०५...२५
एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये।पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु॥५
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा ।विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे॥६
स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम् ।मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म च॥७
पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् ।पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते॥८
स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च।हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च।९
मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा।भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव च।१०
तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः।शालिः पयो निरूहश्च शस्तं मैथुनमेव च॥११
सङ्गो विण्मूत्रवातानामाध्मानं वेदना क्लमः।जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्॥१२
स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च।पानानि बस्तयश्चैव शस्तं वातानुलोमनम्।१३
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः।कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः॥१४
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्।रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते॥१५
मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदक।इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्॥१६
तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः।हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम्॥१७
हिक्का श्वासोऽरुचिः कम्पो विबन्धो हृदयोरसोः।उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम्॥१८
विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम्।जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम्॥१९
कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः।क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम्॥२०
कण्ठास्यशोषो बाधिर्यं श्रमः सादो हृदि व्यथा।पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते॥२१
प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः।बाष्पनिग्रहणात्तत्र स्वप्नो मद्यं प्रियाः कथाः॥२२
जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोरोगोऽक्षिगौरवम्।निद्राविधारणात्तत्र स्वप्नः संवाहनानि च॥२३
गुल्महृद्रोगसम्मोहाः श्रमनिःश्वासधारणात्।जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः॥२४
वेगनिग्रहजा रोगा य एते परिकीर्तिताः।इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्॥२५
पदच्छेदः -
एतान् धारयतो जातान् वेगान् रोगाः भवन्ति ये।पृथक् पृथक् चिकित्सार्थं तान् मे निगदतः शृणु॥
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा ।विनामः वङ्क्षण-आनाहः स्यात् लिङ्गं मूत्रनिग्रहे॥६
स्वेद-अवगाहन-अभ्यङ्गान् सर्पिषः च अवपीडकम्।मूत्रे प्रतिहते कुर्यात् त्रिविधं बस्तिकर्म च॥७
