्निभः
भका६.५७-२ अ-मृषोद्यं वदन् रुच्यो जगाहे द्यां निशा-चरः
भका६.५८-१ अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः
भका६.५८-२ रत्नाऽन्न-पान-कुप्यानामाटतुर् नष्टसंस्मृती.
भका६.५९-१ समुत्तरन्ताव-व्यथ्यौ नदान् भिद्योद्ध्य-सन्निभान्
भका६.५९-२ सिध्य-तारामिव ख्यातां शबरीमापतुर् वने.
भका६.६०-१ वसानां वल्कले शूद्धे विपूयैः कृत-मेखलाम्
भका६.६०-२ क्षामामञ्जन-पिण्डाऽऽभा दण्दिनीमजिना ऽऽस्तराम्
भका६.६१-१ प्रगृह्य-पद-वत् साध्वीं स्पष्ट-रूपाम-विक्रियाम्
भका६.६१-२ अ-गृह्यां वीत-काम-त्वाद् देव-गृह्याम-निन्दिताम्
भका६.६२-१ धर्म-कृत्य-रतां नित्यम-कृष्य-फल-भोजनाम्
भका६.६२-२ दृष्ट्वा ताममुचद् रामो युग्याऽऽयात इव श्रमम्.
भका६.६३-१ स तामूचे ऽथ-"कच्चित् त्वममावास्या-समन्वये
भका६.६३-२ पित् णां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः
भका६.६४-१ अवश्य-पाव्यं पवसे कच्चित् त्वं देव-भाग्घ्विः,
भका६.६४-२ आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि.
भका६.६५-१ आचाम्यं संध्ययोः कच्चित् सत्यक् ते न प्रहीयते,
भका६.६५-२ कच्चिदग्निमिवा ऽऽनाय्यं काले संमन्यसे ऽतिथिम्.
भका६.६६-१ न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति
भका६.६६-२ देव-कार्य-विघाताय धर्मद्रोही महोदये !
भका६.६७-१ कुण्ड-पाय्य-वतां कच्चिदग्निचित्या-वतां तथा
भका६.६७-२ कथाभी रमसे नित्यमुपचाय्य-वतां शुभे !

अथ प्रकीर्णकाःŌ


भका६.६८-१ वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान्,
भका६.६८-२ अजैषीः कामŌसंमोहौ, संप्राप्था विनयेन वा.
भका६.६९-१ ना ऽऽयस्यसि तपस्यन्ती, गुरून् सम्यगतूतुषः
भका६.६९-२ यमान् नोदविजिष्ठास् त्वं, निजाय तपसे ऽतुषः"
भका६.७०-१ अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीया ऽऽदरादसौ
भका६.७०-२ अर्चयित्वा फलैरर्च्यौ सर्वत्रा ऽऽख्यदनामयम्.

