सामग्री पर जाएँ

भट्टिकाव्यं प्रसन्न काण्ड:

विकिपुस्तकानि तः


भका९.११०-१ "दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः
भका९.११०-२ लोक-त्रय-पतेः क्रोधः कथं तृण-लघुस् तव.
भका९.१११-१ अग्न्याहित-जन-प्रह्वे विजिगीषा-पराङ्मुखे.
भका९.१११-२ कस्माद् वा नीति-निष्णस्य संरम्भस् तव तापसे.
भका९.११२-१ न सर्व-रात्र-कल्यान्यः स्त्रियो वा रत्न-भूमयः
भका९.११२-२ यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्.
भका९.११३-१ संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये
भका९.११३-२ रत्न-पूर्णाविवा ऽम्भोधी हिमवान् पूर्व-पश्चिमौ.
भका९.११४-१ सुहृदौ राम-सुग्रीवौ, किंकराः कपि-यूथ-पाः,
भका९.११४-२ पर-दाराऽर्पणेनैव-लभ्यन्ते, मुञ्च मैथिलीम्.
भका९.११५-१ धर्मं प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम्
भका९.११५-२ कामं विश्वास-वासेन सीतां दत्त्वा ऽऽप्नुहि त्रयम्.
भका९.११६-१ विराध-ताडका-वालि-कबन्ध-खर-दूषणैः
भका९.११६-२ न च न ज्ञापितो यादृड् मारीचेना ऽपि ते रिपुः
भका९.११७-१ खराऽऽदि-निधनं चा ऽपि मा मंस्था वैर-कारणम्,
भका९.११७-२ आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया".
भका९.११८-१ ततः क्रोधाऽनिलाऽऽपात- कम्प्राऽऽस्याऽम्भोज-संहतिः
भका९.११८-२ महा-ह्रद इव क्षुभ्यन् कपिमाह स्म रावणः.
भका९.११९-१ "हत-राक्षस-योधस्य विरुग्णोद्यान-शाखिनः
भका९.११९-२ दूतोऽस्मीति ब्रुवाणस्य किं ? दूत-सदृशं तव.
भका९.१२०-१ पङ्गु-बाल-स्त्रियो निघ्नन् कबन्ध खर-ताडकाः
भका९.१२०-२ तपस्वी यदि काकुत्स्थः, कीदृक् ? कथय पातकी.
भका९.१२१-१ अभिमान-फलं जानन् महत्त्वं कथमुक्तवान्
भका९.१२१-२ रत्नाऽऽदि-लाभ-शून्य-त्वान् निष्फलं राम-विग्रहम्
भका९.१२२-१ पर-स्त्री-भोग-हरणं धर्म एव नराऽशिनाम्,
भका९.१२२-२ मुखमस्तीत्यभाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि.
भका९.१२३-१ ब्रूहि दूर-विभिन्नानामृद्धि-शील-क्रियाऽन्वयैः.
भका९.१२३-२ हनूमन् ! कीदृशं ? सख्यं नर-वानर-रक्षसाम्.
भका९.१२४-१ एको द्वाभ्यां विराधस् तु जिताभ्याम-विवक्षितः
भका९.१२४-२ हतश् छलेन मूढोऽयं, तेना ऽपि तव कः ? स्मयः
भका९.१२५-१ मन्-नियोगाच् च मारीचः पलायन-परायणः
भका९.१२५-२ युयुत्सा-रहितो रामं ममारा ऽपहरन् वने.
भका९.१२६-१ निजघाना ऽन्य-संसक्तं सत्यं रामो लता-मृगम्
भका९.१२६-२ त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि.
भका९.१२७-१ पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः
भका९.१२७-२ क्षमिष्यते दशाऽऽस्येन, क्व-त्येयं तव दुर्-मतिः."
भका९.१२८-१ कपिर् जगाद-"दूतो ऽहमुपायं तव दर्शने
भका९.१२८-२ द्रुम-राक्षस-विध्वंसमकार्षं बुद्धि-पूर्वकम्.
भका९.१२९-१ आ-त्रिकूटमकार्षुर् ये त्वत्-का निर्-जङ्गमं जगत्,
भका९.१२९-२ दशग्रीव ! कथं ब्रूषे ? तान-वध्याम् मही-पतेः.
भका९.१३०-१ अभिमान-फलं प्रोक्तं यत् त्वया राम-विग्रहे,
भका९.१३०-२ विनेशुस् तेन शत-शः कुलान्यसुर-रक्षसाम्.
भका९.१३१-१ यत् स्व-धर्मम-धर्मं त्वं दुर्-बलं प्रत्यपद्यथाः
भका९.१३१-२ रिपौ रामे च निः-शङ्को, नैतत् क्षेमंकरं चिरम्
भका९.१३२-१ अन्वयाऽऽदि-विभिन्नानां यथा सख्यमनीप्सितम्
भका९.१३२-२ नैषीर्, विरोधमप्येवं सार्धं पुरुष-वानरैः.
भका९.१३३-१ विराधं तपसां विघ्नं जघान विजितो यदि
भका९.१३३-२ वरो धनुर्-भृतां रामः, स कथं न विवक्षितः ?
भका९.१३४-१ प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाण-गोचरम्
भका९.१३४-२ त्वयैवोक्तं महा-मायो मारीचो राम-हस्तिनः.
भका९.१३५-१ अन्याऽऽसक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनः
भका९.१३५-२ मूर्च्छा-वान् नमतः संध्यां ध्रुवं तद् बाहु-पीडितः.
भका९.१३६-१ अ-सद्-बन्धु-विधोपज्ञं विमुञ्च बलि-विग्रहम्,
भका९.१३६-२ सीतामर्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः."
भका९.१३७-१ स्फुट-परुषम-सह्यमित्थमुच्चैः सदसि मरुत्-तनयेन भाष्यमाणः
भका९.१३७-२ परिजनमभितो विलोक्य दाहं दश-वदनः प्रदिदेश वानरस्य.


भका१०.१-१ अथ स वल्क-दुकूल-कुथाऽऽदिभिः परिगतो ज्वलदुद्धत-वालधिः
भका१०.१-२ उदपतद् दिवमाकुल-लोचनैर् नृ-रिपुभिः स-भ्यैरभिवीक्षितः.
भका१०.२-१ रण-पण्डितो ऽग्र्य-विबुधाऽरि-पुरे कलहं स राम-महितः कृतवान्,
भका१०.२-२ ज्वलदग्नि रावण-गृहं च बलात् बलहंस्-रामम-हितः कृतवान्.

पादाऽन्त-यमकम्Ō


भका१०.३-१ निखिला ऽभवन् न स-हसा सहसा ज्वलनेन पूः प्रभवता भवता
भका१०.३-२ वनिता-जनेन वियता वियता त्रि-पुराऽपदं नगमिता गमिता. पदाऽऽदि-यमकम्Ō
भका१०.४-१ सरसां स-रसां परिमुच्य तनुं पततां पततां ककुभो बहुशः
भका१०.४-२ स-कलैः सकलैः परितः करुणै- रुदितै रुदितैरिव खं निचितम्.


पाद-मध्य-यमकम्Ō


भका१०.५-१ न च कांचन काञ्चन-सद्म-चितिं न कपिः शिखिना शिखिना समयौत्,
भका१०.५-२ न च न द्रवता द्रवता परितो हिम-हान-कृता न कृता क्व च न. चक्रवाल-यमकम्Ō
भका१०.६-१ अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मर-भासितम्,
भका१०.६-२ न स-मदाः प्रमदा हत-संमदाः, पुर-हितं विहितं न समीहितम्.

समुद्र-यमकम्Ō


भका१०.७-१ समिद्ध-शरणा दीप्ता देहे लङ्का मतेश्वरा
भका१०.७-२ समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा

काञ्ची-यमकम्Ō


भका१०.८-१ पिशिताऽशिनामनु-दशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता,
भका१०.८-२ हलता जनेन बहुधा चरितं चरितं महत्त्व-रहितं महता.
भका१०.९-१ न गजा नग-जा दयिता दयिता, वि-गतं विगतं, ललितं ललितम्,
भका१०.९-२ प्रमदा प्र-मदा ऽऽम-हता, महता- म-रणं मरणं समयात् समयात्.
भका१०.१०-१ न वानरैः पराक्रान्तां महद्भिर् भीम-विक्रमैः
भका१०.१०-२ न वा नरैः पराक्रान्तां ददहा नगरीं कपिः.
भका१०.११-१ द्रुतं द्रुतं वह्नि-समागतं गतं महीमहीन-द्युति-रोचितं चितम्
भका१०.११-२ समं समन्तादप-गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम्
भका१०.१२-१ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः
भका१०.१२-२ हारीण्या-बलानां हारीण्या-बलानाम्.
भका१०.१३-१ नारीणामपनुनुदुर् न देह-खेदान् ना ऽऽरीणाऽमल-सलिला हिरण्य-वाप्यः,
भका१०.१३-२ ना ऽऽरीणामनल-परीत-पत्र-पुष्पान् ना ऽरीणामभवदुपेत्य शर्म वृक्षान्.
भका१०.१४-१ अथ लुलित-पतत्रि-मालं रुग्णाऽसन-बाण-केशर-तमालम्
भका१०.१४-२ स वनं विविक्त-मालं सीतां द्रष्टुं जगामाऽलम्.
भका१०.१५-१ घन-गिरीन्द्र-विलङ्घन-शालिना वन-गता वन-ज-द्युति-लोचना
भका१०.१५-२ जन-मता ददृशे जनकाऽऽत्मजा तरु-मृगेण तरु-स्थल-शायिनी

वि-पथ-यमकम्Ō


भका१०.१६-१ कान्ता महमाना दुःखं च्युत-भूषा
भका१०.१६-२ रामस्य वियुक्ता कान्ता सह-माना.

