२६...३०

विकिपुस्तकानि तः
Jump to navigation Jump to search

इमांस्तु धारयेद्वेगान् हितार्थी प्रेत्य चेह च।साहसानामशस्तानां मनोवाक्कायकर्मणाम्॥२६

पदच्छेदः -
इमान् तु धारयेत् वेगान् हितार्थी प्रेत्य च इह च।साहसानाम् अशस्तानां मनो-वाक्-काय-कर्मणाम्॥

अन्वयः -
प्रेत्य च इह च हितार्थी साहसानाम्, अशस्तानां मनो-वाक्-काय-कर्मणाम् इमान् वेगान् च धारयेत्॥

सरलार्थः-
परलोके तथा अस्मिन् लोके यः आत्महितम् इच्छति, सः नरः साहसानां वेगान् धारयेत् तथा म्, मनो-वाक्-काय-कर्मणाम् अप्रशस्तानाम् इमान् वेगान् च धारयेत् ॥

आयुर्वेददीपिकापदच्छेदः -
वेगानाम् अविधार्यत्वेन उक्तत्वात् लोभादीनाम् अपि वेगाः अविधार्याः स्युः इति आह- इमांस्तु इत्यादि। प्रेत्य जन्मान्तरे। इह इति इह जन्मनि। सहसा आत्मशक्तिम् अनालोच्य क्रियते इति साहसं, तत् तु गज-अभिमुखधावनादि। अशस्तानाम् अप्रशस्तानाम् अनिष्टफलानाम् इति यावत्।मनो-वाक्-काय-कर्मणाम् इति अत्र कर्मशब्द: व्यापारवचनः॥२६

लोभशोकभयक्रोधमानवेगान् विधारयेत्।नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान्॥२७

पदच्छेदः -
लोभ-शोक-भय-क्रोध-मान वेगान् विधारयेत्।नैर्लज्ज्य-इर्ष्या-अतिरागाणाम्-अभिध्यायाः च बुद्धिमान्॥

अन्वयः-
बुद्धिमान् (नरः) लोभ-शोक-भय-क्रोध-मान-नैर्लज्ज्य-इर्ष्या-अतिरागाणाम् अभिध्यायाः वेगान् च विधारयेत् । २७

सरलार्थः -
लोभः, शोकः, भयं, क्रोधः, मानः, नैर्लज्ज्यम्, इर्ष्या, अतिरागः तथा अभिध्या इति एतेषां वेगान् बुद्धिमान् (नरः)विधारयेत् ।

आयुर्वेददीपिका- पदच्छेदः -
अशस्तं मनसः कर्म दर्शयति- लोभ: इत्यादि। लोभः विषये अनुचिता प्रार्थना, शोकः पुत्र-आदिविनाशजं दैन्यम्, भयम् अपकारक-अनुसन्धानजं दैन्यम्, क्रोधः प्रद्वेष: येन प्रज्वलितम् इव आत्मानं मन्यते, मानः सदसद्गुण-अध्यारोपेण आत्मनि उत्कर्षप्रत्ययः। जुगुप्सितगोपनेच्छा लज्जा, तद्-अभाव: नैर्लज्ज्यं; समाने द्रव्ये परसम्बन्धप्रतिषेध-इच्छा ईर्ष्या; अतिराग: उचिते एव विषये पुनः पुनः प्रवर्तन-इच्छा। अभिध्या मनसा पर-अभिद्रोहचिन्तनं, यदि वा परद्रव्यविषये स्पृहा॥२७

परुषस्यातिमात्रस्य सूचकस्यानृतस्य च।वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम्॥२८

पदच्छेद:-
परुषस्य अतिमात्रस्य सूचकस्य अनृतस्य च।वाक्यस्य अकालयुक्तस्य धारयेद् वेगम् उत्थितम्॥२८

अन्वयः -
परुषस्य अतिमात्रस्य सूचकस्य अनृतस्य अकालयुक्तस्य वाक्यस्य च उत्थितं वेगं धारयेत्॥२८

सरलार्थः-
परुष वाक्यस्य , अतिमात्र वाक्यस्य, सूचकवाक्यस्य, अनृतवाक्यस्य, अकालयुक्तस्य वाक्यस्य च उत्थितं वेगं (नरः) धारयेत् ॥२८

आयुर्वेददीपिका- पदच्छेदः -
अशस्तं वचनकर्म आह- परुषस्य इत्यादि। परुषं पर-उद्वेजकं वचनम्। अतिमात्रं बहु। सूचकं पर-अनिष्टजनक-अभिधायकम्। अनृतम् अपार्थकम्। अकालयुक्तम् अप्रस्ताव-आगतम्॥२८

देहप्रवृत्तिर्या काचिद्विद्यते परपीडया।स्त्रीभोगस्तेयहिंसाद्या तस्या वेगान्विधारयेत्॥२९

पदच्छेदः -
देहप्रवृत्तिः या काचित् विद्यते परपीडया।स्त्रीभोग-स्तेय-हिंसाद्या तस्याः वेगान् विधारयेत्॥२९

अन्वयः -
या काचित् स्त्रीभोग-स्तेय-हिंसाद्या देहप्रवृत्तिः परपीडया विद्यते, तस्या: वेगान् विधारयेत्॥२९

सरलार्थः -
स्त्रीभोगः, स्तेयं, हिंसा इत्यादिविषया या काचित् देहप्रवृत्तिः परपीडानिमित्तं जायते, तस्या: वेगान् विधारयेत्॥२९

आयुर्वेददीपिका-पदच्छेदः -
अशस्तं देहकर्म आह- देह: इत्यादि। परपीडया परपीडानिमित्तम् इति अर्थः। स्त्रीभोगः परस्त्रीभोगः, स्तेयं परद्रव्यग्रहणं, हिंसा विधिरहिता प्राणिपीडा; आदिग्रहणात् गुरु-आदि-अभिमुखपादप्रसारण-आदि गृह्यते॥२९

पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्।धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च॥३०

पदच्छेदः -
पुण्यशब्दो विपापत्वात् मन:-वाक्-काय-कर्मणाम्।धर्म-अर्थ-कामान् पुरुषः सुखी भुङ्क्ते चिनोति च॥

अन्वयः -
मनः-वाक्-कायकर्मणाम् विपापत्वात् पुण्यशब्द: पुरुषः सुखी (भवति) धर्म-अर्थ-कामान् भुङ्क्ते चिनोति च ॥३०

सरलार्थः -
(एवं कृते) मनःकर्म विपापं भवति, वाणीकर्म विपापं भवति, कायकर्म अपि विपापं भवति। तेन सः पुरुषः पुण्यसंज्ञकः भवति तथा सुखी (भवति)।सः नरः धर्म-अर्थ-कामान् उपभुङ्क्ते पुनः उत्पादयति च ॥३०

आयुर्वेददीपिका-पदच्छेदः-
एवं कृते यद् भवति तद् दर्शयति- पुण्य- इत्यादि। पुण्यः पावनः शब्दो यस्य असौ पुण्यशब्दः। भुङ्क्ते चिनोति च इति उत्पन्नात् अविरोधतः फल-उपयोगेन भुङ्क्ते; चिनोति च उत्पादयति च अपरानित्यर्थः॥३०

०१...०४ ०५...२५ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ३१...३५ ३६...३८ ३९...४१ ४२...४४ ४५...५० ५१...५५ ५६...६० ६१...६२ ६३...६६

"https://sa.wikibooks.org/w/index.php?title=२६...३०&oldid=6912" इत्यस्माद् प्रतिप्राप्तम्