अतः परं कृदधिकारःŌ


भका६.७१-१ "सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः,
भका६.७१-२ द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरो ऽभवत्.
भका६.७२-१ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्
भका६.७२-२ वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ.
भका६.७३-१ "भृङ्गाऽऽली-कोकिल-क्रुङ्भिर् वाशनैः पश्य लक्ष्मण !
भका६.७३-२ रोचनैर् भूषितां पम्पा- मस्माकं हृदयाविधम्
भका६.७४-१ परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्
भका६.७४-२ उद्भासीनि जले-जानि दुन्वन्त्य्-अदयितं जनम्
भका६.७५-१ सर्वत्र दयिताऽधीनं सु-व्यक्तं रामणीयकम्
भका६.७५-२ येन जातं प्रियाऽपाये कद्-वदं हंस-कोकिलम्.
भका६.७६-१ पक्षिभिर् वितृदैर् यूना शाखिभिः कुसुमोत्किरैः
भका६.७६-२ अ-ज्ञो यो, यस्य वा ना ऽस्ति प्रियः, प्रग्लो भवेन् न सः.
भका६.७७-१ ध्वनीनामुद्धमैरेभिर् मधूनामुद्धयैर् भृशम्
भका६.७७-२ आजिघ्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम्.
भका६.७८-१ धारयैः कुसुमोर्मीणां पारयैर् बाधितुं जनान्
भका६.७८-२ शाखिभिर् हा हता भूयो हृदयानामुदेजयैः
भका६.७९-१ ददैर् दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्
भका६.७९-२ लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः.
भका६.८०-१ अवश्याय-कणाऽऽस्रावाश् चारु-मुक्ता-फल-त्विषः
भका६.८०-२ कुर्वन्ति चित्त-संस्रावं चलत्-पर्णाऽग्र-संभृताः
भका६.८१-१ अवसायो भविष्यामि दुःखस्या ऽस्य कदा न्वहम्,
भका६.८१-२ न जीवस्या ऽवहारो मां करोति सुखिनं यमः
भका६.८२-१ दह्ये ऽहं मधुनो लेहैर् दावैरुग्रैर् यथा गिरिः,
भका६.८२-२ नायः कोऽत्र स, येन स्यां बता ऽहं विगत-ज्वरः
भका६.८३-१ समाविष्टं ग्रहेणेव ग्राहेणेवा ऽऽत्तमर्णवे
भका६.८३-२ दृष्ट्वा गृहान् स्मरस्येव वनाऽन्तान् मम मानसम्
भका६.८४-१ वाताऽऽहति-चलच्-छाखा नर्तका इव शाखिनः
भका६.८४-२ दुःसहा ही परिक्षिप्ताः क्वणद्भिरलि-गाथकैः.
भका६.८५-१ एक-हायन-सारङ्ग-गती रघु-कुलोत्तमौ
भका६.८५-२ लवकौ शत्रु-शक्तीनामृष्यमूकमगच्छताम्.
भका६.८६-१ तौ वालि-प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः,
भका६.८६-२ "बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्."
भका६.८७-१ स शत्रु-लावौ मन्वानो राघवौ मलयं गिरिम्
भका६.८७-२ जगाम स-परीवारो व्योम-मायमिवोत्थितम्.
भका६.८८-१ शर्म-दं मारुतिं दूतं विषम-स्थः कपि-द्विपम्
भका६.८८-२ शोकाऽपनुदम-व्यग्रं प्रायुङ्क्त कपि-कुञ्जरः.
भका६.८९-१ विश्वास-प्रद-वेषो ऽसौ पथि-प्रज्ञः समाहितः
भका६.८९-२ चित्त-संख्यो जिगीषूणामुत्पपात नभस्-तलम्
भका६.९०-१ सुरा-पैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः
भका६.९०-२ ऋष्यमूकमगाद् भृङ्गैः प्रगीतं साम-गैरिव.
भका६.९१-१ तं मनो-हरमागत्य गिरिं वर्म-हरौ कपिः
भका६.९१-२ वीरौ सुखा ऽऽहरो ऽवोचद् भिक्षुर् भिक्षार्ह-विग्रहः.
भका६.९२-१ "बलिनावमूमद्रीन्द्रं युवां स्तम्बे-रमाविव
भका६.९२-२ आचक्षाथां मिथः कस्माच्छङ्करेणा ऽपि दुर्गमम्
भका६.९३-१ व्याप्तं गुहा-शयैः क्रूरैः क्रव्याद्भिः स-निशाचरैः
भका६.९३-२ तुङ्ग-शैल-तरु-छन्नं मानुषाणाम-गोचरम्.
भका६.९४-१ सत्वमेजय-सिंहाऽऽढ्यान् स्तनं-धाय-सम-त्विषौ
भका६.९४-२ कथं नाडिंधमान् मार्गानागतौ विषमोपलान्.
भका६.९५-१ अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,
भका६.९५-२ आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः.
भका६.९६-१ रामो ऽवोचद्धनूमन्तम् "आवामभ्रं-लिहं गिरिम्
भका६.९६-२ ऐव विद्वन्! पितुः कामात् पान्तावल्पं-पचान् मुनीन्.
भका६.९७-१ अ-मितं-पचमीशानं सर्व-भोगीणमुत्तमम्
भका६.९७-२ आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि.
भका६.९८-१ छलेन दयिता ऽरण्याद् रक्षसा ऽरुं-तुदेन नः
भका६.९८-२ अ-सूर्यं-पश्यया मूर्त्या हृता, तां मृगयावहे."
भका६.९९-१ प्रत्यूचे मारुति रामम् Ō "अस्ति वालीति वानरः"
भका६.९९-२ शमयेदपि संग्रामे यो ललाटं-तपं रविम्.
भका६.१००-१ उग्रं-पश्येन सुग्रीवस् तेन भ्राता निराकृतः,
भका६.१००-२ तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशं-वदः
भका६.१०१-१ प्रियं-वदो ऽपि नैवा ऽहं ब्रुवे मिथ्या परं-तप !,
भका६.१०१-२ सख्या तेन दश-ग्रीवं निहन्तासि द्विषं-तपम्.
भका६.१०२-१ वाचं-यमोऽहमनृते सत्यमेतद् ब्रवीमि ते,
भका६.१०२-२ एहि, सर्वं-सहं मित्रं सुग्रीवं कुरु वानरम्."
भका६.१०३-१ सर्वं-कष-यशः-शाखं राम-कल्प-तरुं कपिः
भका६.१०३-२ आदायाऽ भ्रं-कषं प्रायान् मलयं फल-शालिनम्.
भका६.१०४-१ मेघं-करमिवायान्तमृतुं रामं क्लमान्विताः
भका६.१०४-२ दृष्ट्वा मेने नसुग्रीवो वालि-भानुं भयं-करम्.
भका६.१०५-१ उपाŌग्न्यकुरुतां सख्यमन्योन्यस्य प्रियं-करौ,
भका६.१०५-२ क्षेमं-कराणि कार्याणि पर्यालोचयतां ततः.
भका६.१०६-१ आशितं-भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्
भका६.१०६-२ बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्
भका६.१०७-१ ततो बलिं-दम-प्रख्यं कपि-विश्वं-भराऽधिपम्
भका६.१०७-२ सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम्
भका६.१०८-१ "वसुं-धरायां कृत्स्नायां नाऽस्ति वालि-समो बली,
भका६.१०८-२ हृदयं-गममेतत् त्वां ब्रवीमि, न पराभवम्.
भका६.१०९-१ दूर-गैरन्त-गैर् बाणैर् भवानत्यन्त-गः श्रियः
भका६.१०९-२ अपि संक्रन्दनस्य स्यात् क्रुद्धः, किमुत वालिनः
भका६.११०-१ वरेण तु मुनेर् वाली संजातो दस्युहो रणे
भका६.११०-२ अ-वार्य-प्रसरः प्रातरुद्यन्निव तमोऽपहः
भका६.१११-१ अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते
भका६.१११-२ चेतो वालि-वधं राम ! क्लेशापहमुपस्थितम्.
भका६.११२-१ शीर्ष-घातिनमायातमरीणां त्वां विलोकयन्
भका६.११२-२ पतिघ्नी-लक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्.
भका६.११३-१ शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्न-कृत्रिमान्
भका६.११३-२ शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपाय-वान्.
भका६.११४-१ आढ्यं-करण-विक्रान्तो महिषस्य सुरद्विषः
भका६.११४-२ प्रियं-करणमिन्द्रस्य दुष्करं कृतवान् वधम्.
भका६.११५-१ प्रियंŌभावुकतां यातस् तं क्षिपन् योजनं मृतम्
भका६.११५-२ स्वर्गे प्रियं-भविष्णुश् च क्र्त्स्नं शक्तो ऽप्यबाधयन्",
भका६.११६-१ जिज्ञासोः शक्तिमस्त्राणां रामो न्यून-धियः कपेः
भका६.११६-२ अभीनत् प्रतिपत्त्यर्थं सप्त व्योम स्पृशस् तरून्.
भका६.११७-१ ततो वालि-पशौ वध्ये राम-र्त्विग्-जित-साध्वसः
भका६.११७-२ अभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृक्.
भका६.११८-१ गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन्
भका६.११८-२ भ्रातरं युङ् भियः संख्ये घोषेणा ऽऽपूरयन् दिशः
भका६.११९-१ व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः
भका६.११९-२ बाणमुद्यतमायंसीदिक्ष्वाकु-कुल-नन्दनः.
भका६.१२०-१ ऋष्यमूकमगात् क्लन्तः कपिर् मृग-सदृग् द्रुतम्
भका६.१२०-२ किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्.
भका६.१२१-१ कृत्वा वालि-द्रुहं रामो मालया स-विशेषणम्.
भका६.१२१-२ अङ्गद-स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे.
भका६.१२२-१ तयोर् वानर-सेनान्योः संप्रहारे तनुच्छिदम्
भका६.१२२-२ वालिनो दूर-भाग् रामो बाणं प्राणाऽदमत्यजत्
भका६.१२३-१ वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम्
भका६.१२३-२ बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश
भका६.१२४-१ धिग् दाशरथिमित्यूचुर् मुनयो वन-वर्तिनः.
भका६.१२४-२ उपेयुर् मधु-पायिन्यः क्रोशन्त्यस् तं कपि-स्त्रियः.
भका६.१२५-१ राममुच्चैरुपालब्ध शूर-मानी कपि-प्रभुः
भका६.१२५-२ व्रण-वेदनया ग्लायन्साधुं-मन्यम-साधुवत्.
भका६.१२६-१ "मृषा ऽसि त्वं हविर्-याजी राघव ! छद्म-तापसः
भका६.१२६-२ अन्य-व्यासक्त-घातित्वाद् ब्रह्मघ्नां पाप-संमितः.
भका६.१२७-१ पाप-कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः
भका६.१२७-२ मामपापं दुराचार ! किं निहत्या ऽभिधास्यसि.
भका६.१२८-१ अग्नि-चित् सोम-सुद् राजा रथ-चक्र-चिदाऽऽदिषु
भका६.१२८-२ अनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता.
भका६.१२९-१ मांस-विक्रयिणः कर्म व्याधस्या ऽपि विगर्हितम्
भका६.१२९-२ मां घ्नता भवता ऽकारि निःषङ्कं पाप-दृष्वना.
भका६.१३०-१ बुद्धिपूर्वं ध्रुवन् न त्वा राज-कृत्वा पिता खलम्
भका६.१३०-२ सहयुध्वानमन्येन यो ऽहिनो मामनागसम्
भका६.१३१-१ पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः,
भका६.१३१-२ कौशल्या-ज ! शशाऽऽदीनां तेषां नैको ऽप्यहं कपिः.
भका६.१३२-१ कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि,
भका६.१३२-२ आत्माऽनुजस्य जिह्रेषि सौमित्रेस् त्वं कथं न वा.
भका६.१३३-१ मन्ये किं-जमहं घ्नन्तं त्वाम-क्षत्त्रिय-जे रणे
भका६.१३३-२ लक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः".
भका६.१३४-१ प्रत्यूचे वालिनं रामोŌ"ना ऽकृतं कृतवानहम्
भका६.१३४-२ यज्वभिः सुत्वभिः पूवैर् जरद्भिश् च कपीष्वर !
भका६.१३५-१ ते हि जालैर् गले पाशैस् तिरश्चामुपसेदुषाम्
भका६.१३५-२ ऊषुषां पर-दारैश् च सार्धं निधनमैषिषुः.
भका६.१३६-१ अहं तु षुष्रुवान्Ōभ्रात्रा स्त्रियं भुक्तां कनीयसा
भका६.१३६-२ उपेयिवाननूचानैर् निन्दितस्-त्वं लता-मृग !
भका६.१३७-१ अन्वनैषीत् ततो वाली त्रपा-वानिव राघवम्.
भका६.१३७-२ न्यक्षिपच् चाऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियं
भका६.१३८-१ म्रियमाणः स सुग्रीवं प्रोचे सद्-भावमागतःŌ
भका६.१३८-२ "संभाविष्याव एकस्यामभिजानासि मातरि.
भका६.१३९-१ अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च,
भका६.१३९-२ अभिजानीहि तत् सर्वं, बन्धूनां समयो ह्ययम्.
भका६.१४०-१ दैवं न विदधे नूनं युगपत् सुखमावयोः,
भका६.१४०-२ शश्वद् बहूव तद् दुःस्थं यतो न" इतिहा ऽकरोत्.
भका६.१४१-१ ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,
भका६.१४१-२ राज्यं संदिश्य भोगाम्श् च ममार व्रण-पीडितः
भका६.१४२-१ तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया
भका६.१४२-२ किष्किन्धाऽद्रि-गुहां गन्तुं मनः प्रणिदधे द्रुतम्
भका६.१४३-१ नाम-ग्राहं कपिभिरशनैः स्तूयमानः समन्ता- दन्वग्-भावं रघु-वृषभयोर् वानरेन्द्रो विराजन्
भका६.१४३-२ अभ्यर्णे ऽम्भः-पतन-समये पर्णलीभूत-सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जद्-द्विरेफम्.


भका७.१-१ ततः कर्ता वनाऽऽकम्पं ववौ वर्षा-प्रभञ्जनः,
भका७.१-२ नभः पूरयितारश् च समुन्नेमुः पयो-धराः.
भका७.२-१ तर्पणं प्रजनिष्णूनां षस्यानाम-मलं पयः
भका७.२-२ रोचिष्णवः स-विस्फूर्जा मुमुचुर् भिन्न-वद् घनाः
भका७.३-१ निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः
भका७.३-२ अलंकरिष्णवो भान्तस् तडित्वन्तश् चरिष्णवः
भका७.४-१ तान् विलोक्या ऽसहिष्णुः सन् विललान्पोन्मदिष्णु-वत्
भका७.४-२ वसन् माल्यवति ग्लास्नू रामो जिष्णुर-धृष्णु-वत्
भका७.५-१ "भ्रमी कदम्ब-संभिन्नः पवनः शमिनामपि
भका७.५-२ क्लमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः.
भका७.६-१ संज्वारिणेव मनसा ध्वान्तमायासिना मया
भका७.६-२ द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम्.
भका७.७-१ कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्
भका७.७-२ अभ्याघातिभिरामिश्राश् चातकैः परिराटिभिः.
भका७.८-१ संसर्गी परिदाहीव शीतो ऽप्याभाति शीकरः,
भका७.८-२ सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः.
भका७.९-१ एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्
भका७.९-२ पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम्.
भका७.१०-१ कूर्याद् योगिनमप्येष स्फूर्जा-वान् परिमोहिनम्
भका७.१०-२ त्यागिनं सुख-दुःखस्य परिक्षेप्यम्भसामृतुः.
भका७.११-१ विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम्
भका७.११-२ पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्.
भका७.१२-१ प्रलापिनो भविष्यन्ति कदा न्वेते ऽपलाषिणः."
भका७.१२-२ प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः.
भका७.१३-१ निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्
भका७.१३-२ प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः
भका७.१४-१ अथोपशरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैः
भका७.१४-२ उत्कण्ठा-वर्धनैः शुभ्रं रवणैरम्बरं ततम्.
भका७.१५-१ विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत्Ō
भका७.१५-२ "पश्य दन्द्रमणान् हंसानरविन्दŌसमुत्सुकान्.
भका७.१६-१ कपिश् चङ्क्रमणो ऽद्यापि ना ऽसौ भवति गर्धनः,
भका७.१६-२ कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्.
भका७.१७-१ ना ऽवैत्याप्यायितारं किं कमलानि रविं कपिः
भका७.१७-२ दीपितारं दिनाऽऽरम्भे निरस्त-ध्वान्त-संचयम्.
भका७.१८-१ अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहे
भका७.१८-२ गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्.
भका७.१९-१ जल्पाकीभिः सहा ऽऽसीनः स्त्रीभिः प्रजविना त्वया
भका७.१९-२ गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः
भका७.२०-१ शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी
भका७.२०-२ न्यायं परिभवी ब्रूहि पापम-व्यथिनं कपिम्.
भका७.२१-१ स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुम-दयालु-वत्
भका७.२१-२ श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्."
भका७.२२-१ सृमरो भङ्गुर-प्रज्ञो गृहीत्वा भासुरं धनुः
भका७.२२-२ विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्.
भका७.२३-१ तं जागरूकः कार्येषु दन्दशूक-रिपुं कपिः
भका७.२३-२ अ-कम्प्रं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम्
भका७.२४-१ कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः
भका७.२४-२ इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्.
भका७.२५-१ "अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह
भका७.२५-२ अ-भीरुरवसं स्त्रीभिर् भासुराभिरीहेश्वरः.
भका७.२६-१ विद्यन्-नाशं रवेर् भासं विभ्राजं शश-लाञ्छनम्
भका७.२६-२ राम-प्रत्तेषु भोगेषु नाहमज्ञासिषं रतः
भका७.२७-१ एष शोक-च्छिदो वीरान् प्रभो ! सम्प्रति वानरान्
भका७.२७-२ धरा-शैल-समुद्राणामन्त-गान् प्रहिणोम्यहम्.