मध्या-ऽन्त-यमकम्Ō


भका१०.१७-१ मितमवददुदारं तां हनूमान् मुदा ऽरं रघु-वृषभ-सकाशं यामि देवि ! प्रकाशम्
भका१०.१७-२ तव विदित-विषादो दृष्ट-कृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्.

गर्भ-यमकम्Ō


भका१०.१८-१ उदपतद् वियद-प्रगमः परैŌ रुचितमुन्नति-मत्-पृथु-सत्त्व-वत्
भका१०.१८-२ रुचित-मुन् नति-मत् पृथु-सत्त्व-वत् प्रतिविधाय वणुर् भय-दं द्विषाम्.

सर्व-यमकम्Ō


भका१०.१९-१ बभौ मरुत्वान् वि-कृतः स-मुद्रो, बभौ मरुत्वान् विकृतः स-मुद्रः,
भका१०.१९-२ बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः स मुद्रः.

महा-यमकम्Ō


भका१०.२०-१ अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम्.
भका१०.२०-२ अभिया ऽताऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम्.

आद्यन्त-यमकम्Ō


भका१०.२१-१ चित्रं चित्रमिवा ऽऽयातो विचित्रं तस्य भू-भृतम्
भका१०.२१-२ हरयो वेगमासाद्य संत्रस्ता मुमुहुर् मुहुः.

आदि-दीपकम्Ō


भका१०.२२-१ गच्छन् स वारीण्यकिरत् पायोधेः, कूल-स्थितांस् तानि-तरूनधुन्वन्,
भका१०.२२-२ पुष्पाऽऽस्तरांस् ते ऽङ्ग-सूखानतन्वन्, तान् किन्नरा मन्मथिनो ऽध्यतिष्ठन्.

अन्त-दीपकम्Ō


भका१०.२३-१ स गिरिं तरु-खण्ड-मण्डितं समवाप्य त्वरया लता-मृगः
भका१०.२३-२ स्मित-दर्शित-कार्य-निश्चयः कपि-सैन्यैर् मुदितैरमण्डयत्.

मध्य-दीपकम्Ō


भका१०.२४-१ गरुडाऽनिल-तिग्म-रश्मयः पततां यधपि संमता जवे,
भका१०.२४-२ अ-चिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते.

रूपकम्Ō


भका१०.२५-१ व्रण-कन्दर-लीन-शस्त्र-सर्पः पृथु-वक्षः-स्थल-कर्कशोरु-भित्तिः
भका१०.२५-२ च्युत-शोणित-बद्ध-धातु-रागः शुशुभे वानर-भू-धरस् तदा ऽसौ. अस्यैव भेदा अपरे चत्वारः एतद् विशिष्टोपमा-युक्तं रूपकम्Ō
भका१०.२६-१ चल-पिङ्ग-केशर-हिरण्य-लताः स्थुट-नेत्र-पङ्क्ति-मणि-संहतयः
भका१०.२६-२ कलधैत-सानव इवा ऽथ गिरेः कपयो बहूः पवन-जाऽऽगमने.

एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्Ō


भका१०.२७-१ कपि-तोय-निधीन् प्लवङ्गमेन्दुर् मदयित्वा मधुरेण दर्शनेन
भका१०.२७-२ वचनाऽमृत-दीधितीर् वितन्व- न्नकृता ऽऽनन्द-परीत-नेत्र-वारीन्.

अर्ध-रूपकम्Ō


भका१०.२८-१ परिखेदित-विन्ध्य-वीरुधः परिपीताऽमल-निर्झराऽम्भसः
भका१०.२८-२ दुधुवुर् मधु-काननं ततः कपि-नागा मुदिताऽङ्गदाऽऽज्ञया.

एतदन्वर्थोपमा-युक्तं ललामकम्Ō


भका१०.२९-१ विटपि-मृग-विषाद-ध्वान्त-नुद् वानराऽर्कः प्रिय-वचनम-युखैर् बोधिताऽर्थाऽरविन्दः,
भका१०.२९-२ उदय-गिरिमिवा ऽद्रिं संप्रमुच्या ऽभ्यगात् खं नृप-हृदय-गुहा-खं घ्नन् प्र-मोहाऽन्धकारम्.

इवोपमाŌ


भका१०.३०-१ रघु-तनयमगात् तपो-वन-खं विधृत-जटाऽजिन-वल्कलं हनूमान्
भका१०.३०-२ परमिव पुरुषं नरेण युक्तं सम-शम-वेश-समाधिना ऽनुजेन,

यथोपमाŌ


भका१०.३१-१ कर-पुट-निहितं दधत् स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्प-दीप्ति
भका१०.३१-२ तनु-कपिल-घन-स्थितं यथेन्दुं नृपमनमत् परिभुग्न-जानु-मूर्धा.

सहोपमाŌ


भका१०.३२-१ रुचिरोन्नत-रत्न-गौरवः परिपूर्णा-ऽमृत-रश्मि-मण्डलः
भका१०.३२-२ समदृश्यत जीविताऽऽशया सह रामेण वधू-शिरो-मणिः.

तद्धितोपमाŌ


भका१०.३३-१ अवसन्न-रुचिं वनाऽऽगतं तमनाऽऽमृष्टरजो-विधूसरम्
भका१०.३३-२ समपश्यदपेत-मैथिलिं दधतं गौरव-मात्रमात्म-वत्.

लुप्तोपमाŌ


भका१०.३४-१ सामर्थ्य-संपादित-वाञ्छिताऽर्थश् चिन्ता-मणिः स्यान् न कथं हनूमान्,
भका१०.३४-२ स-लक्ष्मणो भूमि-पतिस् तदानीं शाखा-मृगाऽनीक-पतिश् च मेने.

समोपमाŌ


भका१०.३५-१ "युश्मान-चेतन् क्षय-वायु-कल्पान् सीता-स्फुलिङ्गं परिगृह्य जाल्मः
भका१०.३५-२ लङ्का-वनं सिंह-समो ऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान्

अर्थाऽन्तर-न्यासःŌ


भका१०.३६-१ "अहृत धनेश्वरस्य युधि यः समेत-मायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम्
भका१०.३६-२ विभव-मदेन निह्नुत-ह्रिया ऽतिमात्र-संपन्नकं, व्यथयति सत्-पथादधिगता ऽथवेह संपन् न कम्.

आक्षेपःŌ


भका१०.३७-१ ऋद्धि-मान् राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः,
भका१०.३७-२ को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्.

आक्षेप एवŌ


भका१०.३८-१ तस्या ऽधिवासे तनुरुत्सुका ऽसौ दृष्टा मया राम-पतिः प्र-मन्युः,
भका१०.३८-२ कार्यस्य सारो ऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन.

व्यतिरेकःŌ


भका१०.३९-१ समतां शशि-लेखयोपयाया- दवदाता प्र-तनुः क्षयेण सीता,
भका१०.३९-२ यदि नाम कलङ्क इन्दु-लेखा- मतिवृत्तो लघयेन् न चा ऽपि भावी.

विभावनाŌ


भका१०.४०-१ अ-परीक्षित-कारिणा गृहीतां त्वमनासेवित-वृद्ध-पण्डितेन
भका१०.४०-२ अ-विरोधित-निष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् !"

समासोक्तिःŌ


भका१०.४१-१ स च विह्वल-सत्त्व-संकुलः परिशुष्यन्नभवन् महा-ह्रदः
भका१०.४१-२ परितः परिताप-मूर्च्छितः, पतितं चा ऽम्बु निरभ्रमीप्सितम्.

अतिशयोक्तिःŌ


भका१०.४२-१ अथ लक्ष्मण-तुल्य-रूप-वेशं गमनाऽऽदेश-विनिर्गताऽग्र-हस्तम्
भका१०.४२-२ कपयो ऽनुययुः समेत्य रामं नत-सुग्रीव-गृहीत-साऽऽदराज्ञम्.

यथा-संख्यम्Ō


भका१०.४३-१ कपि-पृष्ठ-गतौ ततो नरेन्द्रौ।
कपयश् च ज्वलिताऽग्नि-पिङ्गलाऽक्षाः
भका१०.४३-२ मुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्योम, महीधरं महेन्द्रम्

उत्प्रेक्षाŌ


भका१०.४४-१ स्थितमिव परिरक्षितुं समन्ता- दुदधि-जलौघ-परिप्लवाद् धरित्रीम्
भका१०.४४-२ गगन-तल-वसुन्ध्राऽन्तराले जल-निधिवेग-सहं प्रसार्य देहम्

वार्ताŌ


भका१०.४५-१ विष-धर-निलये निविष्ट-मूलं शिखर-शतैः परिमृष्ट-देव-लोकम्
भका१०.४५-२ घन-विपुल-नितम्ब-पूरिताशं फल-कुसुमाऽऽचित-वृक्ष-रम्य-कुञ्जम्

प्रेयःŌ


भका१०.४६-१ मधु-कर-विरुतैः प्रियाध्वनीनां सरसि-रुहैर् दयिताऽऽस्य-हास्य-लक्ष्म्याः
भका१०.४६-२ स्फुटमनुहरमाणमादधानं पुरुष-पतेः सहसा परंप्रमोदम्

रसवत्Ō


भका१०.४७-१ ग्रह-मणि-रसनं दिवो नितम्बं विपुलमनुत्तम-लब्ध-कान्ति-योगम्
भका१०.४७-२ च्युत-घन-वसनं मनोऽभिरामं शिखर-करैर् मदनादिव स्पृशन्तम्

ऊर्जस्वी-


भका१०.४८-१ प्रचपलम-गुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्य
भका१०.४८-२ कृत-वसतिमिवाऽर्णवोपकण्ठे स्थिरम-तुलोन्नतिमूढ-तुङ्ग-मेघम्.

पर्यायोक्तिःŌ


भका१०.४९-१ स्फठिक-मणि-गृहैः स-रत्न-दीपैः प्रतरुण-किन्नर-गीत-निस्वनैश् च
भका१०.४९-२ अमर-पुर-मतिं सुराऽङ्गनानां दधतम-दुःखमनल्प-कल्प-वृक्षम्.

