सामग्री पर जाएँ

३६...३८

विकिपुस्तकानि तः

उचितादहिताद्धीमान् क्रमशो विरमेन्नरः।हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते॥३६
प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्।एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा॥३७

पदच्छेदः -
उचितात् अहितान् धीमान् क्रमश: विरमेत् नरः।हितं क्रमेण सेवेत क्रमः च अत्र उपदिश्यते॥३६
प्रक्षेप-अपचये ताभ्यां क्रमः पादांशिक: भवेत्।एकान्तरं ततः च उर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा॥३७

अन्वयः -
धीमान् नरः उचितात् अहितात् क्रमश: विरमेत्, हितं क्रमेण सेवेत।क्रमः च अत्र उपदिश्यते॥३६
प्रक्षेप-अपचये ताभ्यां पादांशिक: क्रमः एकान्तरं ततः च उर्ध्वं द्व्यन्तरं तथा त्र्यन्तरं भवेत्॥३७

सरलार्थः -
धीमान् नरः अभ्यस्तात् क्रमश: विरमेत्, हितं च क्रमेण सेवेत।क्रमः च अत्र उपदिश्यते॥३६हितस्य प्रक्षेपे तथा अहितस्य अपचये हिताहिताभ्यां पादांशरूपः क्रमः भवेत्।सः च क्रमः प्रथमम् प्रथमपादप्रक्षेपापचयकाले एकान्तरं भवेत्, ततः अनन्तरं द्वितीयपादप्रक्षेपापचयकाले द्व्यन्तरं तथा तृतीयपादप्रक्षेपापचयकाले त्र्यन्तरं भवेत्॥३७

आयुर्वेददीपिका-पदच्छेदः-
हितस्य सेवनम् अहितस्य परित्यागः कर्तव्य: इति पूर्वम् उक्तं, तत् च हितसेवनम् अहितपरिवर्जनं च अक्रमेण क्रियमाणम् अक्रम-आचरितव्यायामादिवत् प्रत्यवायकरं परं भवति, अतः तत् क्रमम् आह- उचितात् इत्यादि। उचितात् अभ्यस्तात्। क्रमश: वक्ष्यमाणेन क्रमेण। हितम् अनभ्यस्तहितम्। क: असौ क्रम: इति आह- क्रमः च इत्यादि। प्रक्षेपः हितस्य, अपचयः अहितस्य, ताभ्यां हित: अहिताभ्याम्। पादः चतुर्थ: भागः, तद्-रुप: अंशः पादांशः, तेन कृतः क्रमः पाद-अंशिकः; अन्ये तु पादस्य अंशः पादांश: इति षोडशं भागं वर्णयन्ति। स च हित-अहितयोः युगपत् प्रक्षेप-अपचये पादांशिकः क्रमः, प्रथमम् एकान्तरम् एक अहम् अन्तरा कृत्वा इति अर्थः; ततः प्रथमहितपादप्रक्षेप-अहितपाद-अपचय-अभ्यासात् उर्ध्वं द्वितीयपादप्रक्षेप-अपचये द्व्यन्तरं द्व्यहम् अन्तरीकृत्य क्रम: भवेत्; तथा द्वितीयपाद-अभ्यासात् उर्ध्वं तृतीयपादप्रक्षेप-अपचये त्र्यहम् अन्तरीकृत्य क्रम: भवेत्; चतुर्थपादप्रक्षेप-अपचये तु कालनियम: न अस्ति, अत: ऊर्ध्वं प्रक्षेप-अपचय-अभावात् चतुष्पादसम्पूर्णस्य पथ्यस्य अनवधिसेव्यत्वात्। अयं पिण्डार्थः- अपथ्या: यवक-आदय: अभ्यस्ताः ते त्याज्याः, रक्तशालि-आदयः पथ्या: अनभ्यस्ताः ते सेव्याः; तत्र प्रथमदिने यवकपादत्रयं रक्तशालीनाम् एकः पादः; द्वितीये दिवसे द्वौ पथ्यस्य पादौ द्वौ अपथ्यस्य, एवं तृतीये, एवं द्वितीयपाद-अभ्यास: द्व्यन्तर: भवति; चतुर्थे त्रयः पादाः पथ्यस्य एकः अपथ्यस्य, एवं पञ्चमे षष्ठे च, एवं तृतीयपाद-अभ्यास: त्र्यन्तर: भवति; सप्तदिनप्रभृति तु चतुष्पादपथ्य-अभ्यासः। यदि वा अन्तरशब्द: व्यवधिवचनः, तथाशब्दात् चतुरन्तरम् इति च लभ्यते; तेन अयम् अर्थः- प्रथमे दिवसे अपथ्यपादत्रयं पथ्यस्य एकः पादः, द्वितीये सर्वम् अपथ्यं, तृतीये द्वौ पथ्यस्य द्वौ अपथ्यस्य, एवं चतुर्थे; पञ्चमे तु दिने पथ्यस्य भाग एकः त्रयः अपथ्यस्य, एवं द्वि-अन्तरीकृतौ भवतः; षष्ठे पथ्यभागत्रयम् अपथ्यभाग एकः, एवं सप्तमे अष्टमे च; ततः नवमे भागद्वयं पथ्यस्य च अपथ्यस्य च, एवं त्रीणि अहानि अन्तरीकृतानि भवन्ति; ततः दशमे सर्वं पथ्यम्, एवम् एकादशे द्वादशे त्रयोदशे च, चतुर्दशे तु पथ्यभागत्रयम् एकः अपथ्यभागः; एवं चतुर्-अन्तरता तथाशब्दसूचिता भवति; पञ्चदशाहात् प्रभृति सम्पूर्णपथ्यता एव॥३६-३७