अथ निरधिकारकृत्Ō


भका७.२८-१ राघवस्य ततः कार्यं कारुर् वानर-पुङ्गवः
भका७.२८-२ सर्व-वानर-सेनानामाश्वागमनमादिशत्.
भका७.२९-१ "वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः
भका७.२९-२ कारका मित्र-कार्याणि सीता-लाभाय", सो ऽब्रवीत्."
भका७.३०-१ ततः कपीनां संघाता हर्षाद् राघव-भूतये
भका७.३०-२ पूरयन्तः समाजग्मुर् भय-दाया दिशो दश.
भका७.३१-१ सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्
भका७.३१-२ करिष्यन्त इवाऽकस्माद् भुवनं निर्-दशाननम्.
भका७.३२-१ कर्ता ऽस्मि कार्यमायातैरेभिरित्यवगम्य सः
भका७.३२-२ काकुत्स्थ-पादप-च्छायां सीत-स्पर्शामुपागमत्.
भका७.३३-१ कार्यं सार-निभं दृष्ट्वा वानराणां समागमम्
भका७.३३-२ अवैन् नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः.
भका७.३४-१ ततः कपि-समाहारमेऽकनिश्चायमागतम्
भका७.३४-२ उपाध्यायऽिवाऽऽयामं सुग्रीवोऽध्यापिपद् दिशाम्
भका७.३५-१ स-जलाऽम्भो-द-संरावं हनु-मन्तं सहाऽङ्गदम्
भका७.३५-२ जाम्बवं नील-सहितं चारु-सन्द्रावमब्रवीत्Ō
भका७.३६-१ "यात यूयं यम-श्रायं दिशं नायेन दिक्षणाम्
भका७.३६-२ विक्षावस् तोय-विश्रावं तर्जयन्तो महोदधेः
भका७.३७-१ उन्नायानधिगच्छन्तः प्रद्रावैर् वसुधा-भृताम्
भका७.३७-२ वनाऽभिलावान् कुर्वन्तः स्वेच्छया चारु-विक्रमाः
भका७.३८-१ सदोद्गार-सुगन्धीनां फलानामलमाशिताः
भका७.३८-२ उत्कारेषु च धान्यानामनभीष्ट-परिग्रहाः
भका७.३९-१ संस्तावमिव शृण्वन्तश् छन्दोगानां महाध्वरे
भका७.३९-२ शिञ्जितं मधु-लेहानां पुष्प-प्रस्तार-शायिनाम्
भका७.४०-१ आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः
भका७.४०-२ स्वादयन्तः फल-रसं मुष्टि-संग्राह-पीडितम्.
भका७.४१-१ न्याय्यं यद् यत्र, तत् कार्यं पर्यायेणा ऽविरोधिभिः,
भका७.४१-२ निशोपशायः कर्तव्यः फलोच्चायश् च संहतैः
भका७.४२-१ सीता रक्षो-निकायेषु स्तोक-कायैश् छलेन च
भका७.४२-२ मृग्या शत्रु-निकायानां व्यावहासीमनाश्रितैः
भका७.४३-१ सांराविणं न कर्तव्यं, यावन् नाऽऽयाति दर्शनम्,
भका७.४३-२ संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः.
भका७.४४-१ प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः
भका७.४४-२ ज्ञातव्या चेङ्गितैर् ध्यायन्ती राघवाऽऽगमम्.
भका७.४५-१ वेदि-वत् स-परिग्राहा यज्ञयैः संस्कृता द्विजैः
भका७.४५-२ दृश्या मास-तमागह्नः प्राग-निन्दित-वेश-भृत्
भका७.४६-१ नीवार-फल-मूलाऽशानृषीनप्यतिशेरते
भका७.४६-२ यस्य गुणा निरुद्द्रावास् तां द्रुतं यात, पश्यत.
भका७.४७-१ उच्छ्राय-वान् घनाऽऽरावो वानरं जलदाऽरवम्
भका७.४७-२ दूराऽऽप्लावं हनू-मन्तं रामः प्रोचे गजाऽऽप्लवः
भका७.४८-१ "अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,
भका७.४८-२ प्रर्थयध्वं तथा सीतां, यात सुग्रीव-शासनम्
भका७.४९-१ वणिक् प्रग्राह-वान् यद्वत् काले चरति सिद्धये,
भका७.४९-२ देशाऽपेक्षास् तथा यूयं याता ऽऽदायाऽङ्गुलीयकम्."
भका७.५०-१ अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम्
भका७.५०-२ वाजिनः स्यन्दने भानोर् विमुक्त-प्रग्रहा इव.
भका७.५१-१ उदक् शतवलिं कोट्या, सुषेणं पक्षिमां तथा
भका७.५१-२ दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः
भका७.५२-१ प्राचीं तावद्भिर-व्यग्रः कपिभिर् विनतो ययौ
भका७.५२-२ अ-प्रग्राहैरिवाऽऽदित्यो वाजिभिर्-दूर-पातिभिः.
भका७.५३-१ ययुर् विन्ध्यं शरन्-मेघैः प्रावारैः प्रवरैरिव
भका७.५३-२ प्रच्छन्नं मारुति-प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः
भका७.५४-१ परिभावं मृगेन्द्राणां कुर्वन्तो नग-मूर्धसु
भका७.५४-२ विन्ध्ये तिग्मांशु-मार्गस्य चेरुः परिभवोपमे.
भका७.५५-१ भ्रेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरतरान् नदान्
भका७.५५-२ आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम्
भका७.५६-१ आदरेण गमं चक्रुर् विषमेस्वप्य-सङ्घसाः
भका७.५६-२ व्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः स-व्यधान् हरीन्.
भका७.५७-१ संचेरुः स-हसाः केचिद,-स्वनाः केचिदाटिषुः
भका७.५७-२ संयाम-वन्तो यति-वन्, निगदानपरे ऽमुचन्.
भका७.५८-१ अथ क्लमाद-निःक्वाणा नराः क्षीण-पणा इव
भका७.५८-२ अ-मदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः.
भका७.५९-१ ततः स-संमदास् तत्र निरैक्षन्त पतत्रिणः
भका७.५९-२ गुहा-द्वारेण निर्यातः समजेन पशूनिव.
भका७.६०-१ वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम्
भका७.६०-२ प्राविशन्नाहव-प्रज्ञा आहावमुपलिप्सवः.
भका७.६१-१ कुर्वन्तो हवमाप्तानां पिपासा-वध-काङ्क्षिणः
भका७.६१-२ द्वारं तमो-घन-प्रख्यं गुहायाः प्राविशन् द्रुतम्.
भका७.६२-१ तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौध-सद्मनः.
भका७.६२-२ लौहोद्घन-घन-स्कन्धा ललिताऽपघनां स्त्रियम्
भका७.६३-१ सा स्तम्बघ्न-पद-न्यासान् विघनेन्दु-सम-द्युतिः
भका७.६३-२ परिघोरु-भुजानाह हसन्ती स्वागतं कपीन्.
भका७.६४-१ पिप्राया ऽद्रि-गुहोपघ्नानुद्घान् संघसमागतान्
भका७.६४-२ फलैर् नाना-रसैश् चित्रैः स्वादु-शीतैश्-च वारिभिः
भका७.६५-१ निघाऽनिघ-तरु-च्छन्ने तस्मिंस् ते लब्ध्रिमैः फलैः
भका७.६५-२ तृप्तास् तां भ्राजथु-मतीं पप्रच्छुः-"कस्य पूरियम्."
भका७.६६-१ "रक्ष्णं करोषि कस्मात् त्वं, यत्नेना ऽऽख्यायतां शुभे !
भका७.६६-२ स्वप्ने निधि-वदाभाति तव संदर्शनं हि नः.
भका७.६७-१ ततो जलधि-गम्भीरान् वानरान् प्रत्यवाच साŌ
भका७.६७-२ "इयं दानव-राजस्य पूः सृष्टिर् विश्वकर्मणः
भका७.६८-१ जिहतश् च स्थितिं भिन्दन् दानवोऽसौ जल-द्विषा,
भका७.६८-२ दुहिता मेरुसावर्णेरहं नाम्ना स्वयं-प्रभा.
भका७.६९-१ जूतिमिच्छथ चेत् तूर्णं, कीर्तिं वा पातुमात्मनः
भका७.६९-२ करोमि वा बहिर्-यूतीन्, पिधध्वं पाणिभिर्दृशः"
भका७.७०-१ प्रज्या-यती निरुद्धाऽक्षान् विद्येवाऽनुष्ठित-क्रियान्
भका७.७०-२ निरचिक्रमदिच्छा-तो वानरांश् चङ्क्रमा-वतः.
भका७.७१-१ निष्क्रम्य शिक्षया तस्यास् त्रपा-वन्तो रसा-तलात्
भका७.७१-२ ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे.
भका७.७२-१ चिन्ता-वन्तः कथां चक्रुरुपधा-भेद-भीरवः
भका७.७२-२ "अ-कृत्वा नृ-पतेः कार्यं पूजां लप्स्यामहे कथम्.
भका७.७३-१ प्रायोपासनया शान्तिं मन्वानो वालि-संभवः
भका७.७३-२ युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम्
भका७.७४-१ प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्
भका७.७४-२ "धिक् शालभञ्जिका-प्रख्यान् विशयान् कल्पना-रुचीन्,
भका७.७५-१ यां कारिं राज-पुत्रो, ऽयमनुतिष्ठति, तां क्रियाम्
भका७.७५-२ अहमप्यनुतिष्ठामि" सो ऽप्युक्त्वैवमुपाविशत्.
भका७.७६-१ उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरात्
भका७.७६-२ "अहं पर्यायŌसंप्राप्तां कुर्वे प्रायोपवेशिकाम्
भका७.७७-१ अ-भावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्व-जीवनिः,"
भका७.७७-२ इत्युक्त्वा सर्व एवा ऽस्थुर् बद्ध्वा योगाऽऽसनानि ते.
भका७.७८-१ अ-क्लेश्यमसिना ऽग्न्यन्तं कबन्ध-वधमभ्यधुः,
भका७.७८-२ धिङ् नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत्.
भका७.७९-१ ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम्
भका७.७९-२ अशनीयमिवाशंसुर् महानायाद-शोभनः
भका७.८०-१ देह-व्रश्चन-तुण्डाऽग्रं तं विलोक्या ऽशुभाऽऽकरम्
भका७.८०-२ पाप-गोचरमात्मानमशोचन् वानरा मुहुः
भका७.८१-१ "जटायुः पुण्य-कृत् पक्षी दण्डकारण्य-सञ्चरः
भका७.८१-२ कृत्वा राघव-कार्यं यः स्वराऽऽरूढो ऽग्नि-संस्कृतः
भका७.८२-१ नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकमागतः,
भका७.८२-२ अ-चेष्टा यदिहा ऽन्यायादनेना ऽत्स्यामहे वयं
भका७.८३-१ हृदयोदङ्क-संस्थानं कृतान्ताऽऽनाय-सन्निभम्
भका७.८३-२ शरीराऽऽखन-तुण्डाऽग्रं प्राप्या-ऽमुं शर्म दुर्लभम्.
भका७.८४-१ ईषदाढ्यङ्करो ऽप्येष न परत्रा ऽशुभ-क्रिया,
भका७.८४-२ अस्मानत्तुमितो ऽभ्येति परिग्लानो बुभुक्षया."
भका७.८५-१ संप्राप्य वानरान् पक्षी जगाद मधुरं वचःŌ
भका७.८५-२ "के यूयं दुरुपस्थाने मनसा ऽप्यद्रि-मूर्धनि.