समाहितम्Ō


भका१०.५०-१ अथ ददृशुरुदीर्ण-धूम-धूम्रां दिशमुदधि-व्यवधिं समेत-सीताम्
भका१०.५०-२ सह-रघुतनयाः प्लवङ्ग-सेनाः पवन-सुताऽङ्गुलि-दर्शितामुदक्षाः.

उदारम्Ō


भका१०.५१-१ जल-निधिमगमन् महेन्द्र-कुञ्जात् प्रचय-तिरोहित-तिग्म-रश्मि-भासः
भका१०.५१-२ सलिल-समुदयैर् महा-तरङ्गैर् भुवन-भर-क्षममप्य-भिन्न-वेलम्

उदारमेवŌ


भका१०.५२-१ पृथु-गुरु-मणि-शुक्ति-गर्भ-भासा ग्लपित-रसा-तल-संभृताऽन्धकारम्
भका१०.५२-२ उपहत-रवि-रश्मि-वृत्तिमुच्चैः प्रलघु-परिप्लवमान-वज्र-जालैः

उदारमेवŌ


भका१०.५३-१ समुपचित-जलं विवर्धमानै- र-मल-सरित्-सलिलैर् विभावरीषु
भका१०.५३-२ स्फुटमवगमयन्तमूढ-वारीन् शश-धर-रत्न-मयान् महेन्द्र-सानून्

श्लिष्टम्Ō


भका१०.५४-१ भुवन-भर-सहान-लङ्घ्य-धाम्नः पुरु-रुचि-रत्न-भृतो गुरूरु-देहान्
भका१०.५४-२ श्रम-विधुर-विलीन-कूर्म-नक्रान् दधतमुदूढ-भुवो गिरीनहींश् च

श्लिष्टमेवŌ


भका१०.५५-१ प्रददृशुरुरु-मुक्त-शीकरौघान् विमल-मणि-द्युति-संभृतेन्द्र-चापान्
भका१०.५५-२ जल-मुच इव धीर-मन्द्र-घोषान् क्षिति-परिताप-हृतो महा-तरङ्गान्

हेतु-श्लिष्टम्Ō


भका१०.५६-१ विद्रुम-मणि-कृत-भूषा मुक्ता-फल-निकर-रञ्जिताऽऽत्मानः
भका१०.५६-२ बभुरुदक-नाग-भग्ना वेला-तट-शिखरिणो यत्र,

अपह्नुतिःŌ


भका१०.५७-१ भृत-निखिल-रसा-तलः स-रत्नः शिखरि-समोर्मि-तिरोहिताऽन्तरीक्षः
भका१०.५७-२ कुत इह परमाऽर्थतो जलौघो जल-निधिमीयुरतः समेत्य मायाम्

विशेषोक्तिःŌ


भका१०.५८-१ शशि-रहितमपि प्रभूत-कान्तिं विबुध-हृत-श्रियमप्य-नष्ट-शोभम्
भका१०.५८-२ मथितमपि सुरैर् दिवं जलौघैः समभिभवन्तम-विक्षत-प्रभावम्

व्याज-स्तुतिःŌ


भका१०.५९-१ क्षिति-कुल-गिरि-शेष-दिग्-गजेन्द्रान् सलिल-गतामिव नावमुद्वहन्तम्
भका१०.५९-२ धृत-विधुर-धरं महा-वराहं गिरि-गुरु-पोत्रमपीहितैर् जयन्तम्

उपमा-रूपकम्Ō


भका१०.६०-१ गिरि-परिगत-चञ्चलाऽऽपगाऽन्तं जल-निवहं दधतं मनोऽभिरामम्
भका१०.६०-२ गलितमिव भुवो विलोक्य रामं धरणि-धर-स्तन-शुक्ल-चीन-पट्टम्.

तुल्ययोगिताŌ


भका१०.६१-१ अ-परिमित-महाऽद्भुतैर् विचित्रश् च्युत-मलिनः शुचिभिर् महान-लङ्घ्यैः
भका१०.६१-२ तरु-मृग-पति-लक्ष्मण-क्षितीन्द्रैः समधिगतो जलधिः परं बभासे.

निदर्शनम्Ō


भका१०.६२-१ न भवति महिमा विना विपत्ते- रवगमयन्निव पश्यतः पयोधिः
भका१०.६२-२ अ-विरतमभवत् क्षणे क्षणे ऽसौ शिखरि-पृथु-प्रथित-प्रशान्त-वीचिः.

विरोधःŌ


भका१०.६३-१ मृदुभिरपि बिभेद पुष्प-बाणैश् चलशिशिरैरपि मारुतैर् ददाह
भका१०.६३-२ रघु-तनयमनर्थ-पण्डितो ऽसौ, न च मदनः क्षतमाततान्, ना ऽर्चिः

उपमेयोपमा


भका१०.६४-१ अथ मृदु-मलिन-प्रभौ दिनाऽन्ते जलधि-समीप-गतावतीत-लोकौ
भका१०.६४-२ अनुकृतिमितरेतरस्य मूर्त्योर् दिन-कर-राघव-नन्दनावकार्ष्टाम्.

सहोक्तिःŌ


भका१०.६५-१ अपहरदिव सर्वतो विनोदान् दयित-गतं दधदेकधा समाधिम्
भका१०.६५-२ घन-रुचि ववृधे ततो ऽन्धकारं सह रघु-नन्दन-मन्मथोदयेन.

परिवृत्तिःŌ


भका१०.६६-१ अधि-जलधि तमः क्षिपन् हिमांशुः परिददृशे ऽथ दृशां कृताऽवकाशः
भका१०.६६-२ विदधदिव जगत् पुनः प्रलीनम्।
भवति महान् हि पराऽर्थ एव सर्वः.

स-सन्देहःŌ


भका१०.६७-१ अशनिरयमसौ, कुतो निरभ्रे।
शित-शर-वर्षम-सत् तदप्य-शार्ङ्गम्.
भका१०.६७-२ इति मदन-वशो मुहुः शशाऽङ्के रघु-तनयो, न च निश्चिकाय चन्द्रम्.

अनन्वयःŌ


भका१०.६८-१ कुमुद-वन-चयेषु कीर्ण-रश्मिः क्षत-तिमिरेशु च दिग्-वधू-मुखेषु
भका१०.६८-२ वियति च विललास तद्-वदिन्दुर्, विलसति चन्द्रमसो न यद्-वदन्यः.

उत्प्रेक्षाऽऽवयवःŌ


भका१०.६९-१ शरणमिव गतं तमो निकुञ्जे विटपि-निराकृत-चन्द्र-रश्म्यरातौ
भका१०.६९-२ पृथु-विषम-शिलाऽन्तराल-संस्थं स-जल-घन-द्युति भीत-वत् ससाद.

संसृष्टिःŌ


भका१०.७०-१ अथ नयन-मनो-हरो ऽभिरामः स्मर इव चित्त-भवो ऽप्य-वाम-शीलः
भका१०.७०-२ रघु-सुतमनुजो जगाद वाचं स-जल-घन-स्तनयित्नु-तुल्य-घोषःŌ

आशीःŌ


भका१०.७१-१ "पति-वध-परिलुप्त-लोल-केशीर् नयन-जलाऽपहृताऽञ्जनौष्ठ-रागाः
भका१०.७१-२ कुरु रिपु-वनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः

हेतुःŌ


भका१०.७२-१ अधिगत-महिमा मनुश्य-लोके वत सुतरामवसीदति प्रमादी,
भका१०.७२-२ गज-पतिरुरु-शैल-शृङ्ग-वर्ष्मा गुरुरवमज्जति पङ्क-भाङ्, न दारु.

निपुणम्Ō


भका१०.७३-१ बोद्धव्यं किमिव हि, यत् त्वया न बुद्धं, किं वा ते निमिषितमप्य-बुद्धि-पूर्वम्,
भका१०.७३-२ लब्धाऽऽत्मा तव सुकृतैरनिष्ट-शङ्की स्नेहौघो घटयति मां तथापि वक्तुम्."
भका१०.७४-१ सौमित्रेरिति वचनं निशम्य रामो जृम्भा-वान् भुज-युगलं विभज्य निद्रान्
भका१०.७४-२ अध्यष्ठाच् छिशयिषया प्रवाल-तल्पं रक्षायै प्रति-दिशमादिशन् प्लवङ्गान्.