क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः।सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च॥३८

पदच्छेद: -
क्रमेण अपचिता: दोषाः क्रमेण उपचिता: गुणाः।सन्त: यान्ति अपुनर्भावम् अप्रकम्प्या: भवन्ति च॥

अन्वयः-
दोषाः क्रमेण अपचिता: सन्त:, गुणाः क्रमेण उपचिता: सन्त: अपुनर्भावम् यान्ति अप्रकम्प्या: च भवन्ति॥३८

सरलार्थः -
अपथ्यं यदि क्रमेण अपचितं भवति तर्हि तद् अपुनर्भावं याति, स्थिरं च भवति।पथ्यं यदि क्रमेण उपचितं भवति तर्हि तद् अपुनर्भावं याति, स्थिरं च भवति।

आयुर्वेददीपिका- पदच्छेद: -
एवं कृते किं स्यात् इति आह- क्रमेण इत्यादि। क्रमेण इति क्रमेण इव। दोषाः इति दोषजनकानि अभ्यस्तानि अपथ्यानि। गुणाः इति गुणजनकानि पथ्यानि। अपुनर्भावं यान्ति दोषा इति सम्बन्धः। अक्रमेण तु सहसा अपथ्यत्यागे दोषाः भवन्ति एव। यत् उक्तम्- “असात्म्यजाः हि रोगाः स्युः सहसा त्यागशीलनात्” (वा.सू.अ.३) इति। अप्रकम्प्याः अप्रचाल्याः भवन्ति गुणाः इति सम्बन्धः। पथ्यम् अपि हि अनभ्यस्तं सहसा उपयुज्यमानम् अरुचि-अग्निवधादीन् जनयति॥३८

०१...०४ ०५...२५ २६...३० ३१...३५ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ३९...४१ ४२...४४ ४५...५० ५१...५५ ५६...६० ६१...६२ ६३...६६

"https://sa.wikibooks.org/w/index.php?title=३६...३८&oldid=7172" इत्यस्माद् प्रतिप्राप्तम्