अथ प्रकीर्णकाः


भका७.८६-१ आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम्,
भका७.८६-२ समानोदर्यमस्माकं जटायुं च स्थुथा ऽऽदरात्.
भका७.८७-१ शङ्का-धवित्र-वचनं प्रत्यूचुर् वानराः खगम्Ō
भका७.८७-२ "वयं शत्रु-लवित्रेषोर् दूता रामस्य भू-पतेः.
भका७.८८-१ केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्
भका७.८८-२ हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्.
भका७.८९-१ त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम्
भका७.८९-२ अ-कृताऽर्था विशीदन्तः पर-लोकमुपास्महे.
भका७.९०-१ म्रियामहे, न गच्छामः कौशल्यायनि-वल्लभाम्
भका७.९०-२ उपलम्भ्याम-पश्यन्तः कौमारीं पततां वर !"
भका७.९१-१ जगाद वानरान् पक्षी-"नाध्यगीढ्वं ध्रुवं स्मृतिम्
भका७.९१-२ यूयं संकुटियुं यस्मात् काले ऽस्मिन्नध्यवस्यथ.
भका७.९२-१ नाऽयमुद्विजितुं कालः स्वामि-कार्याद् भवादृशाम्
भका७.९२-२ हृत-भार्ये च्युते राज्याद् रामो पर्युत्सुके भृशम्.
भका७.९३-१ यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,
भका७.९३-२ प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्.
भका७.९४-१ लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम्
भका७.९४-२ निर्जित्य शक्रमानीता ददृशुर् यां सुर-स्त्रियः
भका७.९५-१ बभूव या ऽधिशैलेन्द्रं मृदित्वेवेन्द्र-गोचरम्
भका७.९५-२ कुषित्वा जगतां सारं सैका शङ्के कृता भुवि.
भका७.९६-१ अ-मृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैः
भका७.९६-२ उदित्वा ऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता.
भका७.९७-१ मुषित्वा धन-दं पापो यां गृहीत्वा ऽऽवसद् द्विषन्,
भका७.९७-२ तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्.
भका७.९८-१ विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः
भका७.९८-२ उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः.
भका७.९९-१ ना ऽविविदिषुम्भ्येति सम्पद् रुरुदिषुं नरम्,
भका७.९९-२ किं मुमुषिषु-वद् यात द्विषो ना ऽपचिकीर्षया.
भका७.१००-१ बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,
भका७.१००-२ मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं
भका७.१०१-१ समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,
भका७.१०१-२ नोपायध्वं भयं, सीतां नोपायंस्त दशाननः.
भका७.१०२-१ ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्
भका७.१०२-२ सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिषता ऽधिकम्.
भका७.१०३-१ निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्
भका७.१०३-२ मणि-रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय-धिम्
भका७.१०४-१ अ-मर्षितमिव घ्नन्तं तटाऽद्रीन् मलिलोर्मिभिः
भका७.१०४-२ श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्
भका७.१०५-१ पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वेव स्थितं रुचः
भका७.१०५-२ गुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः
भका७.१०६-१ वञ्चित्वा ऽप्यम्बरं दूरं स्वस्मिंस् तिष्ठन्तमात्मनि
भका७.१०६-२ तृषित्वेवा ऽनिशं स्वादु पिबन्तं सरितां पयः
भका७.१०७-१ द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्
भका७.१०७-२ मेरोर् जेतुमिवा ऽऽभोगमुच्चैर् दिद्योतिषुं मुहुः.
भका७.१०८-१ विलोक्य सलिलोच्चयानधि-समुद्रमभ्रंलिहान् भ्रमन्-मकर भीषणं समधिगम्य चा ऽधः पयः
भका७.१०८-२ गमाऽऽगम-सहं द्रुतं कपि-वृषाः परिप्रैषयन् गजेन्द्र-गुरु-विक्रमं तरु-मृगोत्तमं मारुतिम्.