भका११.१-१ अथा ऽस्तमासेदुषि मन्द-कान्तौ पुण्य-क्षयेणेव निधौ कलानाम्
भका११.१-२ समाललम्बे रिपु-मित्र-कल्पैः पद्मैः प्रहासः कुमुदैर् विषादः
भका११.२-१ दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम्
भका११.२-२ बद्धा ऽनुरागो ऽनुपपात तूर्णं तारा-गणः संभृत-शुभ्र-कीर्तिः.
भका११.३-१ क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा
भका११.३-२ लङ्काऽङ्गनानामवबोध-काले लुलामनारुह्य गतो ऽस्तमिन्दुः.
भका११.४-१ मानेन तल्पेष्व-यथा-मुखीना मिथ्या-प्रसुप्तैर् गमित-त्रियामाः
भका११.४-२ स्त्रीभिर् निशाऽतिक्रम-विह्वलाभिर् दृष्टे ऽपि दोषे पतयो ऽनुनीताः.
भका११.५-१ ईर्श्या-विरुग्णाः स्थिर-बद्ध-मूला निरस्त-निःशेष-शुभ-प्रतानाः
भका११.५-२ आप्यायिता नेत्र-जल-प्रसेकैः प्रेम-द्रुमाः संरुरुहुः प्रियाणाम्.
भका११.६-१ ततः समाशङ्कित-विप्रयोगः पुनर्-नवीभूत-रसो ऽवितृष्णः
भका११.६-२ स्मरस्य सन्तं पुनरुक्त-भावं ना ऽऽवर्तमानस्य विवेद लोकः.
भका११.७-१ वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रिय-संभवेन
भका११.७-२ संकोचमेवा ऽसहमानमस्था- द-शक्त-वद् वञ्चित-मानि चक्षुः
भका११.८-१ पीने भटस्योरसि वीक्ष्य भुग्नांस् तनु-त्वचः पाणि-रुहान् सु-मध्या
भका११.८-२ इच्छा-विभङ्गाऽऽकुल-मानसत्वाद् भर्त्रे नखेभ्यश् च चिरं जुजूरे.
भका११.९-१ स्रस्ताऽङ्ग-चेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बु-रोमोद्गम-गम्य-जीवः
भका११.९-२ अ-शेष-नष्ट-प्रतिभा-पटुत्वो गाढोपगूढो दयितैर् जनो ऽभूत्.
भका११.१०-१ तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य,
भका११.१०-२ किं तत् कथं वेत्युपलब्ध-संज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः.
भका११.११-१ वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर् घटयन्न-मन्दम्
भका११.११-२ स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा.
भका११.१२-१ स्रस्ताऽङ्ग-यष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी
भका११.१२-२ अनूढमाना शयने नवोढा परोपकारैक-रसैव तस्थौ.
भका११.१३-१ आलिङ्गितायाः सहसा त्रपा-वांस् त्रासाऽभिलाषाऽनुगतो रताऽऽदौ
भका११.१३-२ विश्वासिताया रमणेन वध्वा विमर्द-रम्यो-मदनो बभूव.
भका११.१४-१ सामोन्मुखेना ऽऽच्छुरिता प्रियेण दत्ते ऽथ काचित् पुलकेन भेदे
भका११.१४-२ अन्तः-प्रकोपाऽपगमाद् विलोला वशीकृता केवल-विक्रमेण.
भका११.१५-१ गुरुर् दधाना परुष-त्वमन्या कान्ता ऽपि कान्तेन्दु-कराऽभिमृष्टा
भका११.१५-२ प्रह्लादिता चन्द्र-शिलेव तूर्णं क्षोभात् स्रवत्-स्वेदजला बभूव.
भका११.१६-१ शशाङ्क-नाथाऽपगमेन धूम्रां मूर्च्छा-परीतामिव निर्-विवेकाम्
भका११.१६-२ ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः
भका११.१७-१ अ-वीत-तृष्णो ऽथ परस्परेण क्षणादिवाऽऽयात-निशाऽवसानः
भका११.१७-२ दुःखेन लोकः परवानिवा ऽगात् समुत्सुकः स्वप्न-निकेतनेभ्यः
भका११.१८-१ अर्धोत्थिताऽऽलिङ्गित-सन्निमग्नो रुद्धः पुनर् यान् गमने ऽनभीप्सुः
भका११.१८-२ व्याजेन निर्याय पुनर् निवृत्तस् त्यक्ताऽन्य-कार्यः स्थित एव कश्चित्.
भका११.१९-१ तालेन संपादित-साम्य-शोभं शुभाऽवधानं स्वर-बद्ध-रागम्
भका११.१९-२ पदैर् गताऽर्थं नृप-मन्दिरेषु प्रातर् जगुर् मङ्गल-वत् तरुण्यः.
भका११.२०-१ दुरुत्तरे पङ्क इवा ऽन्धकारे मग्नं जगत् सन्तत-रश्मि-रज्जुः
भका११.२०-२ प्रनष्ट-मूर्ति-प्रविभागमुद्यन् प्रत्युज्जहारेव ततो विवस्वान्.
भका११.२१-१ पीतौष्ठ-रागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर् मुखानि
भका११.२१-२ प्रातः कृताऽर्थानि यथा विरेजुस् तथा न पूर्वेद्युरलंकृतानि.
भका११.२२-१ प्रजागराऽऽताम्र-विलोचनाऽन्ता निरञ्जनाऽलक्तक-पत्र-लेखाः
भका११.२२-२ तुल्या इवा ऽऽसन् परिखेद-तन्व्यो वास-च्युताः सेवित-मन्मथाभिः
भका११.२३-१ आबद्ध-नेत्राऽञ्जन-पङ्क-लेशस् ताम्बूल-रागं बहुलं दधानः
भका११.२३-२ चकार कान्तो ऽप्यधरो ऽङ्गनानां सहोषितानां पतिभिर् लघुत्वम्.
भका११.२४-१ चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूल-रक्तं च स-रागमोष्ठम्
भका११.२४-२ कुर्वन् स-वासं च सु-गन्धि वक्त्रं चक्रे जनः केवल-पक्ष-पातम्.
भका११.२५-१ क्षतैरसंचेतित-दन्त-लब्धैः संभोग-काले ऽवगतैः प्रभाते
भका११.२५-२ अ-शङ्कता ऽन्योन्य-कृतं व्यलीकं वियोग-बाह्यो ऽपि जनो ऽतिरागात्
भका११.२६-१ नेत्रेषुभिः संयुत-पक्ष्म-पत्रैः कर्णाऽन्त-कृष्टैरुरु-केश-शूलाः
भका११.२६-२ स्तनोरु-चक्रास् तत-कर्ण-पाशाः स्त्री-योद्ध-मुख्या जयिनो विचेरुः
भका११.२७-१ पयो-धरांश् चन्दन-पङ्क-दिग्धान् वासांसि चा ऽमृष्ट-मृजानि दृष्ट्वा
भका११.२७-२ स्त्रीणां स-पत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर् मनोभिः
भका११.२८-१ स्मराऽऽतुरे चेतसि लब्ध-जन्मा रराज लोलोऽपि गुणाऽपहार्यः
भका११.२८-२ कुतूहलान् नेत्र-गवाक्ष-संस्थः पश्यन्निवा ऽन्योन्य-मुखानि रागः
भका११.२९-१ गते ऽतिभूमिं प्रणये प्रयुक्ता- न-बुद्धि-पूर्वं परिलुप्तसंज्ञः
भका११.२९-२ आत्माऽनुभूतानपि नोपचारान् स्मराऽऽतुरः संस्मरति स्म लोकः
भका११.३०-१ वस्त्रैरनत्युल्बण-रम्य-वर्णैर् विलेपनैः सौरभ-लक्ष्मणीयैः
भका११.३०-२ आस्यैश् च लोकः परितोष-कान्तै- रसूचयल् लब्ध-पदं रहस्यम्.
भका११.३१-१ प्रातस्तरां चन्दन-लिप्त-गात्राः प्रच्छाद्य हस्तैरधरान् वदन्तः
भका११.३१-२ शाम्यन्-निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्.
भका११.३२-१ साम्नैव लोके विजिते ऽपि वामे ! किमुद्यतं भ्रू-धनुर्-प्रसह्यम्,
भका११.३२-२ हन्तुं क्षमो वा वद लोचनेषुर् दिग्धो विषेणेव किमञ्जनेन.
भका११.३३-१ दन्तच्छदे प्रज्वलिताऽग्नि-कल्पे ताम्बूल-रागस् तृण-भार-तुल्यः
भका११.३३-२ न्यस्तः किमित्यूचुरुपेत-भावा गोष्ठीषु नारीस् तरुणीर् युवानः.
भका११.३४-१ सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संताप-हराण्युरूणि
भका११.३४-२ प्रबुद्ध-नारी-मुख-पङ्क-जानि प्रातः सरांसीव गृहाणि रेजुः.
भका११.३५-१ संमृष्ट-सिक्ताऽर्चित-चारु-पुष्पै- रामोद-वद्-द्रव्य-सुगन्ध-भागैः
भका११.३५-२ लक्ष्मीर् विजिग्ये भवनैः स-भृङ्गैः सेव्यस्य देवैरपि नन्दनस्य.
भका११.३६-१ अक्ष्णोः पतन् नील-सरो-ज-लोभाद् भृङ्गः करेणा ऽल्प-धिया निरस्तः
भका११.३६-२ ददंश ताम्राऽम्बु-रुहाऽभिसन्धिस् त्र्णाऽऽतुरः पाणि-तले ऽपि धृष्णुः.
भका११.३७-१ विलोल-तां चक्षुषि हस्त-वेपथुं भ्रुवोर् विभङ्गं स्तन-युग्म-वल्गितम्
भका११.३७-२ विभूषणानां क्वणितं च षट्-पदो गुरुर् यथा नृत्य-विधौ समादधे.
भका११.३८-१ अथा ऽनुकूलान् कुल-धर्म-संपदो विधाय वेशान् सु-दिवः पुरी-जनः.
भका११.३८-२ प्रबोध-काले शात-मन्यु-विद्विषः प्रचक्रमे राज-निकेतनं प्रति.
भका११.३९-१ शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता वेगाज् जलौघाः पुर-मन्दिरेभ्यः
भका११.३९-२ आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त.
भका११.४०-१ प्रबोध-कालात् त्रिदशेन्द्र-शत्रोः प्रागूर्ध्व-शोषं परिशुष्यमाणाः
भका११.४०-२ हीना महान्तश् च सम-त्वमीयुर् द्वास-स्थैरवज्ञा-पुरुषाऽक्षि-दृष्ताः.
भका११.४१-१ गुरूरु-चञ्चत्-कर-कर्ण-जिह्वै- रवज्ञया ऽग्राऽङ्गुलि-संगृहीतैः
भका११.४१-२ रक्षाम्स्यनायास-हृतैरुपास्थुः कपोल-लीनाऽलि-कुलैर् गजेन्द्रैः.
भका११.४२-१ निकृत्त-मत्त-द्विप-कुम्भ-मांसैः संपृक्त-मुक्तैर् हरयोऽग्र-पादैः
भका११.४२-२ आनिन्यिरे श्रेणिकृतास् तथा ऽन्यैः परस्परं वालधि-सन्निबद्धाः
भका११.४३-१ उपेक्षिता देव-गणैस् त्रसद्भिर् निषा-चरैर् वीत-भयैर् निकृत्ताः
भका११.४३-२ तस्मिन्नदृश्यन्त सुर-द्रुमाणां स-जाल-पुष्प-स्तबकाः प्रकीर्णाः.
भका११.४४-१ निराकरिष्णुर् द्विज-कुञ्जराणां तृणीकृताऽशेष-गुणोऽति-मोहात्
भका११.४४-२ पापाऽशयानभ्युदयाऽर्थमार्चीत् प्राग् ब्रह्म-रक्षः-प्रवरान् दशाऽऽस्यः
भका११.४५-१ मायाविभिस् त्रास-करैर् जनाना- माप्तैरुपादान-परैरुपेतः
भका११.४५-२ सतां विघातैक-रसैरविक्षत् सदः परिक्षोभित-भूमि-भागम्.
भका११.४६-१ विघृत-निशित-शस्त्रैस् तद् युतं यातुधानै- रुरु-जठर-मुखीभिः संकुलं राक्षसीभिः
भका११.४६-२ श्वगणि-शत-विकीर्णं वागुरा-वन् मृगीभिर् वनमिव स-भयाभिर् देव-बन्दीभिरासीत्.
भका११.४७-१ जलद इव तडित्वान् प्राज्य-रत्न-प्रभाभिः प्रति-ककुभमुदस्यन् निस्वनं धीर-मन्द्रम्
भका११.४७-२ शिखरमिव सुमेरोरासनं हैममुच्चैर् विविध-मणि-विचित्रं प्रोन्नतं सो ऽध्यतिष्थत्