पक्वाशयशिरःशूलं वात-वर्चः-अप्रवर्तनम्।पिण्डिका-उद्वेष्टन-आध्मानं पुरीषे स्याद् विधारिते॥८
स्वेद-अभ्यङ्ग-अवगाहाः च वर्तयः बस्तिकर्म च।हितं प्रतिहते वर्चसि अन्नपानं प्रमाथि च॥९
मेढ्रे वृषणयोः शूलम् अङ्गमर्दः हृदि व्यथा।भवेत् प्रतिहते शुक्रे विबद्धं मूत्रम् एव च॥१०
तत्र अभ्यङ्ग: अवगाहः च मदिरा चरण-आयुधाः।शालिः पयः निरूहः च शस्तं मैथुनम् एव च॥११
सङ्गः विण्मूत्रवातानाम् आध्मानं वेदना क्लमः।जठरे वातजाः च अन्ये रोगाः स्युः वातनिग्रहात्॥१२
स्नेह-स्वेदविधिः तत्र वर्तयः भोजनानि च।पानानि बस्तयः च एव शस्तं वातानुलोमनम्॥१३
कण्डू-कोठ-अरुचि-व्यङ्ग-शोथ-पाण्डु-आमयज्वराः।कुष्ठ-हृल्लास-वीसर्पाः छर्दिनिग्रहजाः गदाः॥१४
भुक्त्वा प्रच्छर्दनं धूमः लङ्घनं रक्तमोक्षणम्।रूक्ष-अन्नपानं व्यायामः विरेकः च अत्र शस्यते॥१५
मन्यास्तम्भः शिरःशूलम् अर्दित-अर्धावभेदकौ।इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद् विधारणात्॥१६
तत्र उर्ध्वजत्रुके अभ्यङ्गः स्वेदः धूमः सनावनः।हितं वातघ्नम् आद्यं च घृतं च उत्तरभक्तिकम्॥१७
हिक्का श्वासः अरुचिः कम्पः विबन्धः हृदय-उरसोः।उद्गारनिग्रहात् तत्र हिक्कायाः तुल्यम् औषधम्
विनाम-आक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम्।जृम्भायाः निग्रहात् तत्र सर्वं वातघ्नम् औषधम्॥१९
कार्श्यदौर्बल्यवैवर्ण्यम् अङ्गमर्दः अरुचिः भ्रमः।क्षुद्-वेगनिग्रहात् तत्र स्निग्ध-उष्णं लघु भोजनम्॥२०
कण्ठ-आस्य-शोषः बाधिर्यं श्रमः साद: हृदि व्यथा।पिपासानिग्रहात् तत्र शीतं तर्पणम् इष्यते।२१
प्रतिश्यायः अक्षिरोगः च हृद्रोगः च अरुचिः भ्रमः।बाष्पनिग्रहणात् तत्र स्वप्नः मद्यं प्रियाः कथाः॥
जृम्भा अङ्गमर्दः तन्द्रा च शिरोरोगः अक्षिगौरवम्।निद्राविधारणात् तत्र स्वप्नः संवाहनानि च॥२३
गुल्महृद्रोगसम्मोहाः श्रमनिःश्वासधारणात्।जायन्ते तत्र विश्राम: वातघ्न्यः च क्रिया: हिताः॥२४
वेगनिग्रहजा: रोगा: ये एते परिकीर्तिताः।इच्छन् तेषाम् अनुत्पत्तिं वेगान् एतान् न धारयेत्॥२५
अन्वयः -
एतान् जातान् वेगान् धारयतो ये रोगाः भवन्ति ,तान् पृथक् पृथक् चिकित्सार्थं निगदतः मे शृणु।५
मूत्रनिग्रहे बस्तिमेहनयोः शूलं, मूत्रकृच्छ्रं, शिरोरुजा, विनामः वङ्क्षण-आनाहः (इति) लिङ्गं स्यात् ।६
मूत्रे प्रतिहते स्वेद-अवगाहन-अभ्यङ्गान्, सर्पिषः च अवपीडकं, त्रिविधं बस्तिकर्म च कुर्यात्।७
पुरीषे विधारिते पक्वाशय-शिरःशूलं, वातवर्चः-अप्रवर्तनं, पिण्डिक-उद्वेष्टन-आध्मानं स्याद्। ८
वर्चसि प्रतिहते स्वेद-अभ्यङ्ग-अवगाहाः च वर्तयः बस्तिकर्म च,प्रमाथि अन्नपानं च हितम् ।९
शुक्रे प्रतिहते मेढ्रे वृषणयोः शूलम्, अङ्गमर्दः, हृदि व्यथा,मूत्रं विबद्धम् एव च भवेत्।१०
तत्र अभ्यङ्गः,अवगाहः च मदिरा, चरण-आयुधाः,शालिः, पयः, निरूहः,च मैथुनम् एव च शस्तम्।११
वातनिग्रहात् विट्-मूत्र-वातानां सङ्गः, आध्मानं, क्लमः,जठरे वेदना, अन्ये च वातजाः रोगाः स्युः ।१२
तत्र स्नेहस्वेदविधिः, वर्तयः , भोजनानि’ ‘पानानि’ ‘बस्तय’ (इति त्रयं) वातानुलोमनं शस्तम्।
