०१...०४

विकिपुस्तकानि तः

अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः॥१ इति ह स्माह भगवानात्रेयः॥२

पदच्छेदः -
अथ अतः नवेगान् धारणीयम् अध्यायं व्याख्यास्यामः॥१इति ह स्म आह भगवान आत्रेयः॥२

अन्वयः -
अथ अतः नवेगान् धारणीयम् अध्यायं व्याख्यास्यामः॥१भगवान आत्रेयः इति ह स्म आह ।२

सरलार्थः -
इदानीं नवेगान्धारणीयसंज्ञकम् अध्यायं वर्णयामः इति भगवान् आग्रेयः उक्तवान्।

आयुर्वेददीपिकापदच्छेदः-
पूर्व-अध्यायाभ्यां स्वस्थहित:आहारः प्राधान्येन उक्तः, तस्य च आहारस्य स्वस्थहितत्वम् आहारपाकज-मूत्र-पुरीषाणाम् अविधारितवेगानां बहिर्गमने सति भवति इति मूत्र-आदिवेग-अविधारण-उपदेशकं न वेगान् धारणीयम् आह। इह अपि नवेगधारणशब्दस्य अभावात् मात्राशितीयवत् पर्यायशब्देन सञ्ज्ञा बोद्धव्या॥१-२

न वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः।न रेतसो न वातस्य न छर्द्याः क्षवथोर्न च॥३
नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः।न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च॥४

पदच्छेदः-
न वेगान् धारयेत् धीमान् जातान् मूत्रपुरीषयोः।न रेतसः न वातस्य न छर्द्याः क्षवथोः न च॥३
न उद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः।न बाष्पस्य न निद्रायाः निःश्वासस्य श्रमेण च॥४

अन्वयः-
धीमान् मूत्रपुरीषयोः जातान् वेगान् न धारयेत्,रेतसो जातान् वेगान् न धारयेत्, वातस्य जातान् वेगान् न धारयेत्, छर्द्याः जातान् वेगान् न धारयेत्, क्षवथोः जातान् वेगान् न धारयेत्,उद्गारस्य जातान् वेगान् न धारयेत्,जृम्भाया जातान् वेगान् न धारयेत्,क्षुत्-पिपासयोः जातान् वेगान् न धारयेत्,बाष्पस्य जातान् वेगान् न धारयेत्,निद्राया जातान् वेगान् न धारयेत्,श्रमेण निःश्वासस्य च जातान् वेगान् न धारयेत् ॥३-४

सरलार्थः -
बुद्धिमान् नरः एतान् वेगान् न धारयेत्।ते वेगाः एवम्- मूत्रवेगः, पुरीषवेगः, शुक्रवेगः, वातवेगः, छर्दिवेगः, क्षवथुवेगः, उद्गारवेगः,जृम्भावेगः, क्षुद्वेगः, तृष्णावेगः, बाष्पवेगः, निद्रावेगः, श्रमश्वासवेगःच।

आयुर्वेददीपिका-पदच्छेदः -
जातान् इति जातमात्रान्। वेगः प्रवृत्ति-उन्मुखत्वं मूत्र-पुरीष-आदीनाम्। मूत्रग्रहणम् आदौ मूत्रस्य पुरीषादि-अपेक्षया बहुवेगत्वात्। मूत्रपुरीषयोः इति क्षुत्पिपासयोः इति च समासकरणं प्रायश: अनयोः सह उत्पाददर्शनार्थम्। प्रतिनिषेध्यं नकारकरणं निषेध्यगौरव-उपदर्शनार्थम्। निःश्वासस्य श्रमेण च इति श्रमोत्थस्य निःश्वासस्य अविधार्यत्वं दर्शयति, यतः अनन्तरं वक्ष्यति “श्रमनिःश्वासधारणात्” इति; सुश्रुते अपि उक्तं- “श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोग-मूर्च्छे अथवा अपि गुल्मः” (सू.उ.अ.५५) इति॥३-४

चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ०५...२५ २६...३० ३१...३५ ३६...३८ ३९...४१ ४२...४४ ४५...५० ५१...५५ ५६...६० ६१...६२ ६३...६६

"https://sa.wikibooks.org/w/index.php?title=०१...०४&oldid=7175" इत्यस्माद् प्रतिप्राप्तम्