भका१२.१-१ ततो वि-निद्रं कृत-देवताऽर्चं दृष्ट्यैव चित्त-प्रशमं किरन्तम्
भका१२.१-२ आविष्कृताऽङ्ग-प्रतिकर्म-रम्यं विभीषणं वाचमुवाच माता
भका१२.२-१ "प्रबाधमानस्य जगन्ति धीमंस् ! त्वं सोदरस्याऽतिमदोद्धतस्य
भका१२.२-२ आनन्दनो नाक-सदां प्रशान्तिं तूर्णं विषस्याऽमृत-वत् कुरुष्व.
भका१२.३-१ कुर्यास् तथा, येन जहाति सीतां विषाद-नीहार-परीत-मूर्तिम्
भका१२.३-२ स्थितां क्षितौ शान्त-शिखा-प्रतानां तारामिव त्रास-करीं जनस्य.
भका१२.४-१ यावन् न संत्रासित-देव-संघः पिण्डो विषस्येव हरेण भीष्मः
भका१२.४-२ संग्रस्यते ऽसौ पुरुषाऽधिपेन, द्रुतं कुलाऽऽनन्द ! यतस्व तावत्.
भका१२.५-१ हता जनस्थान सदो निकायाः, कृता जितोत्खात-भट-द्रुमा पूः,
भका१२.५-२ सदांसि दग्धानि, विधेयमस्मिन् यद् बन्धुना, तद् घटयस्व तस्मिन्."
भका१२.६-१ चिकीर्षिते पूर्व-तरं स तस्मिन्, क्षेमं-करे ऽर्थे मुहुरीर्यमाणः
भका१२.६-२ मात्रा ऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्.
भका१२.७-१ दौवारिकाऽभ्याहत-शक्र-दूतं सोपायनोपस्थित-लोक-पालम्
भका१२.७-२ साऽऽशङ्क-भीष्माऽऽप्त-विशन्-निशाटं द्वारं ययौ रावण-मन्द्रिरस्य.
भका१२.८-१ दूरात् प्रतीहार-नतः स वार्तां पृच्छन्ननावेदित-संप्रविष्टः
भका१२.८-२ स-गौरवं दत्त-पथो निशाटै- रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम्
भका१२.९-१ कृशानु-वर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षय-मेघ-भीमम्
भका१२.९-२ निसर्ग-तीक्ष्णं नयन-स्फुलिङ्गं युगान्त-वह्नेरिव धूम-राशिम्
भका१२.१०-१ प्रीत्या ऽपि दत्तेक्षण-सन्निपातं भयं भूजङ्गाऽधिप-वद् दधानम्
भका१२.१०-२ तमः-समूहाऽऽकृतिमप्यशेषा- नूर्जा जयन्तं प्रथित-प्रकाशान्.
भका१२.११-१ तं रत्न-दायं जित-मृत्यु-लोका रात्रिं-चराः कान्ति-भृतो ऽन्वसर्पन्
भका१२.११-२ प्रमुक्त-मुक्ता-फलमम्बु-वाहं संजात-तृष्णा इव देव-मुख्याः.
भका१२.१२-१ स किङ्करैः कल्पितमिङ्गित-ज्ञैः संबाधकं पूर्व-समागतानाम्
भका१२.१२-२ सिंहासनोपाश्रित-चारु-बाहु- रध्यास्त पीठं विहित-प्रणामः.
भका१२.१३-१ ततो दशाऽऽस्यः क्षुभिताऽहि-कल्पं दीप्राऽङ्गुलीयोपलमूढ-रत्नम्
भका१२.१३-२ अनेक-चञ्चन्-नख-कान्ति-जिह्वं प्रसार्य पाणिं समितिं बभाषे
भका१२.१४-१ "शक्तैः सुहृद्भिः परिदृष्ट-कार्यै- राम्नातिभिर् नीतिषु बुद्धि-मद्भिः
भका१२.१४-२ युष्मद्-विधैः सार्धमुपाय-विद्भिः सध्यन्ति कार्याणि सु-मन्त्रितानि.
भका१२.१५-१ उपेक्षिते वालि-खराऽऽदि-नाशे, दग्धे पुरे, ऽक्षे निहते स-भृत्ये,
भका१२.१५-२ सैन्ये द्विषां सागरमुत्तितीर्षा- व-नन्तरं ब्रूत, यदत्र युक्तम्."
भका१२.१६-१ भुजांऽस-वक्षः-स्थल-कार्मुकाऽसीन् गदाश् च शूलानि च यातुधानाः
भका१२.१६-२ परामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्त-प्रमुखा दशाऽऽस्यम्.
भका१२.१७-१ "अ-खण्ड्य-मानं परिखण्ड्य शक्रं त्वं पण्डितं-मन्यमुदीर्ण-दण्डः
भका१२.१७-२ नराऽऽभियोगं नृ-भुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्.
भका१२.१८-१ निर्यत्-स्फुलिङ्गाऽऽकुल-धूम-राशिं किं ब्रूहि भूमौ पिनषाम भानुम्,
भका१२.१८-२ आ दन्त-निष्पीडित-पीतमिन्दुं ष्ठीवाम शुष्केक्षु-लताऽस्थि-कल्पम्.
भका१२.१९-१ स-राघवैः किं बत वानरैस् तैर् यैः प्रातराशो ऽपि न कस्यचिन् नः
भका१२.१९-२ स-स्थाणु-कैलास-धार ऽभिधत्स्व, किं द्यौरधो ऽस्तु, क्षितिरन्तरीक्षे.
भका१२.२०-१ चापल्य-युक्तस्य हरेः कृशानुः समेधितो वालधि-भाक् त्वदीयैः
भका१२.२०-२ शस्त्रेण वध्यस्य गलन्नधाक्षीद् राजन् ! प्रमादेन निजेन लङ्काम्."
भका१२.२१-१ अथा ऽञ्चितोरस्कमुदीर्ण-दृष्टिः कृत्वा विवक्षा-प्रवणं शरीरम्
भका१२.२१-२ विवृत्त-पाणिर् विहितोत्तराऽर्थं विभीषणो ऽभाषत यातुधानान्.
भका१२.२२-१ "युद्धाय राज्णा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम्,
भका१२.२२-२ तत् प्राण-पण्यैर् वचनीयमेव, प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम्.
भका१२.२३-१ यच् चापि यत्ना-ऽऽदृत-मन्त्र-वृत्तिर् गुरु-त्वमायाति नराऽभियोगः
भका१२.२३-२ वशीकृतेन्द्रस्य, कृतोत्तरो ऽस्मिन् विध्वंसिताऽशेष-पुरो हनूमान्.
भका१२.२४-१ अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश् चेत्,
भका१२.२४-२ विमृश्य तद् देव-धिया ऽभिधत्त ब्रह्माऽस्त्र-बन्धोऽपि यदि प्रमादः
भका१२.२५-१ जगन्त्यमेयाऽद्भुत-भाव-भाञ्जि, जिताऽभिमानाश् च जना विचित्राः,
भका१२.२५-२ कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीति-गर्भान् सु-धियो ऽवमन्ध्वम्.
भका१२.२६-१ वृद्धि-क्षय-स्थान-गतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः
भका१२.२६-२ घटेत सन्ध्याऽऽदिषु यो गुणेषु, लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि.
भका१२.२७-१ उपेक्षणीयैव परस्य वृद्धिः प्रनष्ट-नीतेरजितेन्द्रयस्य
भका१२.२७-२ मदाऽऽदि-युक्तस्य विराग-हेतुः, स-मूल-घातं विनिहन्ति या ऽन्ते.
भका१२.२८-१ जनाऽनुरागेण युतो ऽवसादः फलाऽनुबन्धः सुधिया ऽऽत्मनो ऽपि
भका१२.२८-२ उपेक्षणीयो ऽभ्युपगम्य संधिं कामाऽऽदि-षड्-वर्ग-जिता ऽधिपेन.
भका१२.२९-१ यदा विगृह्णन् न च संदधानो वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत्,
भका१२.२९-२ आसीत राजा ऽवसर-प्रतीक्षस् तदा प्रयासं वितथं न कुर्यात्.
भका१२.३०-१ संधौ स्थितो वा जनयेत् स्व-वृद्धिं हन्यात् परं वोपनिषत्प्रयोगैः
भका१२.३०-२ आश्रावयेदस्य जनं परैर् वा विग्राह्य कुर्यादवहीन-संधिम्.
भका१२.३१-१ संदर्शित-स्नेह-गुणः स्व-शत्रून् विद्वेषयन् मण्डलमस्य भिन्द्यात्
भका१२.३१-२ इत्येवमादि प्रविधाय संधिर् वृद्धेर् विधेयो ऽधिगमाभ्युपायः.
भका१२.३२-१ मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलाऽन्त-दुर्गान्
भका१२.३२-२ द्रुमाऽद्रि-दुर्लङ्घ्य-जलाप्रधृष्यान् वर्धेत राजा रिपु-विग्रहेण.
भका१२.३३-१ शक्नोति यो न द्विषतो निहन्तुं, विहन्यते ना ऽप्य-बलैर् द्विषद्भिः,
भका१२.३३-२ स श्वा-वराहं कलहं विदध्या- दासीत दुर्गाऽऽदि विवर्धयंश् च.
भका१२.३४-१ प्रयाण-मात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः,
भका१२.३४-२ अ-शक्नुवन् कर्तुमरेर् विघातं स्व-कर्म-रक्षां च परं ष्रयेत.
भका१२.३५-१ एकेन संधिः, कलहो ऽपरेण कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम्,
भका१२.३५-२ एवं प्रयुञ्जीत जिगीषुरेता नीतीर् विजानन्नहिताऽऽत्म-सारम्.
भका१२.३६-१ त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्र-मुख्यम्,
भका१२.३६-२ रामे तु राजन्, विपरीतमेतत् पश्यामि, तेना ऽभ्यधिकं विपक्षम्.
भका१२.३७-१ एकेन वाली निहतः शरेण सुहृत्-तमस् ते, रचितश् च राजा
भका१२.३७-२ यदैव सुग्रीव-कपिः परेण, तदैव कार्यं भवतो विनष्टम्.
भका१२.३८-१ प्राकार-मात्राऽऽवरणः प्रभावः खराऽऽदिभिर् यो निहतैस् तवाऽभूत्,
भका१२.३८-२ लङ्काप्रदाहाऽक्ष-वध-द्रु-भङ्गैः क्लाम्यत्यसावप्यधुना ऽतिमात्रम्.
भका१२.३९-१ षड्वर्ग-वश्यः परिमूढ-बन्धु- रुच्छिन्न-मित्रो विगुणैरुपेतः
भका१२.३९-२ मा पाद-युद्धं द्वि-रदेन कार्षीर् नम क्षितीन्द्रं प्रणतोपभोग्यम्.
भका१२.४०-१ रामो ऽपि दाराऽऽहरणेन तप्तो, वयं हतैर् बन्धुभिरात्म-तुल्यैः,
भका१२.४०-२ तप्तस्य तप्तेन यथा ऽऽयसो नः संधिः परेणा ऽस्तु, विमुञ्च सीताम्.
भका१२.४१-१ संधुक्षितं मण्डल-चण्ड-वातै- रमर्ष-तीक्ष्णं क्षिति-पाल-तेजः
भका१२.४१-२ सामाऽम्भसा शान्तिमुपैतु राजन् ! प्रसीद, जीवाम स-बन्धु-भृत्याः.
भका१२.४२-१ अ-पक्व-कुम्भाविव भङ्ग-भाजौ राजन्नियातां मरणं समानौ,
भका१२.४२-२ वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश् चोत्तम-भूरि-वैरी.
भका१२.४३-१ दण्डेन कोशेन च मन्यसे चेत् प्रकृष्टमात्मानमरेस् तथापि
भका१२.४३-२ रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु.
भका१२.४४-१ क्लिष्टाऽऽत्म-भृत्यः परिमृग्य-सम्पन् मानी यतेता ऽपि स-संशये ऽर्थे,
भका१२.४४-२ संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः.
भका१२.४५-१ शक्यान्य-दोषाणि महा-फलानि समारभेतोपनयन् समाप्तिम्
भका१२.४५-२ कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः.
भका१२.४६-१ जेतुं न शक्यो नृ-पतिः सु-नीतिर् दोषः क्षयाऽऽदिः कलहे ध्रुवश्, च
भका१२.४६-२ फलं न किंचिन् न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजा ऽरिम्.
भका१२.४७-१ त्वन्-मित्र-नाशो, निज-मित्र-लाभः, समेत-सैन्यः स च मित्र-कृच्छ्रे
भका१२.४७-२ भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालि-वधे न को ऽर्थः
भका१२.४८-१ लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो न राघवं, येन भवेद् विभेद्यः,
भका१२.४८-२ स्थितः सतां वर्त्मनि लब्ध-राज्यः प्रति-प्रियं सो ऽभ्यगमच् चिकीर्षुः.
भका१२.४९-१ फलाशिनो निर्झर-कुञ्ज-भाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः
भका१२.४९-२ न्यग्-जातयो रत्न-वरैरलभ्या मुख्याः कपीनामपि नोपजप्याः.
भका१२.५०-१ कृताऽभिषेको युवराज-राज्ये सुग्रीव-राजेन सुताऽविशेषम्
भका१२.५०-२ तारा-विधेयेन कथं विकारं तारा-सुतो यास्यति राक्षसाऽर्थम्.
भका१२.५१-१ पश्यामि रामादधिकं समं वा ना ऽन्यं, विरोधे यमुपाश्रयेम,
भका१२.५१-२ दत्त्वा वरं साऽनुशयः स्वयम्भू- रिन्द्राऽऽदयः पूर्व-तरं विरुद्धाः.
भका१२.५२-१ दुर्गाऽऽश्रितानां बहुना ऽपि राजन् ! कालेन पार्ष्णिग्रहणाऽऽदि-हेतुः
भका१२.५२-२ दुर्गोपरोधं न च कुर्वतो ऽस्ति शत्रोश् चिरेणा ऽपि दशाऽऽस्य ! हानिः
भका१२.५३-१ शस्त्रं तरूर्वी-धरमम्बु पानं वृत्तिः फलैर्, नो गज-वाजि-नार्यः
भका१२.५३-२ राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत् परेषाम्.
भका१२.५४-१ संधानमेवा ऽस्तु परेण तस्मान्, नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः,
भका१२.५४-२ नूनं वि-संधौ त्वयि सर्वमेतन् नेष्यन्ति नाशं कपयो ऽचिरेण."
भका१२.५५-१ विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणाम-नम्रम्
भका१२.५५-२ स्खलद्-वलिर् वार्धक-कम्प्र-मूर्धा मातामहो रावणमित्युवाच.
भका१२.५६-१ "एकः पदातिः पुरुषो धनुष्मान् यो ऽनेक-मायानि वियद्-गतानि
भका१२.५६-२ रक्षः-सहस्राणि चतुर्दशा ऽऽर्दीत्, का तत्र वो मानुष-मात्र-शङ्का.
भका१२.५७-१ ब्रह्मर्षिभिर् नूनमयं स-देवैः संतापितौ रात्रिचर-क्षयाय
भका१२.५७-२ नराऽऽकृतिर् वानर-सैन्यशाली जगत्य-जय्यो विहितो ऽभ्युपायः.
भका१२.५८-१ वज्राऽभिघातैर-विरुग्ण-मूर्तेः फेणैर् जलानामसुरस्य मूर्ध्नः
भका१२.५८-२ चकार भेदं मृदुभिर् महेन्द्रो यथा, तथैतत् किमपीति बोध्यम्.
भका१२.५९-१ क्व स्त्री-विषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्र-शिला-विशालम्,
भका१२.५९-२ संपश्यतैतद् द्युसदां सुनीतं, बिभेद तैस् तन् नर-सिंह-मूर्तिः.
भका१२.६०-१ प्रमाद-वांस् त्वं क्षत-धर्म-वर्त्मा गतो मुनीनामपि शत्रु-भावम्,
भका१२.६०-२ कुलस्य शान्तिं बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम्."
भका१२.६१-१ घोषेण तेन प्रतिलब्ध-संज्ञो निद्राऽऽविलाऽक्षः ष्रुत-कार्य-सारः
भका१२.६१-२ स्फुरद्-घनः साऽम्बुरिवा ऽन्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः
भका१२.६२-१ "क्रिया-समारम्भ-गतो ऽभ्युपायो, नृ-द्रव्य-सम्पत् सह-देश-कला,
भका१२.६२-२ विपत्-प्रतीकार-युता ऽर्थ-सिद्धिर् मन्त्राऽङ्गमेतानि वदन्ति पञ्च.
भका१२.६३-१ न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायाऽऽदिषु यो ऽतियायात्,
भका१२.६३-२ स प्राप्नुयान् मन्त्र-फलं न मानी काले विपन्ने क्षणदा-चरेन्द्र !
भका१२.६४-१ औष्ण्यं त्यजेन् मध्य-गतो ऽपि भानुः, शैत्यं निशायामथवा हि-मांशुः
भका१२.६४-२ अनर्थ-मूलं भुवनाऽवमानी मन्ये न मानं पिशिताशि-नाथ !
भका१२.६५-१ तथा ऽपि वक्तुं प्रसभं यतन्ते यन् मद्-विधाः सिद्धिमभीप्सवस् त्वाम्
भका१२.६५-२ विलोम-चेष्टं विहिताऽवहासाः परैर् हि तत् स्नेह-मयैस् तमोभिः
भका१२.६६-१ क्रूराः क्रियाः, ग्राम्य-सुखेषु सङ्गः, पुण्यस्य यः संक्षय-हेतुरुक्तः,
भका१२.६६-२ निषेवितो ऽसौ भवता ऽतिमात्रं फलत्य-वल्गु ध्रुवमेव राजन् !
भका१२.६७-१ दत्तं न किं, के विषया न भुक्ताः, स्थितो ऽस्मि वा कं परिभूय नोच्चैः,
भका१२.६७-२ इत्थं कृताऽर्थस्य मम ध्रुवं स्यान् मुत्युस् त्वदर्थे यदि, किं न लब्धम्.
भका१२.६८-१ किं दुर्नयैस् त्वय्युदितैर् मृषाऽर्थैर् वीर्येण वक्ता ऽस्मि रणे समाधिम्."
भका१२.६८-२ तस्मिन् प्रसुप्ते पुनरित्थमुक्त्वा विभीषणो ऽभाषत राक्षसेन्द्रम्.
भका१२.६९-१ "निमित्त-शून्यैः स्थगिता रजोभिर् दिशो, मरुद्भिर् विकृतैर् विलोलैः
भका१२.६९-२ स्वभाव-हीनैर् मृग-पक्षि-घोषैः क्रन्दन्ति भर्तारमिवा ऽभिपन्नम्
भका१२.७०-१ उत्पात-जं छिद्रमसौ विवस्वान् व्यादाय वक्त्राऽऽकृति लोक-भीष्मम्
भका१२.७०-२ अत्तुं जनान् धूसर-रश्मि-राशिः सिंहो यथा कीर्ण-सटो ऽभ्युदेति.
भका१२.७१-१ मार्गं गतो गोत्र-गुरुर् भृगूणा- मगस्तिना ऽध्यासित-विन्ध्य-शृङ्गम्,
भका१२.७१-२ संदृश्यते शक्र-पुरोहितो ऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः
भका१२.७२-१ मांसं हतानामिव राक्षसाना- माशंसवः क्रूर-गिरो रुवन्तः
भका१२.७२-२ क्रव्याऽशिनो दीप्त-कृशानु-वक्त्रा भ्राम्यन्त्य-भीताः परितः पुरं नः
भका१२.७३-१ पयो घटोध्नीरपि गा दुहन्ति मन्दं वि-वर्णं वि-रसं च गोपाः,
भका१२.७३-२ हव्येषु कीटोपजनः स-केशो न दीप्यते ऽग्निः सु-समिन्धनो ऽपि.
भका१२.७४-१ तस्मात् कुरु त्वं प्रतिकारमस्मिन् स्नेहान् मया रावण ! भाष्यमाणः,
भका१२.७४-२ वदन्ति दुःखं ह्यनुजीवि-वृत्ते स्थिताः पदस्थं परिणाम-पथ्यम्.
भका१२.७५-१ विरुग्ण-संकीर्ण-विपन्न-भिन्नैः पक्षुण्ण-संह्रीण-शिताऽस्त्र-वृक्णैः
भका१२.७५-२ यावन् नराऽशैर् न रिपुः शवऽशान् संतर्पयत्यानम तावदस्मै."
भका१२.७६-१ भ्रू-भङ्गमाधाय विहाय धैर्यं विभीषणं भीषण-रूक्ष-चक्षुः
भका१२.७६-२ गिरं जगादोग्र-पदामुदग्रः स्वं स्फावयन् शक्र-रिपुः प्रभावम्.
भका१२.७७-१ "शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः,
भका१२.७७-२ जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्य-नप्तः !
भका१२.७८-१ अ-निर्वृतं भूतिषु गूढ-वैरं सत्कार-काले ऽपि कृता ऽभ्यसूयम्
भका१२.७८-२ विभिन्न-कर्माऽऽशय-वाक् कुले नो मा ज्ञाति-चेलं, भुवि कस्यचिद् भूत्
भका१२.७९-१ इच्छन्त्यभीक्ष्णं क्षयमात्मनो ऽपि न ज्ञातयस् तुल्य-कुलस्य लक्ष्मीम्
भका१२.७९-२ नमन्ति शत्रून्, न च बन्धु-वृद्धिं संतप्यमानैर् हृदयैः सहन्ते.
भका१२.८०-१ त्वयाऽद्य लङ्काऽभिभवे ऽति-हर्षाद् दुष्टो ऽति-मात्रं विवृतो ऽन्तरात्मा,
भका१२.८०-२ धिक् त्वां, मृषा ते मयि दुस्थ-बुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम्.
भका१२.८१-१ ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्,
भका१२.८१-२ मोहं धियोत्साह-वशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्.
भका१२.८२-१ उवाच चैनं क्षणदा-चरेन्द्रंŌ "सुखं महा-राज ! विना मया ऽऽस्स्व.
भका१२.८२-२ मूर्खाऽऽतुरः पथ्य-कटूननश्नन् यत् साऽऽमयोऽऽसौ, भिषजां न दोषः
भका१२.८३-१ करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्र-सुखैर-पथ्यैः
भका१२.८३-२ विवेक-शून्यः प्रभुरात्म-मानी, महाननर्थः सुहृदां बता ऽयम्.
भका१२.८४-१ क्रीडन् भुजङ्गेन गृहाऽनुपातं कश्चिद् यथा जीवति संशय-स्थः,
भका१२.८४-२ संसेवमानो नृ-पतिं प्र-मूढं तथैव यज् जीवति, सो ऽस्य लाभः.
भका१२.८५-१ दत्तः स्व-दोषैर् भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य,
भका१२.८५-२ स चिन्तनीयः सह मन्त्रि-मुख्यैः कस्या ऽऽवयोर् लाघवमादधातु.
भका१२.८६-१ इति वचनमसौ रजनि-चर-पतिं बहु-गुणमसकृत् प्रसभमभिदधत्
भका१२.८६-२ निरगमद-भयः पुरुष-रिपु-पुरान् नर-पति-चरणौ नवितुमरि-नुतौ.
भका१२.८७-१ अथ तमुपगतं विदित-सुचरितं पवन-सुत-गिरा गिरि-गुरु-हृदयः
भका१२.८७-२ नृ-पतिरमदयन् मुदित-परिजनं स्व-पुर-पति-करैः सलिल-समुदयैः.