भका८.१-१ आगाधत ततो व्योम हनूमानुरु-विग्रहः,
भका८.१-२ अत्यशेरत तद्-वेगं न सुपर्णाऽर्क-मारुताः
भका८.२-१ अभायत यथाऽर्केण सुप्रातेन शरन्-मुखे,
भका८.२-२ गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः.
भका८.३-१ वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी,
भका८.३-२ व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम्.
भका८.४-१ व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः
भका८.४-२ व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः.
भका८.५-१ व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः
भका८.५-२ जघानाऽऽविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम्
भका८.६-१ अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान्
भका८.६-२ उदन्वांश् चानिलोद्धूतो म्रियमाणा च राक्षसी.
भका८.७-१ न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम्
भका८.७-२ सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम्
भका८.८-१ कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्
भका८.८-२ पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत.
भका८.९-१ खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्
भका८.९-२ जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम्.
भका८.१०-१ फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,
भका८.१०-२ साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्.
भका८.११-१ क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः
भका८.११-२ न तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया.
भका८.१२-१ त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम्,
भका८.१२-२ उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते.
भका८.१३-१ ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्या-त्रयं द्विजाः,
भका८.१३-२ रक्षोभिस् तापितास् तेऽपि सिद्धिं द्यायन्ति तेऽधुना.
भका८.१४-१ अ-व्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,
भका८.१४-२ रविर् वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्.
भका८.१५-१ तीव्रमुत्तपमानो ऽयम-शक्यः सोढुमातपः,
भका८.१५-२ आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः.
भका८.१६-१ संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,
भका८.१६-२ समारन्त ममा ऽभीष्टाः संकल्पास् त्वय्युपागते.
भका८.१७-१ के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा,
भका८.१७-२ यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्.
भका८.१८-१ द्यामिवावयमानं तमवोचद् भूधरं कपिः
भका८.१८-२ उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीवि-वत्.
भका८.१९-१ "कुल-भार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्
भका८.१९-२ यामि त्वरा-वान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः.
भका८.२०-१ योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः,
भका८.२०-२ विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्.
भका८.२१-१ विकुर्वे नगरे तस्य पापस्या ऽद्य रघु-द्विषः,
भका८.२१-२ विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः.
भका८.२२-१ विनेष्ये क्रोधमथवा क्रममाणोऽरि-संसदि"
भका८.२२-२ इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर् नभस्वतः.
भका८.२३-१ परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्
भका८.२३-२ दिवमाक्रममाणेव केतु-तारा भय-प्रदा.
भका८.२४-१ जले विक्रममाणाया हनूमान् शत-योजनम्
भका८.२४-२ आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः.
भका८.२५-१ द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम्,
भका८.२५-२ उपाक्रंस्ता ऽऽकुलं घोरैः क्रममाणैर् निशाचरैः
भका८.२६-१ आत्मानमपजानानः शश-मात्रो ऽनयद् दिनम्,
भका८.२६-२ ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पटुः.
भका८.२७-१ संजानानान् परिधरन् रावणाऽनुचरान् बहून्
भका८.२७-२ लङ्कां समाविशद् रात्रौ वदमानोऽरि-दुर्गमाम्.
भका८.२८-१ किंचिन् नोपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न,
भका८.२८-२ शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्.
भका८.२९-१ जल्पितोत्क्रुष्ट-संगीत-प्रनृत्त-स्मित-वल्गितैः
भका८.२९-२ घोषस्यान्ववदिष्टेव लङ्का पुता-क्रतोः पुरः
भका८.३०-१ ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः
भका८.३०-२ तथाऽवगिरमाणैश् च पिशाचैर् माम्स-शोणितम्.
भका८.३१-१ यथा-स्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,
भका८.३१-२ पान-शौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च.
भका८.३२-१ यानैः समचरन्ता ऽन्ये कुञ्जराऽश्व-रथाऽऽदिभिः,
भका८.३२-२ संप्रायच्छन्त बन्दीभिरन्ये पुष्प-फलं शुभम्.
भका८.३३-१ कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नाऽऽसवम्,
भका८.३३-२ प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः
भका८.३४-१ प्रादिदृक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान्
भका८.३४-२ रामं सुस्मूर्षमाणोऽसौ कपिर् विरह-दुःखितम्.
भका८.३५-१ अनुजिज्ञासतेवाऽथ लङ्का-दर्षनमिन्दुना
भका८.३५-२ तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत.
भका८.३६-१ आशुश्रूषन् स मैथिल्या वार्तां हर्म्येषु रक्षसाम्
भका८.३६-२ शीयमानऽन्धकारेषु समचारीद-शङ्कितः.
भका८.३७-१ शत-साहस्रमारक्षं मध्यगं रक्षसां कपिः
भका८.३७-२ ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्,
भका८.३८-१ अध्यासिसिषमाणे ऽथ वियन्-मध्यं निशा-करे
भका८.३८-२ कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः
भका८.३९-१ इन्दुं चषक-संक्रान्तमुपायुङ्क्त यथाऽमृतम्,
भका८.३९-२ पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः
भका८.४०-१ संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्
भका८.४०-२ ज्योत्स्नायां विगलन्-मानस् तरुणो रक्षसां गणः
भका८.४१-१ मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके
भका८.४१-२ आत्मानं सुरताऽऽभोग-विश्रम्भोत्पादनं मुहुः
भका८.४२-१ अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः
भका८.४२-२ अविस्मापयमानस् तान् कपिरोटीद् गृहाद् गृहम्,
भका८.४३-१ सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्,
भका८.४३-२ अवञ्चयत मायाश् च स्व-मायाभिर् नरद्विषाम्,
भका८.४४-१ अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः
भका८.४४-२ "मिथ्या कारयते चारैर् घोषणां राक्षसाऽधिपः"
भका८.४५-१ गूहमानः स्व-माहात्म्यमटित्वा मन्त्रि-संसदः
भका८.४५-२ नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ,
भका८.४६-१ दिशो द्योतयमानाभिर् दिव्य-नारीभिराकुलम्
भका८.४६-२ श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्
भका८.४७-१ नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु
भका८.४७-२ जानानाभिरलं लीला-किल किंचित-विभ्रमान्
भका८.४८-१ स्वं कर्म कारयन्नास्ते निश्चिन्तो या झष-ध्वजः,
भका८.४८-२ स्वार्थं कारयमाणाभिर् यूनो मद-विमोहितान्
भका८.४९-१ कान्तिं स्वां वहमानाभिर् यजन्तीभिः स्व-विग्रहान्
भका८.४९-२ नेत्रैरिव पिबन्तीभिः पश्यतां चित्त-संहतीः
भका८.५०-१ ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति
भका८.५०-२ विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्.
भका८.५१-१ तस्मिन् कैलास-संकाशां शिरः-शृङ्गं भज-द्रुमम्
भका८.५१-२ अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत-श्रियम्
भका८.५२-१ प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्
भका८.५२-२ मघोने परिमृष्यन्तमारभन्तं परं स्मरे
भका८.५३-१ व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र-दृक्,
भका८.५३-२ क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः.
भका८.५४-१ उपारंसीच् च संपश्यन् वानरस् तं चिकीर्षितात्
भका८.५४-२ रम्यं मेरुमिवाऽऽधूत-काननं श्वसनोर्मिभिः
भका८.५५-१ दृष्ट्वा दयितया साकं रहीभूतं दशाननम्
भका८.५५-२ ना ऽत्र सीतेत्युपारंस्त दुर्मना वायु-संभवः.
भका८.५६-१ ततः प्राकारमारोहत् क्षपाटानविबोधयन्,
भका८.५६-२ नाऽयोधयत् समर्थोऽपि सीता-दर्शन-लालसः.
भका८.५७-१ अध्यासीद्, "राघवस्या ऽहं नाशयेयं कथं शुचम्,
भका८.५७-२ वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्.
भका८.५८-१ दृष्ट्वा राघव-कान्तां तां द्रावयिष्यामि राक्षसान्,
भका८.५८-२ तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश-कृत्.
भका८.५९-१ चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः
भका८.५९-२ अशोक-वनिकामारादपश्यत् स्तबकाऽऽचिताम्.
भका८.६०-१ तां प्राविशत् कपि-व्याघ्रस् तरून-चलयन् शनैः
भका८.६०-२ अ-त्रासयन् वन-शयान् सुप्तान् शाखासु पक्षिणः.
भका८.६१-१ अवाद् वायुः शनैर् यस्यां लतां नर्तयमान-वत्
भका८.६१-२ नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य-संपदः.
भका८.६२-१ ज्योत्स्ना ऽमृतं शशी वस्यां वापीर् विकसितोत्पलाः
भका८.६२-२ अपाययत संपूर्णः सदा दश-मुखाऽऽज्ञया.
भका८.६३-१ प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः
भका८.६३-२ परिमोहयमाणाभी राक्षसीभिः समावृताः.
भका८.६४-१ यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्
भका८.६४-२ न त्वरोचयता ऽऽत्मानं चतुरो वृद्धि-मानपि
भका८.६५-१ मन्दायमान-गमनो हरितायत्-तरुं कपिः,
भका८.६५-२ द्रुमैः शकशकायद्भिर् मारुतेना ऽऽट सर्वतः.
भका८.६६-१ अस्यन्दन्निन्दु-मणयतो, व्यरुचन् कुमुदाऽऽकराः,
भका८.६६-२ अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः.
भका८.६७-१ सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्-सिद्धिं प्लवङ्गमम्
भका८.६७-२ पतत्रिणः शुभा मन्द्रमानुवानास् त्वजिह्लदन्.
भका८.६८-१ वर्तिष्यमाणमात्मानं सीता पत्युरिवा ऽन्तिके
भका८.६८-२ उदपश्यत् तदा तथ्यैर् निमित्तैरिष्ट-दर्शनैः.
भका८.६९-१ "निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नः
भका८.६९-२ अकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्.