कण्डू-कोठ-अरुचि-व्यङ्ग-शोथ-पाण्डु-आमय-ज्वराः,कुष्ठ-हृल्लास-वीसर्पाः छर्दिनिग्रहजाः गदाः (सन्ति)।१४
अत्र भुक्त्वा प्रच्छर्दनं, धूमः, लङ्घनं, रक्तमोक्षणं,रूक्ष-अन्नपानं, व्यायामः विरेकः च शस्यते॥१५
क्षवथोः विधारणात् मन्यास्तम्भः, शिरःशूलम्, अर्दित-अर्धावभेदकौ, इन्द्रियाणां च दौर्बल्यं स्याद् ॥१६
तत्र उर्ध्वजत्रुके अभ्यङ्गः स्वेदः सनावनः धूमः,वातघ्नम् आद्यं च उत्तरभक्तिकं घृतं च हितं॥१७
उद्गारनिग्रहात् हिक्का, श्वासः, अरुचिः, कम्पः, हृदय-उरसोः विबन्ध: (स्यात्) तत्र हिक्कायाः तुल्यम् औषधम् (स्यात्)॥१८
जृम्भाया निग्रहात् विनाम-आक्षेप-सङ्कोचाः, सुप्तिः, कम्पः, प्रवेपनं (स्यात्)तत्र सर्वं वातघ्नम् औषधम्(स्यात्) ॥१९
क्षुद् वेगनिग्रहात् कार्श्य-दौर्बल्य-वैवर्ण्यम्, अङ्गमर्दः, अरुचिः, भ्रमः (स्यात्)।तत्र स्निग्ध-उष्णं लघु भोजनम् (हितम् )॥२०
पिपासा-निग्रहात् कण्ठ-आस्यशोषो बाधिर्यं श्रमः सादो हृदि व्यथा (स्यात्)तत्र शीतं तर्पणम् इष्यते॥२१
बाष्प-निग्रहणात् प्रतिश्यायः, अक्षिरोगः, हृद्रोगः च अरुचिः, भ्रमः(स्यात्) तत्र स्वप्नः, मद्यं, प्रियाः कथाः स्यु:)॥२२
निद्राविधारणात् जृम्भा, अङ्गमर्दः, तन्द्रा, शिरोरोगः, अक्षिगौरवं च (स्यात्)। तत्र स्वप्नः संवाहनानि च (कुर्यात्) ॥२३
श्रमनिःश्वासधारणात् गुल्म-हृद्रोग-सम्मोहाः जायन्ते। तत्र विश्रामः (हितः), वातघ्न्यः च क्रिया हिताः॥२४
ये एते वेगनिग्रहजाः रोगाः परिकीर्तिताः,तेषाम् अनुत्पत्तिम् इच्छन् (नरः) एतान् वेगान् न धारयेत्॥२५
सरलार्थः -
एतेषाम् उत्पन्नानां वेगानां धारणेन ये रोगाः भवन्ति, तान् चिकित्सार्थं पृथक् पृथक् वदामि, शृणु।मूत्रनिग्रहे सति बस्तिशूलः, मूत्रमार्गे शूल, मूत्रकृच्छ्रं, शिरोवेदना, अवनमनं, वङ्क्षणदेशे आनाहः इति एतानि लक्षणानि भवन्ति।यदि मूत्रं प्रतिहतं, तर्हि तत्र स्वेदनम्, अवगाहः, अभ्यङ्गः, अवपीडकघृतप्रयोगः, त्रिविधं बस्तिकर्म इति एतां चिकित्सां कुर्यात्।पुरीषविधारणे सति पक्वाशयदेशे शूलः, शिरःशूलः, वातस्य बहिः अप्रवर्तनं, मलस्य अप्रवर्तनं, जङ्घा-पिण्डिकायाः उद्वेष्टनम् , आध्मानम् इति एतानि लक्षणानि भवन्ति।पुरीषवेगविधारणजन्ये रोगे स्वेदनम्, अभ्यङ्गः, अवगाहः, फलवर्तयः, बस्तिः, प्रमाथि अन्नं प्रमाथि पानं च हितकरं भवति।शुक्रवेगे धारिते सति, वृषणशूलः, अङ्गमर्दः, हृदयदेशे वेदना, मूत्रविबन्धः इति लक्षणानि जायन्ते।तत्र अभ्यङ्गः, अवगाहः, मदिरापानं, कुक्कुटः, शालिः, दुग्धं, निरूहः तथा मैथुनम् प्रशस्तं भवति।वातस्य निग्रहेण मलसङ्गः, मूत्रसङ्गः, वातसङ्गः, आध्मानः, क्लमः, जठरदेशे वेदना तथा अन्ये अपि वातजाः रोगाः भवन्ति।तत्र स्नेहनं, स्वेदनं, फलवर्तयः, वातानुलोमनं भोजनं, वातानुलोमनं पानं तथा वातानुलोमनाः बस्तयः इति एतत् प्रशस्तम्।छर्दिनिग्रहात् कण्डूः, कोठाः,अरुचिः, व्यङ्गं. पाण्डुः, ज्वरः, कुष्ठं, हृल्लासः, विसर्पः इति एते रोगाः उत्पद्यन्ते।अत्र भुक्त्वा वमनं, धूमः, लङ्घनं, रक्तमोक्षणं, रूक्षम् अन्नं, रूक्षं पानं, व्यायामः तथा विरेचनम् शस्यते।क्षवथुवेगस्य विधारणेन मन्यास्तम्भः, शिरःशूलम्, अर्दितम्, अर्धावभेदकः, इन्द्रियाणां दौर्बल्यम् इति एते रोगाः भवन्ति।