भका१३.१-१ चारु-समीरण-रमणे हरिण-कलङ्क-किरणाऽऽवली-स-विलासा
भका१३.१-२ आबद्ध-राम-मोहा वेला-मूले विभावरी परिहीणा.
भका१३.२-१ बद्धो वासर-सङ्गे भीमो रामेण लवण-सलिलाऽऽवासे
भका१३.२-२ सहसा संरम्भ-रसो दूराऽऽरूढ-रवि-मण्डल-समो लोले.
भका१३.३-१ गाढ-गुरु-पुङ्ख-पीडा- स-धूम-सलिलाऽरि-संभव-महा-बाणे
भका१३.३-२ आरुढा संदेहं रामे स-मही-धार मही स-फणि-सभा.
भका१३.४-१ घोर-जल-दन्ति-संकुल- मट्ट-महापङ्क-काहल-जलाऽऽवासम्
भका१३.४-२ आरीणं लवण-जलं समिद्ध-फल-बाण-विद्धि-घोर-फणि-वरम्
भका१३.५-१ स-भयं परिहरमाणो महाऽहि-संचार-भासुरं सलिल-गणम्
भका१३.५-२ आरूढो लवण-जलो जल-तीरं हरि-बलाऽऽगम-विलोल-गुहम्
भका१३.६-१ चञ्चल-तरु-हरिण-गणं बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम्
भका१३.६-२ हरि-पल्लव-तरु-जालं तुङ्गोरु-समिद्ध-तरु-वर-हिम-च्छायम्
भका१३.७-१ वर-वारनं सलिल-भरेण गिरि-मही-मण्डल-संवर-वारणम्
भका१३.७-२ वसुधार्यं तुङ्ग-तरङ्ग-सङ्ग-परिहीण-लोल-वसुधा-रयम्