इत्यात्मनेपदाधिकारः


भका८.७०-१ वृक्षाद् वृक्षं परिक्रामन् रावणाद् बिभ्यतीं भृशम्
भका८.७०-२ शत्रोस् त्राणम-पश्यन्तीम-दृश्यो जनकाऽऽत्मजाम्
भका८.७१-१ तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात्
भका८.७१-२ अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम्
भका८.७२-१ रामादधीत-संदेशो वायोर् जातश् च्युत-स्मिताम्
भका८.७२-२ प्रभवन्तीमिवादित्यादपश्यत् कपि-कुञ्जरः.
भका८.७३-१ रोचमानः कु-दृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम्
भका८.७३-२ श्लाघमानः पर-स्त्रीभ्यस् तत्रऽऽगाद् राक्षसाऽधिपः.
भका८.७४-१ अशप्त निह्नुवानो ऽसौ सीतायौ स्मर-मोहितः,
भका८.७४-२ धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत.
भका८.७५-१ तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत,
भका८.७५-२ सानुनीतिश् च सीतायै न ऽक्रुध्यन्, नाप्यसूयत.
भका८.७६-१ "संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,
भका८.७६-२ ईक्षितव्यं पर-स्त्रीभ्यः स्व-धर्मो रक्षसामयम्.
भका८.७७-१ शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,
भका८.७७-२ गृणद्भ्यो ऽनुगृणन्त्यन्ये ऽकृताऽर्था, नैव मद्-विधाः.
भका८.७८-१ इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्,
भका८.७८-२ संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम्.
भका८.७९-१ आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम्
भका८.७९-२ मा ऽधिवात्सीर् भुवं, शय्यामधिशेष्व स्मरोत्सुका.
भका८.८०-१ अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः,
भका८.८०-२ तवाऽप्यध्यावसन्तं मां मा रौत्सीर् हृदयं तथा.
भका८.८१-१ मा ऽवमंस्था नामस्यन्तम्-कार्य-ज्ञे ! जगत्-पतिम्,
भका८.८१-२ संदृष्टे मयि काकुत्स्थम-धन्यं कामयेत ? का.
भका८.८२-१ यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्,
भका८.८२-२ रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं.
भका८.८३-१ प्रीतो ऽहं भोजयिष्यामि भवतीं भुवन-त्रयम्,
भका८.८३-२ किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्.
भका८.८४-१ आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,
भका८.८४-२ कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्.

इति कारकाधिकारः


भका८.८५-१ वचनं रक्षसां पत्युरनु क्रुद्धा पति-प्रिया
भका८.८५-२ पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः
भका८.८६-१ "न भवाननु रामं चेदुप शूरेषु वा, ततः
भका८.८६-२ अपवाह्य च्छलाद् वीरौ किमर्थं मामिहा ऽहरः,
भका८.८७-१ "उप-शूरं न ते वृत्तं कथं रात्रिंचराऽधम !
भका८.८७-२ यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात्
भका८.८८-१ आ राम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति
भका८.८८-२ सद्-वृत्ताननु दुर्-वृत्तः परस्त्रीं जात-मन्मथः
भका८.८९-१ अभि द्योतिष्यते रामो भवन्तम-चिरादिह,
भका८.८९-२ उद्गूर्ण-बाणः संग्रामे यो नारायणतः प्रति.
भका८.९०-१ कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिः
भका८.९०-२ न सूक्तं भवता ऽत्युग्रमतिरामं मदोद्धत !
भका८.९१-१ परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः,
भका८.९१-२ अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्.
भका८.९२-१ अपि स्तूह्यपिसेधा ऽस्मांस् तथ्यमुक्तं नराऽशन् !,
भका८.९२-२ अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि यो ऽभिकः.
भका८.९३-१ अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,"
भका८.९३-२ इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्.
भका८.९४-१ ततः खड्गं समुद्यम्य रावणः क्रूर-विग्रहः
भका८.९४-२ वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्.
भका८.९५-१ "चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्ति-पराङ्मुखी
भका८.९५-२ न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !"
भका८.९६-१ प्रायुङ्क्त राक्षसीर् भीमा मन्दिराय प्रतिव्रजन्
भका८.९६-२ "भयानि दत्त सीतायै सर्वा यूयं कृते मम."
भका८.९७-१ गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम्
भका८.९७-२ राक्षस्यो, रावण-प्रीत्यै क्रूरं चोचुरलं मुहुः
भका८.९८-१ "रावणाय नमस्कुयाः, स्यात् सीते ! स्वस्ति ते ध्रुवम्
भका८.९८-२ अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्.
भका८.९९-१ तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत्
भका८.९९-२ "आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुता ऽशनम्.
भका८.१००-१ अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह
भका८.१००-२ स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना.
भका८.१०१-१ तास् तया तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम्
भका८.१०१-२ ययुः सुषुप्सवस् तल्पं भीमैर् वचन-कर्मभिः
भका८.१०२-१ गतासु तासु मैथिल्या संजानानो ऽनिलाऽऽत्मजः
भका८.१०२-२ आयातेन दशाऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम्
भका८.१०३-१ ऋणाद् बद्ध इवान्मुक्तो वियोगेन क्रतु-द्विषः
भका८.१०३-२ हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकथाम्.
भका८.१०४-१ तं दृष्ट्वा ऽचिन्तयत् सीता-"हेतोः कस्यैष रावणः
भका८.१०४-२ अवरुह्य तरोरारादैति वानर-विग्रहः
भका८.१०५-१ पूर्वस्मादन्य-वद् भाति भावाद् दाशरथिं स्तूवन्,
भका८.१०५-२ ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ?
भका८.१०६-१ इतरो रावणादेष राघवाऽनुचरो यदि,
भका८.१०६-२ स-फलानि निमित्तानि प्राक् प्रभातात् ततो मम.
भका८.१०७-१ उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम्
भका८.१०७-२ अवैल् लवण-तोयस्य स्थितां दक्षिणतः कथम्.
भका८.१०८-१ दण्डकान् दक्षिणेना ऽहं सरितो ऽद्रीन् वनानि च
भका८.१०८-२ अतिक्रम्या ऽम्बुधिं चैव पुंसामगममाहृता.
भका८.१०९-१ पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना
भका८.१०९-२ गन्तुमुत्सहते नेह कश्चित् किमुत वानरः.
भका८.११०-१ इति चिन्ता-वतीं कृच्छ्रात् समासाद्य कपि-द्विपः
भका८.११०-२ मुक्तां स्तोकेन रक्षोभिः प्रोचेŌ"ऽहं राम-किङ्करः
भका८.१११-१ विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य-पर्वतात्
भका८.१११-२ ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः.
भका८.११२-१ अ-संप्राप्ते दश-ग्रीवे प्रविष्टो ऽहमिदं वनम्
भका८.११२-२ तस्मिन् प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः
भका८.११३-१ तस्मिन् वदति रुष्टो ऽपि ना ऽकार्षं देवि ! विक्रमम्
भका८.११३-२ अ-विनाशाय कार्यस्य विचिन्वानः परापरम्.
भका८.११४-१ वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा
भका८.११४-२ जातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः
भका८.११५-१ ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्
भका८.११५-२ कुशलो ऽन्वेषणस्याऽहमायुक्तो दूत-कर्मणि
भका८.११६-१ दर्शनीय-तमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः
भका८.११६-२ प्राप्तो व्याल-तमान् व्यस्यन् भूजङ्गेभ्यो ऽपि राक्षसान्
भका८.११७-१ भवत्यामुत्सुको रामः प्रसितः संगमेन ते
भका८.११७-२ मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत्.
भका८.११८-१ अयं मैथिल्यभिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकः
भका८.११८-२ भवत्या स्मरता ऽत्यर्थमर्पितः सादरं मम.
भका८.११९-१ रामस्य दयमानो ऽसावध्येति तव लक्ष्मणः,
भका८.११९-२ उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः.
भका८.१२०-१ रावणस्येह रोक्ष्यन्ति कपयो भीम-विक्रमाः,
भका८.१२०-२ धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयाऽऽत्मनः.
भका८.१२१-१ राक्षसानां मयि गते रामः प्रणिहनिष्यति
भका८.१२१-२ प्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्.
भका८.१२२-१ अदेवीद् बन्धु-भोगानां, प्रादेवीदात्म-संपदम्,
भका८.१२२-२ शत-कृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः.
भका८.१२३-१ तवोपशायिका यावद् राक्षस्यश् चेतयन्ति न,
भका८.१२३-२ प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि !
भका८.१२४-१ पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखा-मृगेण सा
भका८.१२४-२ चूडा-माणिमभिज्ञानं ददौ रामस्य संमतम्.
भका८.१२५-१ रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्
भका८.१२५-२ प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्.
भका८.१२६-१ असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्
भका८.१२६-२ गामुको ऽप्यन्तिकं भर्तुर् मनसा ऽचिन्तयत् क्षणम्.
भका८.१२७-१ "कृत्वा कर्म यथाऽऽदिष्टं पूर्व-कार्याऽविरोधि यः
भका८.१२७-२ करोत्यभ्यधिकं कृत्यं, तमाहुर् दूतमुत्तमम्.
भका८.१२८-१ वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम्
भका८.१२८-२ यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः.
भका८.१२९-१ राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,"
भका८.१२९-२ इति संचित्य सदृशं नन्दनस्या ऽभवक् कपिः.
भका८.१३०-१ राघवाभ्यां शिवं, दूतस् तयोरहमिति ब्रुवन्
भका८.१३०-२ हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः,
भका८.१३१-१ विलुलित-पुष्प-रेणु-कपिशं प्रशान्त-कलिका-पलाश-कुसुमं कुसुम-निपात-विचित्र-वसुधं स-शब्द-निपतद् द्रुमोत्क-शकुनम्
भका८.१३१-२ शकुन-निनाद-नादि-ककुब् विलोल-विपलायमान-हरिणं हरिण-विलोचनाऽधिवसतिं बभञ्ज पवनाऽऽत्मजो रिपु-वनम्.


