३१...३५

विकिपुस्तकानि तः

शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी।देहव्यायामसङ्ख्याता मात्रया तां समाचरेत्॥३१

पदच्छेदः-
शरीरचेष्टा या च इष्टा स्थैर्य-अर्था बलवर्धिनी।देहव्यायामसङ्ख्याता मात्रया तां समाचरेत्॥३१

अन्वयः -
शरीरचेष्टा या इष्टा स्थैर्य-अर्था बलवर्धिनी च (सा) देहव्यायामसङ्ख्याता। तां मात्रया समाचरेत्॥३१

सरलार्थः -
शरीरस्य या चेष्टा इष्टा ,स्थैर्य-अर्था, तथा बलवर्धिनी च भवति, तस्याः देहव्यायामः इति संज्ञा भवति।तां चेष्टां मात्रया समाचरेत् ॥३१

आयुर्वेददीपिका-पदच्छेदः-
अविधार्यप्रवृत्तीन् मूत्र-आदीन् विधार्यप्रवृत्तीन् साहसादींन् च दर्शयित्वा विधार्य-अविधार्यप्रवृत्तिं व्यायामम् आह- शरीर-इत्यादि। देहस्य व्यायामः देहव्यायामः, देहग्रहणात् मनोव्यायामं चिन्तनादि निराकरोति; सङ्ख्याता सञ्ज्ञिता। या च इष्टा अभिप्रेता, एतेन भारहरणादि अनिष्टा कार्यवशात् क्रियमाणा चेष्टा निरस्यते, चङ्क्रमणरूपा तु क्रिया प्राप्यते। स्थैर्यं स्थिरता शरीरस्य, तद्-अर्था । मात्रया अनपायिपरिमाणेन; एतावती च इयं शरीरचेष्टा मात्रावती यावत्या लाघव-आदयः वक्ष्यमाणाः भवन्ति, चेष्टा-अतियोगवक्ष्यमाणाः च श्रमभ्रमादय: न भवन्ति। सुश्रुते अपि उक्तं- “यत् तु चङ्क्रमणं न अतिदेहपीडाकरं भवेत्। तद् आयुः बल-मेधा-अग्निप्रदम् इन्द्रियबोधनम्” (सु.चि.अ.२४) इति॥३१

लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता।दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते॥३२
श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः।अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते॥३३
(स्वेदागमः श्वासवृद्धिर्गात्राणां लाघवं तथा।हृदयाद्युपरोधश्च इति व्यायामलक्षणम्॥१)

पदच्छेदः -
लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता।दोषक्षयः अग्निवृद्धिः च व्यायामात् उपजायते॥३२
श्रमः क्लमः क्षयः तृष्णा रक्तपित्तं प्रतामकः।अतिव्यायामतः कास: ज्वरः छर्दिः च जायते॥३३
(स्वेद-आगमः श्वासवृद्धिः गात्राणां लाघवं तथा।हृदयादि-उपरोधः च इति व्यायामलक्षणम्॥१)

अन्वयः -
व्यायामात् लाघवं, कर्मसामर्थ्यं, स्थैर्यं, दुःखसहिष्णुता, दोषक्षयः, अग्निवृद्धिः च उपजायते॥३२
अतिव्यायामतः श्रमः, क्लमः, क्षयः, तृष्णा, रक्तपित्तं, प्रतामकः, कासः, ज्वरः, छर्दिः च जायते॥३३
(स्वेद-आगमः, श्वासवृद्धिः, तथा गात्राणां लाघवं,।हृदयादि-उपरोधः च इति व्यायामलक्षणम्॥१)|

सरलार्थः -
व्यायामात् लाघवं, कर्मसु सामर्थ्यं, स्थैर्यं, दुःखसहिष्णुता, दोषाणां क्षयः, अग्नेः वृद्धिः च उपजायते॥३२ अतिव्यायामतः श्रमः, क्लमः, क्षयः, तृष्णा, रक्तपित्तं, प्रतामकः, कासः, ज्वरः, छर्दिः च जायते॥३३(स्वेद-आगमः, श्वासवृद्धिः, तथा गात्राणां लाघवं, हृदयादीनाम् उपरोधः च इति व्यायामस्य लक्षणम्॥१)|