कुलकम् एतानि सप्त संकीर्णानि


भका१३.८-१ प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर् वारीणाम्
भका१३.८-२ गङ्गाऽवलम्बि-बाहू रामं बहलोरु-हरि-तमाल-च्छायम्.

पूर्वाऽर्धं निरवद्यम्


भका१३.९-१ "तुङ्गा गिरि-वर-देहा, अ-गमं सलिलं, समीरणो रस-हारी,
भका१३.९-२ अ-हिमो रवि-किरण-गणो, माया संसार-कारणं ते परमा.
भका१३.१०-१ आयास-संभवारुण ! संहर संहार-हिम-हर-सम-च्छायम्
भका१३.१०-२ बाणं, वारि-समूहं संगच्छ पुराण-चारु-देहाऽऽवासम्.
भका१३.११-१ अ-सुलभ-हरि-संचारं जल-मूलं बहल-पङ्क-रुद्धाऽऽयामम्
भका१३.११-२ भण किं जल-परिहीणं सु-गमं तिमि-कम्बु-वारि-वारण-भीमम्.
भका१३.१२-१ गन्तुं लङ्का-तीरं बद्ध-महासलिल-संचरेण स-हेलम्
भका१३.१२-२ तरु-हरिणा गिरि-जालं वहन्तु गिरि-भार-संसहा गुरु-देहम्.
भका१३.१३-१ हर-हास-रुद्ध-विगमं पर-कण्ठ-गणं महाऽऽहव-समारम्भे
भका१३.१३-२ छिन्दन्तु राम-बाणा गम्भीरे मे जले महा-गिरि-बद्धे.
भका१३.१४-१ गच्छन्तु चारु-हासा वीर-रसाऽऽबन्ध-रुद्ध-भय-संबन्धम्
भका१३.१४-२ हन्तुं बहु-बाहु-बलं हरि-करिणो गिरि-वरोरु-देहं सहसा.

एतानि षट् संकीर्णानि


भका१३.१५-१ जिगमिषया संयुक्ता बहूव कपि-वाहिनी मते दाशरथेः
भका१३.१५-२ बुद्ध-जलाऽऽलय-चित्ता गिरि-हरणाऽऽरम्भ-संभव-समालोला.

