मानुषीषु .....वसुधातलात् ॥१.२६॥
दिखावट
मानुषीषु कथं वा स्यादस्य रुपस्य संभवः न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥१.२६॥
पदच्छेदः-
मानुषीषु कथं वा स्याद् अस्य रूपस्य संभवः
न प्रभातरलं ज्योतिः उदेति वसुधातलात् ॥१.२६॥
अन्वयः-
मानुषीषु अस्य रूपस्य संभवः कथं वा स्यात्? प्रभातरलं ज्योतिः वसुधातलात् न उदेति ॥१.२६॥
सन्दर्भः-
सरलार्थः-
मनुष्ययोनौ एतादृशं रूपं कथमिव सम्भवेत्?प्रभया तरलं तेजः पृथ्वीतलात् न जायते॥१.२६
वृत्तम् –
अनुष्टुब्
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले अनुष्टुब्-वृत्तनिबद्धानि पद्यानि कः पौरवे .....तपस्विकन्यासु ॥१.२५॥ वैखानसं .....हरिणाङ्गनाभिः ॥१.२७॥