इदम् ..... पाण्डुपत्रोदरेण॥१.१९
दिखावट
इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाहाच्छादिना वल्कलेन।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां
कुसुममिव पिनद्धं पाण्डुपत्रोदरेण॥१.१९
पदच्छेदः-
इदम् उपहित-सूक्ष्म-ग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाह-आच्छादिना वल्कलेन।
वपुः अभिनवम् अस्याः पुष्यति स्वां न शोभां
कुसुमम् इव पिनद्धं पाण्डुपत्रोदरेण॥१.१९
अन्वयः-
पाण्डुपत्रोदरेण पिनद्धं कुसुमम् इव स्कन्धदेशे उपहित-सूक्ष्म-ग्रन्थिना स्तनयुगपरिणाह-आच्छादिना वल्कलेन अस्याः इदम् अभिनवं वपुः स्वां शोभां न पुष्यति ।॥१.१९
सन्दर्भः-
सरलार्थः-
यथा पाण्डुरवर्णेन पत्रोदरेण आच्छादितं पुष्पं न राजते,तथा स्कन्धे लघुग्रन्थिना बद्धेन, स्तनयुगुलाच्छादकेन वल्कलेन अस्याः तरुणं शरीरं न राजते॥१.१९
वृत्तम् –
मालिनी
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले मालिनी-वृत्तनिबद्धानि पद्यानि इदं किल..... ऋषिः व्यवस्यति ॥१.१८॥ सरसिजम् अनुविध्दं..... आकृतीनाम् ॥१.२० ॥