पूर्वाऽर्धं निरवद्यम्


भका१३.१६-१ गुरु-गिरि-वर-हरण-सहं संहार-हिमारि-पिङ्गलं राम-बलम्
भका१३.१६-२ आरूढं सहसा खं वरुणाऽऽलय-विमल-सलिल-गण-गम्भीरम्
भका१३.१७-१ अवगाढं गिरि-जालं तुङ्ग-महा-भित्ति-रुद्ध-सुर-संचारम्
भका१३.१७-२ अ-भयहरि-रास-भीमं करि-परिमल-चारु-बहल-कन्दर-सलिलम्.
भका१३.१८-१ अलि-गण-विलोल-कुसुमं स-कमल-जल-मत्त-कुरर-कारण्डव-गणम्
भका१३.१८-२ फणि-संकुल-भीम-गुहं करि-दन्त-समूढ-स-रस-वसुधा-खण्डम्
भका१३.१९-१ अरविन्द-रेणु-पिञ्जर- सारस-रव-हारि-विमल-बहु-चारु-जलम्
भका१३.१९-२ रवि-मणि-संभव-हिम-हर- समागमाऽऽबद्ध-बहुल-सुर-तरु-धूपम्
भका१३.२०-१ हरि-रव-विलोल-वारण- गम्भीराऽऽबद्ध-स-रस-पुरु-संरावम्
भका१३.२०-२ घोणा-संगम-पङ्काऽऽ- विल-सुबल-भर-महोरु-वराहम्.

एतानि पञ्च संकीर्नानि


भका१३.२१-१ उच्चख्नुः परिरब्धान् कपि-सङ्घा बाहुभिस् ततो भूमि-भृतः
भका१३.२१-२ निष्पष्ट-शेष-मूर्ध्नः शृङ्ग-विकीर्णोष्ण-रश्मि-नक्षत्र-गणान्.

सर्वं निरवद्यम्


भका१३.२२-१ तुङ्ग-महा-गिरि-सुभरा बाहु-समारुद्ध-भिदुर-टङ्का बहुधा
भका१३.२२-२ लवण-जल-बन्ध-कामा आरूढा अम्बरं महा-परिणाहम्
भका१३.२३-१ बहु-धवल-वारि-वाहं विमलाऽऽयस-महाऽसि-देह-च्छायम्
भका१३.२३-२ बद्ध-विहङ्गम-मालं हिम-गिरिमिव मत्त-कुरर-रव-संबद्धम्
भका१३.२४-१ चारु-कलहंस्-संकुल- स-चण्ड-संचार-सारसाऽऽबद्ध-रवम्
भका१३.२४-२ स-कुसुम-कण-गन्ध-वहं समयाऽऽगम-वारि-सङ्ग-विमलाऽऽयामम्.
भका१३.२५-१ सहसा ते तरु-हरिणा गिरि-सुभरा लवण-सलिल-बन्धाऽऽरम्भे
भका१३.२५-२ तीर-गिरिमारूढा रामाऽऽगम-रुद्ध-स-भय-रिपु-संचारम्.

एतानि चत्वारि संकीर्णानि


भका१३.२६-१ ततः प्राणीताः कपि-यूथ-मुख्यैर् न्यस्ताः कृशानोस् तनयेन सम्यक्
भका१३.२६-२ अ-कम्प्र-ब्राध्नाऽग्र-नितम्ब-भागा महाऽर्णवं भूमि-भृतो ऽवगाढाः

निराख्यातं निरवद्यं च


भका१३.२७-१ तेने ऽद्रि-बन्ध्यो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः,
भका१३.२७-२ तत्रास शत्रुर्, ददृशे सुवेलः, प्रापे जलान्तो, जुहृषुः प्लवङ्गाः.

एकान्तराख्यातं निरवद्यं च


भका१३.२८-१ भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्, जुगुः, समुत्पुप्लुविरे, निषेदुः,
भका१३.२८-२ आस्फोटयांचक्रुरभिप्रणेदू, रेजुर्, ननन्दुर्, विययुः, समीयुः.

आख्यात-माला


भका१३.२९-१ गिरि-पङ्क-चारु-देहं कक्कोल-लवङ्ग-बध-सुरभि-परिमलम्
भका१३.२९-२ बहु-बहलोरु-तरङ्गं परिसरसारूढमुद्धरं लवण-जलम्.
भका१३.३०-१ लोलं कूलाऽभिगमे खे तुङ्गा-मल-निबद्ध-पुरु-परिणाहम्
भका१३.३०-२ सुर-गङ्गा-भरण-सहं गिरि-बन्ध-वरेण लवण-सलिलं रुद्धम्.
भका१३.३१-१ आरूढं च सुवेलं तरु-मालाऽऽबन्ध-हारि-गिरि-वर-जालम्
भका१३.३१-२ रावण-चित्त-भयङ्कर- मापिङ्गल-लोल-केसरं राम-बलम्
भका१३.३२-१ लङ्काऽऽलय-तुमुलाऽऽरव- सुभर-गभीरोरु-कुञ्ज-कन्दर-विवरम्
भका१३.३२-२ वीणा-रव-रस-सङ्गम- सुर-गण-संकुल-महा-तमाल-च्छायम्
भका१३.३३-१ स-रस-बहु-पल्लवाऽऽविल- केसर-हिन्ताल-बद्ध-बहल-च्छायम्
भका१३.३३-२ ऐरावण-मद-परिमल- गन्धवहाऽऽबद्ध-दन्ति-संरम्भ-रसम्
भका१३.३४-१ तुङ्ग-तरु-च्छाया-रुह- कोमल-हरि-हारि-लोल-पल्लव-जालम्
भका१३.३४-२ हरिण-भयंकर-स-कुसुम- दाव-सम-च्छवि-विलोल-दाडिम-कुञ्जम्
भका१३.३५-१ कल-हरि-कण्ठ-विरावं सलिल-महा-बन्ध-संकुल-महा-सालम्
भका१३.३५-२ चल-किसलय-संबद्धं मणि-जालं सलिल-कण-मयं-विवहन्तम्
भका१३.३६-१ तुङ्ग-मणि-किरण-जालं गिरि-जल-संघट्ट-बद्ध-गम्भीर-रवम्
भका१३.३६-२ चारु-गुहा-विवर-सभं सुर-पुर-समममर-चारण-सुसंरावम्
भका१३.३७-१ विमल-महा-मणि-टङ्कं सिन्दूर-कलङ्क-पिञ्जर-सहा-भित्तिम्
भका१३.३७-२ वीर-हरि-दन्ति-सङ्गम- भय-रुद्ध-विभावरी-विहार-समीहम्
भका१३.३८-१ स-महा-फणि-भीम-बिलं भूरि-विहङ्गम-तुमुलोरु-घोर-विरावम्
भका१३.३८-२ वारण-वराह-हरि-वर- गो-गण-सारङ्ग-संकुल-महा-सालम्
भका१३.३९-१ चल-किसलय-स-विलासं चारु-मही-कमल-रेणु-पिञ्जर-वसुधम्
भका१३.३९-२ स-कुसुम-केसर-बाणं लवङ्ग-तरु-तरुण-वल्लरी-वर-हासम्
भका१३.४०-१ अ-मल-मणि-हेम-टङ्कं तुङ्ग-महा-भित्ति-रुद्ध-रुरु-पङ्क-गमम्
भका१३.४०-२ अमराऽऽरूढ-परिसर मेरुमिवा ऽऽविल-स-रस-मन्दार-तरुम्
भका१३.४१-१ फल-भर-मन्थर-तरु-वर- म-विदूर-विरूढ-हारि-कुसुमाऽऽपीडम्
भका१३.४१-२ हरिण-कलङ्क-मणि-संभव- बहु-वारि-भर-सुगम्भीर-गुहम्.
भका१३.४२-१ जल-काम-दन्ति-संकुल- स-हेम-रस-चारु-धवल-कन्दर-देहम्
भका१३.४२-२ अङ्कुर-तोह-सम-च्छवि- रुरु-गण-संलीढ-तरल-हरि-मणि-किरणम्
भका१३.४३-१ गाढ-समीरण-सुसहं भीम-रवोत्तुङ्ग-वारि-धर-संघट्टम्
भका१३.४३-२ धवल-जल-वाह-माला- संबन्धाऽऽबद्ध-हिम-धरा-धर-लीलम्.
भका१३.४४-१ लवण-जल-बन्ध-स-रसं तरु-फल-संपत्ति-रुद्ध-देहाऽऽयासम्
भका१३.४४-२ लङ्का-तोरण-वारण- मारूढं समर-लालसं-राम-बलम्.
भका१३.४५-१ गुरु-पणव-वेणु-गुञ्जा- भेरी-पेलोरु-झल्लरी-भीम-रवम्
भका१३.४५-२ ढक्का-घण्टा-तुमुलं सन्नद्धं पर-बलं रणाऽऽयास-सहम्
भका१३.४६-१ आरूढ-बाण-घोरं वि-मलाऽऽयस-जाल-गूढ-पीवर-देहम्
भका१३.४६-२ चञ्चल-तुरङ्ग-वारण- संघट्टाऽऽबद्ध-चारु-परिणाह-गुणम्
भका१३.४७-१ असि-तोमर-कुन्त-महा- पट्टिश-भल्ल-वर-बाण-गुरु-पुरु-मुसलम्
भका१३.४७-२ वीर-रसाऽलङ्कारं गुरु-संचार-हय-दन्ति-स-मही-कम्पम्
भका१३.४८-१ ते रामेण स-रभसं परितरला हरि-गणा रण-समारम्भे
भका१३.४८-२ रुद्धा लङ्का-परिसर- भू-धर-परिभङ्ग-लालसा धीर-रवम्.
भका१३.४९-१ युग्मकम्Ō जल-तीर-तुङ्ग-तरु-वर- कन्गर-गिरि-भित्ति-कुञ्ज-विवराऽऽवासम्
भका१३.४९-२ भीमं तरु-हरिण-बलं सु-समिद्ध-हिमारि-किरण-माला-लोलम्.
भका१३.५०-१ रावण-बलमवगन्तुं जल-भर-गुरु-सलिल-वाह-गण-सम-च्छायम्
भका१३.५०-२ अट्ट-तरु-मञ्च-मन्द्रिर- तोरण-माला-सभासु समारूढम्.