आयुर्वेददीपिका-पदच्छेदः -
यथोक्तव्यायामगुणान् आह- लाघवम् इत्यादि। दोषक्षयः अत्र श्लेष्मक्षयः अभिप्रेतः; यदि वा अग्नि-कर्तृत्वेन त्रिदोषक्षयः अपि। उक्तं हि- “शमप्रकोपौ दोषाणां सर्वेषाम् अग्निसंश्रितौ” इति। व्यायाम-अतिप्रवृत्तिदोषम् आह- श्रमः इत्यादि। क्लम: इह मन-इन्द्रियग्लानिः। क्षयः धातुक्षयः। प्रतमक: एव प्रतामकः श्वासविशेषः॥३२-३३

व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्।नोचितानपि सेवेत बुद्धिमानतिमात्रया॥३४

पदच्छेदः -
व्यायाम-हास्य-भाष्य-अध्व-ग्राम्यधर्म-प्रजागरान्।न उचितान् अपि सेवेत बुद्धिमान् अतिमात्रया॥३४

अन्वयः -
बुद्धिमान् (नरः) व्यायाम-हास्य-भाष्य-अध्व-ग्राम्यधर्म-प्रजागरान् उचितान् अपि अतिमात्रया न सेवेत ॥३४

सरलार्थः -
बुद्धिमान् (नरः) व्यायामः, हास्यं, भाष्यम्, अध्वगमनं, मैथुनं, प्रजागरः इति एतान् विषयान् अभ्यस्तान अपि अतिमात्रया न सेवेत ॥३४

आयुर्वेददीपिका-पदच्छेदः-
इदानीं व्यायामतुल्यत्वेन अन्यान् अपि अतिमात्रत्वेन निषेद्धुम् आह- व्यायाम-इत्यादि। यदि अपि अतिव्यायाम: निषिद्धः तथा अपि इह पुनः अभिधीयते अतिभाष्यादिषु-अपि तद्-दोष-श्रम-क्लम-आदिप्राप्ति-अर्थं; यदि वा पूर्वम् अनभ्यस्तव्यायाम-अतिसेवा निषिद्धा, इह तु अभ्यस्तस्य अपि निषेधः। यत् आह- न उचितान् अपि; उचितान् अपि अभ्यस्तान् अपि इति अर्थः। अपिशब्दात् अनभ्यस्तानां नितरां निषेध: लभ्यते। भाषणं भाष्यम्, अध्वशब्देन अध्वगमनं, ग्राम्यधर्म: मैथुनम्॥३४

एतानेवंविधांश्चान्यान् योऽतिमात्रं निषेवते।गजं सिंह इवाकर्षन् सहसा स विनश्यति॥३५
(अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः।क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः॥१
बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः।ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये॥२)

पदच्छेदः-
एतान् एवंविधान् च अन्यान् य: अतिमात्रं निषेवते।गजं सिंह: इव आकर्षन् सहसा स: विनश्यति। ३५ (अतिव्यवाय-भार-अध्वकर्मभिः च अतिकर्शिताः।क्रोध-शोक-भय-आयासैःक्रान्ता: ये च अपि मानवाः बाल-वृद्ध-प्रवाताः च ये च उच्चैः-बहुभाषकाः।वर्जयेयुः व्यायामं क्षुधिताः तृषिताः च ये॥२)

अन्वयः -
यः एतान्, एवंविधांन् च अन्यान् अतिमात्रं निषेवते,सः गजम् आकर्षन् सिंहः इव सहसा विनश्यति॥३५

सरलार्थः -
यः एतान्, एवंविधांन् च अन्यान् विषयान् अतिमात्रं निषेवते,सः विनश्यति।यथा कश्चित् सिंहः गजम् आकर्षति चेत् सहसा सः विनश्यति॥ ३५

आयुर्वेददीपिका-पदच्छेदः-
एवंशब्देन गुरुभारहरणदर्पशिलाचालनादि गृह्यते। सिंहः किल स्वल्पप्रमाणः स्वबल-उद्रेकाद् गजं कर्षन् पाटयन् स्वदेह-अनुचितव्यायामात् पश्चाद् वातक्षोभेण विपद्यते, तेन अयं दृष्टान्तः सङ्गत-अर्थः; यदि वा सिंहः अष्टापदः अभिप्रेतः, स: च किल गजं व्यापाद्य पृष्ठे क्षिपति, ततः तत्कोथाद् विपद्यते, तेन दृष्टान्त: व्याख्येयः॥३५

०१...०४ ०५...२५ २६...३० चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः३६...३८ ३९...४१ ४२...४४ ४५...५० ५१...५५ ५६...६० ६१...६२ ६३...६६

"https://sa.wikibooks.org/w/index.php?title=३१...३५&oldid=7139" इत्यस्माद् प्रतिप्राप्तम्