तत्र उर्ध्वजत्रुदेशे अभ्यङ्गः, स्वेदः, नावनं, धूमः, वातघ्नम् अन्नं. उत्तरभक्तिकं घृतं च हितं भवति।उद्गारनिग्रहात् हिक्का, श्वासः, अरुचिः, कम्पः, हृदय-विबन्धः उरो-विबन्ध: च भवति।यथा हिक्कानिग्रहजन्यरोगाणाम् औषधं, तथैव उद्गारनिग्रहजन्यरोगाणामपि। जृम्भाया निग्रहात् विनामः, आक्षेपकः, गात्रसङ्कोचाः, सुप्तिः, कम्पः, प्रवेपनम् इति रोगाः भवन्ति।तत्र सर्वं वातघ्नम् औषधं कार्यम्।क्षुद्-वेगनिग्रहात् कार्श्यं, दौर्बल्यं, वैवर्ण्यम्, अङ्गमर्दः, अरुचिः, भ्रमः जायते।तत्र स्निग्धभोजनम्, उष्ण-भोजनं, लघु-भोजनम् हितकरं भवति।पिपासा-निग्रहात् कण्ठशोषः, मुख-शोषः, बाधिर्यं, श्रमः, सादः, हृदि व्यथा च भवति।तत्र शीतं तर्पणम् अपेक्षितम्।बाष्प-निग्रहणात् प्रतिश्यायः, अक्षिरोगः, हृद्रोगः, अरुचिः, भ्रमः भवति।तत्र स्वप्नः, मद्यं, प्रियाः कथाः कार्याः।निद्राविधारणात् जृम्भा, अङ्गमर्दः, तन्द्रा, शिरोरोगः, अक्षिगौरवं च भवति।
तत्र स्वप्नः संवाहनानि च कुर्यात्।श्रमनिःश्वासधारणात् गुल्मः, हृद्रोगः, सम्मोहः जायते।तत्र विश्रामः (हितः), वातघ्न्यः च क्रिया हिताः॥ये एते वेगनिग्रहजाः रोगाः उक्ताः, तेषाम् उत्पत्तिः न भवेद् इति इच्छा अस्ति चेत् नरः एतान् वेगान् न धारयेत् ॥२५
आयुर्वेददीपिका-पदच्छेदः-
यद्-वेगविधारणे ये रोगाः तेषां यत् चिकित्सितं तद् अल्पवक्तव्यत्वात् प्रकरण-आगतत्वात् च ब्रूते- बस्ति-मेहनयोः-इत्यादि। मेहनं शिश्नः। विनमनं शरीरस्य विनामः। अवपीडक: बहुमात्रप्रयोगः, मात्रा-अधिकत्वेन हि भेषजं दोषान् पीडयति इति कृत्वा; अन्यत्र अपि उक्तम्- “अवपीडकसर्पिभिः कोष्णैः घृततैलिकैः तथा अभ्यङ्गैः” इति। त्रिविधम् इति निरूह-अनुवासन-उत्तरबस्ति-आत्मकम्। पिण्डिका जानुजङ्घामध्यमांसपिण्डिका। वर्तयः फलवर्तयः। प्रमाथि अनुलोमनम्। चरणायुधः कुक्कुटः। रुजा जठरे इति सम्बन्धः। ‘भोजनानि’ ‘पानानि’ ‘बस्तय’ इति त्रयं वातानुलोमनं शस्तम् इति योज्यम्। कोठो वरटीदष्ट-आकारः शोथः। व्यङ्गः श्यामवर्णं मण्डलं मुखे। हृल्लासः उत्क्लेशः। अर्धावभेदः अर्धमस्तकवेदना। आद्यं खाद्यं भोजनम् इति अर्थः। चकारात् स्वेद-आदय: अपि वातघ्ना: इति सूचयति। यदि अपि सुश्रुते मूत्रादीनां त्रयोदशानां विधारणात् त्रयोदशः उदावर्ताः अभिधीयन्ते, तथा अपि इह अष्टोदरीये मूत्र-पुरीष-वात-शुक्र-वमि-क्षवथु-विघातजा: एव परं षड् उदावर्ता: अभिधातव्याः; उद्गारादिनिरोधजानां वातनिरोधजे एव उदावर्ते अन्तर्भाव-अभिप्रायात्; यदि वा मूत्रादिविघातजे एव विकारे चरकाचार्यस्य उदावर्तसञ्ज्ञा अभिप्रेता, न अन्यत्र इति न विरोधः। मुहुः मुहुः अङ्गानाम् आक्षेपणम् आक्षेपः; पर्वणाम् आकुञ्चनं सङ्कोचः। सुप्तिः स्पर्श-अज्ञानम्। भ्रमणं भ्रम: येन चक्रस्थितम् इव आत्मानं मन्यते। सादः अङ्ग-अवसादः। तर्पयति इति तर्पणम्। संवाहनं पाणिना पाद-आदिप्रदेशे सुखम् अभिहननम् उन्मर्दनं च॥५-२५॥
०१...०४ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः २६...३० ३१...३५ ३६...३८ ३९...४१ ४२...४४ ४५...५० ५१...५५ ५६...६० ६१...६२ ६३...६६