भका९.१-१ द्रु-भङ्ग-ध्वनि-संविग्नाः कुवद्-पक्षि-कुला ऽऽकुलाः
भका९.१-२ अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम्.
भका९.२-१ "यदताप्सीच् छनैर् भानुर्, यत्राऽवासीन् मितं मरुत्
भका९.२-२ यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः."
भका९.३-१ ततो ऽशीति-सहस्राणि किङ्कराणां समादिशत्
भका९.३-२ इन्द्रजित्-सूर् विनाशाय मारुतेः क्रोध-मूर्च्छितः.
भका९.४-१ शक्त्यृष्टि-परिघ-प्रास-गदा-मुद्गर-पाणयः
भका९.४-२ व्यश्नुवाना दिशः प्रापुर् वनं दृष्टि-विषोपमाः
भका९.५-१ दध्वान मेघ-वद् भीममादाय परिघं कपिः
भका९.५-२ नेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः.
भका९.६-१ कपिना ऽम्भोधि-धीरेण समगंसत राक्षसाः
भका९.६-२ वर्षासूद्धत-तोयौघाः समुद्रेणेव सिन्धवः.
भका९.७-१ लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम्
भका९.७-२ तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः.
भका९.८-१ अक्षारिषुः शराम्भांसि तस्मिन् रक्षः-पयोधराः,
भका९.८-२ न चा ऽह्वालीन्, न चाऽव्राजीत् त्रासं कपि-महीधरः
भका९.९-१ अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिः
भका९.९-२ तथा, यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम्.
भका९.१०-१ व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर् भुवम्,
भका९.१०-२ दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद्-भियः
भका९.११-१ अरासिषुश् च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः
भका९.११-२ कपेरत्रासिषुर् नादान् मृगाः सिंह-ध्वनेरिव

इति सिचिवृद्ध्यधिकारः


भका९.१२-१ मायानामीश्वरास् ते ऽपि शस्त्र-हस्ता रथैः कपिम्
भका९.१२-२ प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः
भका९.१३-१ तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान्
भका९.१३-२ जघानाऽऽधूय परिघं विजिघृक्षून् समागतान्.
भका९.१४-१ संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः
भका९.१४-२ रावणाऽन्तिकमाजग्मुर् हत-शेषा निशा-चराः
भका९.१५-१ "एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत्
भका९.१५-२ वैमुख्यं चकृमे" त्युच्चैरूचुर् दश-मुखाऽन्तिके.
भका९.१६-१ मांसोपभोग-संशूनानुद्विग्नांस् तानवेत्य सः
भका९.१६-२ उद्वृत्ता-नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत्
भका९.१७-१ प्रमेदिताः स-पुत्रास् ते सु-स्वान्ता बाढ-विक्रमाः
भका९.१७-२ अ-म्लिष्ट-नादा निरगुः फाण्टचित्राऽस्त्र-पाणयः
भका९.१८-१ तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाऽऽज्ञया
भका९.१८-२ कष्टं विनर्दतः क्रूरान् शस्त्र-घुष्ट-करान् कपिः
भका९.१९-१ अ-व्यर्णो गिरि-कूटाभानभ्यर्णानार्दिदद् द्रुतम्
भका९.१९-२ वृत्त-शस्त्रान् महाऽरम्भ्यान्-दान्तांस् त्रिदशैरपि
भका९.२०-१ दमिताऽरिः प्रशान्तौजा नादाऽऽपूरित-दिङ्मुखः
भका९.२०-२ जघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान्.
भका९.२१-१ तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः
भका९.२१-२ अभूदभ्यमित-त्रासमास्वान्ताऽशेष-दिग् जगत्.
भका९.२२-१ भय-संहृष्ट-रोमाणस् ततस् ते ऽपचित-द्विषः
भका९.२२-२ क्षणेन क्षीण-विक्रान्ताः कपिना ऽनेषत क्षयम्
भका९.२३-१ हत्वा रक्षांसि लवितुमक्रमीन् मारुतिः पुनः
भका९.२३-२ अशोकवनिकामेव निगृहीताऽरि-शासनः.
भका९.२४-१ आवरीतुमिवा ऽऽकाशं वरितुं वीनिवोत्थितम्
भका९.२४-२ वनं प्रभञ्जन-सुतो ना ऽदयिष्ट विनाशयन्.
भका९.२५-१ वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प-शाखिनः,
भका९.२५-२ प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः.
भका९.२६-१ संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर् द्रुतम्
भका९.२६-२ अवरिष्टाक्षम-क्षम्यं कपिं हन्तुं दषाननः
भका९.२७-१ ऊचे-"संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम्,
भका९.२७-२ ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु-सम्मुखम्
भका९.२८-१ द्रुतं संस्वरिषीष्ठास् त्वं निर्-भयः प्रधनोत्तमे"
भका९.२८-२ स मायानामगात् सोता कपेर् विधवितुं द्युतिम्
भका९.२९-१ विगाढा ऽरं वनस्या ऽसौ शत्रूणां गाहिता कपिः
भका९.२९-२ अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्.
भका९.३०-१ निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखाऽऽत्मजात्
भका९.३०-२ आदाय परिघं तस्थौ वनान् निष्कुषित-द्रुमः
भका९.३१-१ एष्टारमेषिता संख्ये सोढारं सहिता भृशम्
भका९.३१-२ रेष्टारं रेषितं व्यास्यद् रोष्टा ऽक्षः शस्त्र-संहतीः
भका९.३२-१ शस्त्रैर् दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः
भका९.३२-२ अर्दिधिषुर् यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्.
भका९.३३-१ भूयस् तं धिप्सुमाहूय राज-पुत्रं दिदम्भिषुः
भका९.३३-२ अहंस् ततः स मूर्च्छा-वान् संशिश्रीषुरभूद् ध्वजम्
भका९.३४-१ आश्वस्या ऽक्षः क्षणाल् लोकान् बिभ्रक्षुरिव तेजसा
भका९.३४-२ रुषा बिभ्रज्जिषु-प्रख्यं कपिं बाणैरवाकिरत्.
भका९.३५-१ संयुयूषुं दिशो बाणैरक्षं यियविषुर् द्रुमैः
भका९.३५-२ कपिर् मायामिवा ऽकार्षीद् दर्शयन् विक्रमं रणे.
भका९.३६-१ वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,
भका९.३६-२ तं प्रोर्णुनूषुरुपलैः स-वृक्षैराबभौ कपिः,
भका९.३७-१ स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्
भका९.३७-२ शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे.
भका९.३८-१ मायाभिः सु-चिरं क्लिष्ट्वा राक्षसो ऽक्लिशित-क्रियम्
भका९.३८-२ संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः.
भका९.३९-१ पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो-निधौ
भका९.३९-२ बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर् वनम्
भका९.४०-१ उच्चैरञ्चित-लाङ्गूलः शिरो ऽञ्चित्वेव संवहन्
भका९.४०-२ दधद् विलुभितं वातैः केशरं वह्नि-पिङ्गलम्
भका९.४१-१ जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः,
भका९.४१-२ व्रश्चित्वा विवशानन्यान् बलेना ऽपातयत् तरून्.
भका९.४२-१ दमित्वाऽप्यरि-संघातानश्रान्त्वा कपि-केशरी
भका९.४२-२ वनं चचार कर्तिष्यन् नर्त्स्यन्निव निरङ्कुशः.
भका९.४३-१ पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम्
भका९.४३-२ मत्त-द्विरद-वद् रेमे वने लङ्का-निवासिनाम्.
भका९.४४-१ "यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षः-पतेः स्वयम्,
भका९.४४-२ तमप्यकर्त्स्यमद्या ऽहं" वदन्नित्यचरत् कपिः.
भका९.४५-१ "हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,
भका९.४५-२ तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति."
भका९.४६-१ आहूय रावणो ऽवोचदथेन्द्रजितमन्तिकात्
भका९.४६-२ "वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन्
भका९.४७-१ ययाथ त्वं द्विषामन्तं, भूयो यातासि चा ऽसकृत्
भका९.४७-२ शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति.
भका९.४८-१ त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा ऽरींश् च दुःसहान्,
भका९.४८-२ शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि.
भका९.४९-१ स त्वं हनिष्यन् दुर्-बुद्धिं कपिं व्रज ममा ऽऽज्ञया,
भका९.४९-२ मा ना ऽञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम्.
भका९.५०-१ मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे,
भका९.५०-२ वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः."
भका९.५१-१ अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्,
भका९.५१-२ अवाप्य चाऽऽशिषस् तस्मादायासीत् प्रीतिमुत्तमाम्
भका९.५२-१ गते तस्मिन्नुपारंसीत् संरम्भाद् रक्षसां पतिः
भका९.५२-२ इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्.
भका९.५३-१ संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिषुर् द्विषः
भका९.५३-२ जगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः
भका९.५४-१ लोकानाशिशिषोस् तुल्यः कृतान्तस्य विपर्यये
भका९.५४-२ वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः
भका९.५५-१ रोदिति स्मेव चा ऽऽयाति तस्मिन् पक्षि-गणः शुचा
भका९.५५-२ मुक्त-कण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवा ऽऽगमे
भका९.५६-१ आश्वसीदिव चा ऽऽयाति तद् वेग-पवनाऽऽहतम्
भका९.५६-२ विचित्र-स्तबकोद्भासि वनं लुलित-पल्लवम्
भका९.५७-१ "न प्राणिषि दुराचार !, मायानामीशिषे न च.
भका९.५७-२ नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः

इतीडधिकारः


भका९.५८-१ स-सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रिजित्
भका९.५८-२ शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः
भका९.५९-१ वानरः कुल-शैलाऽऽभः प्रसह्या ऽऽयुध-शीकरम्
भका९.५९-२ रक्षस्-पाशान् यशस्-काम्यंस् तमस्-कल्पानदुद्रुवत्.
भका९.६०-१ धनुष्-पाशŌभृतः संख्ये ज्योतिष्-कल्पोरु-केशरः
भका९.६०-२ दुधाव निर् नमस्-कारान् राक्षसेन्द्र-पुरस्-कृतान्.
भका९.६१-१ स्वामिनो निष्-क्रयं गन्तुमाविष्-कृत-बलः कपिः
भका९.६१-२ रराज समरे शत्रून् घ्नन् दुष्-कृत-बहिष्-कृतः.
भका९.६२-१ चतुष्-काष्ठं क्षिपन् वृक्षान् तिरस्-कुर्वन्नरीन् रणे
भका९.६२-२ तिरस्-कृत-दिगाभोगो ददृशो बहुधा भ्रमन्.
भका९.६३-१ द्विष्-कुर्वतां चतुष्-कुर्वन्नभिघातं नरैर् द्विषाम्
भका९.६३-२ बहिष्-करिष्यन् संग्रामाद् रिपून् ज्वलन-पिङ्गलः
भका९.६४-१ ज्योतिष्-कुर्वन्निवैको ऽसावाटीत् संख्ये परार्ध्य-वत्,
भका९.६४-२ तमरायुष्-करं प्राप शक्र-शत्रुर् धनुष्-करः.
भका९.६५-१ अस्यन्नरुष्-करान् बाणान् ज्योतिष्-कर-सम-द्युतिः
भका९.६५-२ यशस्-करो-यशस्-कामं कपिं बाणैर्ताडयत्.
भका९.६६-१ चकारा ऽधस्-पदं ना ऽसौ चरन् वियति मारुतिः
भका९.६६-२ मर्मा-विद्भिस् तमस्-काण्डैर् विध्यमानोऽप्यनेकधा

इति सत्वाधिकारः


भका९.६७-१ पुरुहूत-द्विषो धूर्षु युक्तान् यानस्य वाजिनः
भका९.६७-२ आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्.
भका९.६८-१ सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदा
भका९.६८-२ आहर्तुमन्यानशिषत् प्रोषित-त्रास-कर्कशः.
भका९.६९-१ प्रतुष्टूषुः पुनर् युद्धमासिषञ्जयिषुर् भयम्
भका९.६९-२ आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव.
भका९.७०-१ बलान्यभिषिषिक्षन्तं तरुभिः कपि-वारिदम्
भका९.७०-२ विजिगीषुः पुनश् चक्रे व्यूहं दुर्-जयमिन्द्रजित्.
भका९.७१-१ अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवा ऽऽत्मनः
भका९.७१-२ संप्रहार-समुद्भूतै रक्तैः कोष्णैररुश्-च्युतैः.
भका९.७२-१ संग्रामे तानधिष्ठास्यन् निषद्य पुर-तोरणम्
भका९.७२-२ अविषीदन्नवष्टब्धान् व्यष्टभ्नान् नर-विष्वणान्
भका९.७३-१ विषह्य राक्षसाः क्रुद्धाः शस्त्र-जालमवाकिरन्,
भका९.७३-२ यन् न व्यषहतेन्द्रो ऽपि॑ कपिः पर्यषहिष्ट तत्.
भका९.७४-१ विष्यन्दमान-रुधिरो रक्त-विस्यन्द-पाटलान्
भका९.७४-२ विष्कन्त् न् परिघेणा ऽहन्नविस्कन्ता कपिर् द्विषः.
भका९.७५-१ मेघ-नादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम्
भका९.७५-२ अबध्नादपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन्.
भका९.७६-१ विस्फुलद्भिर् गृहीतो ऽसौ निष्फुलः पुरुषाऽशनैः
भका९.७६-२ विष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्म-गौरवात्.
भका९.७७-१ कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्
भका९.७७-२ वानरं नेतुमित्युच्चैरिन्द्र-जित् प्रावदत् स्वकान्.
भका९.७८-१ "गतमङ्गुलि-षङ्गं त्वां भीरु-ष्ठानादिहा ऽऽगतम्
भका९.७८-२ खादिष्याम" इति प्रोचुर् नयन्तो मारुतिं द्विषः.
भका९.७९-१ "अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान्
भका९.७९-२ यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्येति चाऽवदन्.
भका९.८०-१ "नासां मातृ-ष्वसेय्याश् च रावणस्य लुलाव यः,
भका९.८०-२ मातुः स्वसुश् च तनयान् खराऽऽदीन् विजघान यः
भका९.८१-१ प्रादुःषन्ति न संत्रासा यस्य रक्षः-समागमे,
भका९.८१-२ तस्य क्षत्रिय-दुःषूतेरयं प्रणिधिरागतः.
भका९.८२-१ दृष्ट्वा सु-षुप्तं राजेन्द्रं पापो ऽयं विषमाऽशयः
भका९.८२-२ चार-कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम्.
भका९.८३-१ सुप्रतिष्णात-सूत्राणा कपिष्ठल-सम-त्विषाम्
भका९.८३-२ स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम्
भका९.८४-१ सर्व-नारी-गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम्
भका९.८४-२ शयानां कु-ष्ठले तारां दिवि-ष्ठामिव निर्-मलाम्
भका९.८५-१ सु-षाम्नीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम्
भका९.८५-२ निष्टपन्तीमिवा ऽऽत्मानं ज्योतिःसात्-कुर्वतीं वनम्
भका९.८६-१ मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम्
भका९.८६-२ उल्लसत्-कुसुमां पुण्यां हेम-रत्न-लतामिव
भका९.८७-१ विलोचनाऽम्बु मुञ्चन्तीं-कुर्वाणां परि-सेसिचाम्
भका९.८७-२ हृदयस्येव शोकाऽग्नि-संतप्तस्योत्तम-व्रताम्
भका९.८८-१ दृष्ट्वा तामभनग् वृक्षान् द्विषो घ्नन् परिसेधतः
भका९.८८-२ परितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा ऽनिलः
भका९.८९-१ अ-प्रतिस्तब्ध-विक्रान्तम-निस्तब्धो महाऽऽहवे,
भका९.८९-२ विसोढवन्तमस्त्राणि व्यतस्तम्भद् घन-ध्वनिः"
भका९.९०-१ ते विज्ञाया ऽभिसोष्यनतं रक्तै रक्षांसि स-व्यथाः
भका९.९०-२ अन्यैरप्यायतं नेहुर् वरत्रा-शृङ्खलाऽऽदिभिः
भका९.९१-१ विषसादेन्द्रजिद् बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्
भका९.९१-२ दिव्य-बन्धो विषहते ना ऽपरं बन्धनं यतः

इति षत्वाधिकारः


भका९.९२-१ मुष्णन्तमिव तेजांसि विस्तीर्णोरस्-स्थलं पुरः
भका९.९२-२ उपसेदुर् दश-ग्रीवं गृहीत्वा राक्षसाः कपिम्.
भका९.९३-१ बहुधा भिन्न-मर्माणो भीमाः खरणसाऽऽदयः
भका९.९३-२ अग्रे-वणं वर्तमाने प्रतीच्यां चन्द्र-मण्डले
भका९.९४-१ "निर्वणं कृतमुद्यानमनेना ऽऽम्रवणाऽऽदिभिः
भका९.९४-२ देवदारु-वनामिश्रै" रित्यूचुर् वानर-द्विषः.
भका९.९५-१ उपास्थिषत संप्रीताः पूर्वाह्णे रोष-वाहणम्
भका९.९५-२ राक्षसाः कपिमादाय पतिं रुधिर-पायिणाम्.
भका९.९६-१ सुरा-पाण-परिक्षीबं रिपु-दर्प-हरोदयम्
भका९.९६-२ पर-स्त्री-वाहिनं प्रायुः साऽऽविष्कारं सुरा-पिणः.
भका९.९७-१ संघर्ष-योगिणः पदौ प्रणेमुस् त्रिदश-द्विषः
भका९.९७-२ प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्-मतीः.
भका९.९८-१ "प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः"
भका९.९८-२ आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः
भका९.९९-१ प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव
भका९.९९-२ ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः.
भका९.१००-१ "प्रणिशाम्य दशा-ग्रीव !, प्रणियातुमलं रुषम्,
भका९.१००-२ प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि."
भका९.१०१-१ प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्
भका९.१०१-२ "प्राणिणिषुर् न पापो ऽयं, यो ऽभाङ्क्षीत् प्रमदा-वनम्.
भका९.१०२-१ प्राघानिषत रक्षांसि येना ऽऽप्तानि वने मम,
भका९.१०२-२ न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्.
भका९.१०३-१ वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः
भका९.१०३-२ मा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्.
भका९.१०४-१ प्रहीण-जीवितं कुर्युर् ये न शत्रुमुपस्थितम्
भका९.१०४-२ न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम्
भका९.१०५-१ कः कृत्वा रावणाऽऽमर्ष-प्रकोपणमवद्य-धीः
भका९.१०५-२ शक्तो जगति शाक्रो ऽपि कर्तुमायुः-प्रगोपणम्.
भका९.१०६-१ वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसकः
भका९.१०६-२ प्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्ययम्
भका९.१०७-१ हरेः प्रगमनं ना ऽस्ति, न प्रभानं हिम-द्रुहः,
भका९.१०७-२ ना ऽति-प्रवेपनं वायोर् मया गोपायिते वने.
भका९.१०८-१ दुष्पानः पुनरेतेन कपिना भृङ्ग-संभृतः
भका९.१०८-२ प्रनष्ट-विनयेना ऽग्र्यः स्वादुः पुष्पाऽऽसवो वने"
भका९.१०९-१ रोष-भीम-मुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमः
भका९.१०९-२ प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये

इति णत्वाऽधिकारः

इति अधिकार काण्ड: