४५...५०

विकिपुस्तकानि तः
Jump to navigation Jump to search

विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे।जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत्॥४५
माधवप्रथमे मासि नभस्यप्रथमे पुनः।सहस्यप्रथमे चैव हारयेद्दोषसञ्चयम्॥४६
स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः।बस्तिकर्म ततः कुर्यान्नस्यकर्म च बुद्धिमान्॥४७
यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्।रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्॥४८
रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु।धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च॥४९
विधिरेष विकाराणामनुत्पत्तौ निदर्शितः।निजानामितरेषां तु पृथगेवोपदेक्ष्यते॥५०

पदच्छेदः -
विषमस्वस्थवृत्तानाम् एते रोगाः तथा अपरे।जायन्ते अनातुरः तस्मात् स्वस्थवृत्तपरः भवेत्॥४५
माधवप्रथमे मासि नभस्यप्रथमे पुनः।सहस्यप्रथमे च एव हारयेत् दोषसञ्चयम्॥४६
स्निग्धस्विन्नशरीराणाम् उर्ध्वं च अधः च नित्यशः।बस्तिकर्म ततः कुर्यात् नस्यकर्म च बुद्धिमान्॥
यथाक्रमं यथायोग्यम् अतः ऊर्ध्वं प्रयोजयेत्।रसायनानि सिद्धानि वृष्ययोगान् च कालवित्॥४८
रोगाः तथा न जायन्ते प्रकृतिस्थेषु धातुषु।धातवः च अभिवर्धन्ते जरा मान्द्यम् उपैति च॥४९
विधिः एष विकाराणाम् अनुत्पत्तौ निदर्शितः।निजानाम् इतरेषां तु पृथक् एव उपदेक्ष्यते॥५०

अन्वयः -
विषमस्वस्थवृत्तानाम् एते रोगाः तथा अपरे (रोगाः) जायन्ते। तस्मात् अनातुरः स्वस्थवृत्तपरः भवेत्॥४५
माधवप्रथमे मासि, पुनः नभस्यप्रथमे मासि ।सहस्यप्रथमे च मासि एव दोषसञ्चयं हारयेत्॥४६
बुद्धिमान् स्निग्धस्विन्नशरीराणाम् उर्ध्वं च अधः च,ततः बस्तिकर्म नस्यकर्म च नित्यशः कुर्यात् ॥४७
अतः ऊर्ध्वं कालवित् (वैद्यः) यथाक्रमं यथायोग्यम् सिद्धानि रसायनानि वृष्ययोगान् च प्रयोजयेत्॥४८
तथा प्रकृतिस्थेषु धातुषु रोगाः न जायन्ते,धातवः च अभिवर्धन्ते जरा मान्द्यम् उपैति च॥४९
निजानां विकाराणाम् अनुत्पत्तौ एषः विधिः निदर्शितः।इतरेषां तु पृथक् एव उपदेक्ष्यते॥५०

सरलार्थः -
येषां स्वस्थवृत्तं विषमं, तेषां नराणाम् एते रोगाः जायन्ते तथा अपरे रोगाः जायन्ते। तस्मात् अनातुरः नरः स्वस्थवृत्तपरः भवेत्॥ ४५ माधवप्रथमे मासि, पुनः नभस्यप्रथमे मासि ।सहस्यप्रथमे च मासि एव दोषसञ्चयं निराकुर्यात्॥४६बुद्धिमान् वैद्यः स्निग्धस्विन्नशरीराणाम् उर्ध्वं च अधः च,ततः बस्तिकर्म नस्यकर्म च नित्यशः कुर्यात् ॥४७अतः ऊर्ध्वं कालवित् (वैद्यः) यथाक्रमं यथायोग्यम् सिद्धानि रसायनानि वृष्ययोगान् च प्रयोजयेत्॥४८तथा धातवः प्राकृताः जायन्ते।रोगाः न जायन्ते, धातवः च अभिवर्धन्ते। जरा मन्दा भवति॥४९निजानां विकाराणाम् अनुत्पत्तौ एषः विधिः निदर्शितः।इतरेषां विकाराणाम् अनुत्पत्तौ तु पृथक् एव विधिः उपदेक्ष्यते॥५०

आयुर्वेददीपिका-पदच्छेदः-
विषमः इत्यादि। अनातुरशब्देन आतुर्यात् प्राक् एव अनागत-आबाधेन स्वस्थपरेण भवितव्यम् इति शिक्षयति। माधवः वैशाखः तस्य प्रथमः चैत्रः, एवं नभस्यस्य भाद्रस्य प्रथमः श्रावणः, तथा सहस्यस्य पौषस्य प्रथमः मार्गशीर्षः; एते च मासाः चैत्र-श्रावण-मार्गशीर्षाः रोगभिषग्जितीये विमाने (वि.अ.८) शोधनार्थं वक्ष्यमाणप्रावृट्-आदयः ऋतुक्रमेण वसन्तप्रावृट्शरदन्तर्गताः भवन्ति। दृढबलसंस्कारे अपि पठ्यते- “प्रावृट् शुक्रनभौ ज्ञेयौ शरद् उर्जसहौ पुनः। तपस्यः च मधुः च एव वसन्तः शोधनं प्रति” (सि.अ.६) इति, सुश्रुते अपि ऋतुचर्याध्याये दोष-उपचय-प्रकोप-उपशमननिमित्तम् इदृश: एव ऋतुक्रमः पठितः। तेन, शोधनम् अभिधीयमानं शोधनार्थ-उक्त-ऋतुक्रमेण एव व्याख्येयम्। वसन्त-आदीनाम् अन्तमासेषु तु वमनादि-अभिधानं सम्पूर्णप्रकोपे भूते निर्हरण-उपदेशार्थं; प्रथमेषु हि मासेषु फाल्गुन-आषाढ-कार्तिकेषु प्रकोपः प्रकर्षप्राप्तः न भवति, चितस्य हि असम्यक् प्रकुपितस्य अविलीनस्य सम्यङ्निर्हरणं न भवति इति। अत एव कपिलबले अपि पठ्यते- “मधौ सहे नभसि च मासि दोषान् प्रवाहयेत्। वमनैः च विरेकैः च निरूहैः स-अनुवासनैः” इति। हरिचन्द्रेण तु, सहशब्दो अयम् अकारान्तो मार्गशीर्षवचनः तस्य सहस्य प्रथमे कार्तिके इति व्याख्यातम्। तद्-मतानुसारिणा वाग्भटेन च उक्तं- “श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्। ग्रीष्मवर्षाहिमचितान् वायु-आदीन् आशु निर्हरेत्” (वा.सू.अ.३) इति। “कार्तिके श्रावणे चैत्रे मासि साधारणे क्रमात्। वर्षादिसञ्चितान् दोषान् त्रिमासान्तरितान् हरेत्”- इति अस्य तु श्लोकस्य केन अपि पठितस्य अविरुद्धान्वेषणे बुद्धिमतां न व्यापारः। ऊर्ध्वं च इति वमनेन, अध इति विरेकेण, बस्तिकर्मशब्देन आस्थापन- अनुवासने; एतत् च सर्वं वमन-आदि यथायोग्यतया, न यथासङ्ख्येन; तेन वमनं मधौ प्रधानं, सहस्यप्रथमे विरेकः, नभस्यप्रथमे बस्तिः इति भवति। यथाक्रमं यथानुपूर्वं, यथायोग्यं यद् यस्य युज्यते; एतत् च पूर्वेण वमन-आदिना, उत्तरेण च रसायन-आदि प्रयोजयेत् इति अनेन योज्यम्। सिद्धानि इति दृष्टफलानि। रोगाः तथा न जायन्ते इति वमनादीन् आचरतः; धातवः च अभिवर्धन्ते इति रसायनवृष्ययोगान् उपयोजयतः इति योजनीयम्| निजानाम् इति छेदः। इतरेषाम् इति आगन्तूनाम्। आगन्तवः च इह भूतविषवातादिजन्याः तथा मानसाः च अभिप्रेताः; येन एतद् द्वितयम् अपि अभिधाय आगन्तूनाम् अनुत्पत्तौ इत्यादि उपसंहारम् आगन्तुकत्वेन एव करिष्यति॥४५-५०

०१...०४ ०५...२५ २६...३० ३१...३५ ३६...३८ ३९...४१ ४२...४४ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ५१...५५ ५६...६० ६१...६२ ६३...६६ -

"https://sa.wikibooks.org/w/index.php?title=४५...५०&oldid=6918" इत्यस्माद् प्रतिप्राप्तम्