सामग्री पर जाएँ

३९...४१

विकिपुस्तकानि तः

समपित्तानिलकफाः केचिद्गर्भादि मानवाः।दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा॥३९
तेषामनातुराः पूर्वे वातलाद्याः सदातुराः।दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते॥४०

पदच्छेदः-
समपित्त-अनिल-कफाः केचिद् गर्भ-आदि मानवाः।दृश्यन्ते वातलाः केचित् पित्तलाः श्लेष्मलाः तथा॥
तेषाम् अनातुराः पूर्वे वातलाद्याः सदातुराः।दोष-अनुशयिता हि एषां देहप्रकृतिः उच्यते॥४०

अन्वय:-
केचिद् मानवाः गर्भ-आदि सम पित्त-अनिल-कफाः दृश्यन्ते,केचित् वातलाः, पित्तलाः, तथा श्लेष्मलाः दृश्यन्ते॥३९ तेषाम् पूर्वे अनातुराः (सन्ति)।वातलाद्याः सदातुराः (भवन्ति)। हि एषां दोष-अनुशयिता देहप्रकृतिः उच्यते॥४० सरलार्थः -
केचिद् मानवाः गर्भाधानाद् आरभ्य सम-पित्त-अनिल-कफाः दृश्यन्ते,केचित् वातलाः, पित्तलाः, तथा श्लेष्मलाः दृश्यन्ते॥ ३९ तेषाम् सम-पित्त-अनिल-कफाः मानवाः अनातुराः (सन्ति)।वातलाः, पित्तलाः तथा श्लेष्मलाः मानवाः सदातुराः (भवन्ति)। यतो हि एषां मानवानां दोष-बाहुल्यम् एव देहप्रकृतिः इति उच्यते॥४०

आयुर्वेददीपिका-पदच्छेदः -
इह स्वस्थहितं सामान्येन एव रक्तशालि-आदि प्रतिपादितं, स्वस्थः च प्रकृतिभेदेन नानाप्रकारः, अत: तेषां हितम् अपि नानाप्रकारम् एव, तेन तत्प्रतिपादनार्थं प्रकृतिभेदम् एव तावत् आह- समपित्त-अनिल इत्यादि। समा अवैकारिकमान-अवस्थिताः पित्त-अनिल-कफाः यस्य सः तथा। गर्भ-आदि गर्भाधान-आदि, शुक्रशोणितजीवसम्मूर्च्छनात् इति यावत् । वातलाः वातप्रधानाः, एवं पित्तलाः श्लेष्मलाः च। सर्वत्र गर्भात् इति योज्यम्। अत्र पित्तग्रहणम् आदौ छन्दः-अनुरोधात्, यदि वा पित्तसमानस्य वह्नेः गौरवप्रदर्शनार्थं; यदि वा प्रकृति-आरम्भे वातस्य अप्राधान्यख्यापनार्थं, वातप्रकृतिः हि सर्वत्र प्रति-अवरो भवति। इह च प्रत्येकदोषप्रकृतिग्रहणेन एव द्वन्द्वप्रकृतिः अपि ग्राह्यः, संयोगस्य संयोगिनाम् आन्तरीयकत्वात्, निदाने इव वातादिज्वर-अभिधानेन द्वन्द्वजज्वर-अभिधानं, तेन रोगभिषक्-जितीय-उक्ता: द्वन्द्वजा: अपि तिस्रः प्रकृतय: गृहीता: भवन्ति; अन्ये तु द्वितीयकेचिद् ग्रहणाद् ग्रन्थ-अधिक्येन तत् ग्रहणं वर्णयन्ति। तेषाम् इति समवातपित्तश्लेष्मप्रकृति-आदीनां च मध्ये। पूर्वे इति समप्रकृतयः। सदातुराः इति स्वस्थव्यवहारभाजः अपि स्फुटित-अङ्गत्व-विषम-अग्नित्व-आदियुक्ताः यस्मात् इति अर्थः। स्वस्थाः अपि एते कस्मात् रोगिणः इति आह- दोष अनुशयिता इत्यादि। दोष-अनुशयिता उल्बणवात-आदिभाविता अव्यभिचारिणि इति यावत्। देहप्रकृतिः देहस्वास्थ्यम् इति यावत्। एतेन एतेषां वातलादीनां मुख्यं स्वास्थ्यं न अस्ति, किं तर्हि उपचारस्वस्था एते इति दर्शयति। ननु, गर्भादि इति अनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वातादयः समाः विकृताः वा तथाभूता एव प्रकृतिः भवति, सा च प्रकृतिः यावत् जीवम् अनुवर्तते रिष्टं विना, यत् उक्तं सुश्रुते- “प्रकोपो वा अन्यभावो वा क्षयो वा न उपजायते। प्रकृतीनां स्वभावेन, जायते तु गत-आयुषि” (सु.शा. अ. ४) इति; तत्र यदा समप्रकृतेः वातप्रकृतेः वा आक्षेपकादिः वातविकारः भवति, तदा वातस्य प्रकृतिभूतस्य अधिक्यं भवति एव; यदा च वातप्रकृतेः पित्तविकारो भवति, तदा वातप्रकृतेः अन्यथाभावः पित्तप्रकृतित्वं भवति; यदा तु समप्रकृतेः अन्यतरदोषक्षयो भवति प्राकृतस्वकर्महानिलक्षणः तदा असौ प्रकृतिक्षयः भवति; यद् उक्तं दोषक्षयलक्षणे- “कर्मणः प्राकृतात् हानिः वृद्धिः वा अपि विरोधिनाम्” (सू. अ.१८) इति। अत्र उच्यते- प्रकृतिसमानरोग-उत्पत्तौ न प्रकृतिभूतस्य वृद्धिः, किं तर्हि हेतु-अन्तरजनितस्य वातादेः तत्र विकारकारित्वं, प्रकृतिभूतः तु दोषः तत्र उपदर्शकः भवति, यद् उक्तं- “कालदूष्यप्रकृतिभिः दोषः तुल्यः हि सन्ततम्। निष्प्रत्यनीकः कुरुते तस्मात् ज्ञेयः सुदुःसहः” (चि. अ.३) इति; वातप्रकृतेः तु पित्तविकार-उत्पत्तौ वातः प्रकृतिभूतः तथा एव करचरणस्फुटन-आदिकं कुर्वन् आस्ते, न तस्य आगन्तुना पित्तविकारेण किञ्चित् क्रियते; वातादीनां तु स्वमानात् क्षयः प्राकृतकर्महानिलक्षणः न शुक्रशोणितसंसर्गकालजस्य प्रकृतिभूतस्य दोषस्य बीजभूतस्य क्षयम् आवहति इति न प्रकृतिभूतदोषक्षयः; यदि वा, प्रकृतेः प्रकोप-अन्यथाभाव-क्षया: न भवन्ति इति प्रकृतित्वेन इति ब्रूमः; तेन समप्रकृतिः वातप्रकृतिः न भवति, वातप्रकृतिः पित्तप्रकृतिः न भवति समप्रकृतिः वा; विकार-अवस्था तु हीन-अधिकवातत्व-आदिलक्षणा भवति इति अर्थः। न च वाच्यं- प्रकृतिभूतानां वातादीनां दूषण-आत्मकानां कथं न शरीरबाधकत्वं, सहजातत्वेन तथाविध-विनाशक-विकार-अकर्तृत्वात्; यद् उक्तं सुश्रुते- “विषजातो यथा कीटो विषेण न विपद्यते। तद्वत् प्रकृतिभिः देहः तद्-जातत्वात् न बाध्यते” (सु.शा. अ.४) इति; न बाध्यते न अतिबाध्यते इति बोद्धव्यं, वातादिप्रकृतेः नित्यवातादिविकारगृहीतत्वात्। तद् उक्तम् इह “वातलाद्याः सदातुराः” इति। उक्तं च अश्ववैद्यके- “सर्वान् प्राणभृतो हन्ति नूनं कायगतं विषम्। अस्मिंन् च अपि समुत्पन्ना दृश्यन्ते कृमयः यथा॥ तथा च विषमः दोषः प्रकृतिं न अतिबाधते” इति। न च वातादयः वृद्धाः शुक्रशोणितसंसर्गे यथा दुष्टत्वाद् वातविकारवन्तं गर्भं कुर्वन्ति तथा गर्भजनकत्वम् एव शुक्रशोणितयोः कस्मात् न निघ्नन्ति इति वाच्यं, वातादिप्रकोपाणाम् एव हीन-मध्य-उत्तमानां नानाशक्तित्वात्; प्रबलाः वातादयः विनाशयन्ति, हीनाः तु विकृतिमात्रं जनयन्ति॥३९-४०

विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः।समसर्वरसं सात्म्यं समधातोः प्रशस्यते॥४१

पदच्छेदः -
विपरीतगुणः तेषां स्वस्थवृत्तेः विधिः हितः।समसर्वरसं सात्म्यं समधातोः प्रशस्यते॥४१

अन्वयः -
तेषां विपरीतगुणः स्वस्थवृत्तेः विधिः हितः।समधातोः समसर्वरसं सात्म्यं प्रशस्यते॥४१

सरलार्थः -
तेषां वातलादीनां वातादिविपरीतगुणः स्वस्थवृत्तेः विधिः हितः भवति।समधातोः नरस्य समसर्वरसं सात्म्यं प्रशस्तम्॥४१

आयुर्वेददीपिका-पदच्छेदः -
तेषाम् इति सदातुराणां वातलादीनाम्। विपरीतगुण: वातादिगतरौक्ष्य-आदिविपरीतस्नेह-आदिगुणः इति अर्थः। समाः सर्वे रसा यत्र तत् तथा; समत्वं च इह अनुरूपत्वम् अभिप्रेतं, नतु तुल्यमानत्वं; न हि स्वस्थभोजने यावान् मधुरः उपयुज्यते, तावत्-मानाः कटु-आदयः अपि इति; यदि वा समशब्दः अविरुद्धवचनः, तेन उपोदिका-मत्स्य-आदिप्रतिपादनीयविरुद्धरसवर्जितं सर्वरसम् इति अर्थः। एवं च प्रकृति-अपेक्षः समधातुं प्रति सर्वरस-उपयोगः ऋतुविहितेन तस्मात् तुषार समये स्निग्ध-अम्ल-लवणान् रसान् (सू. अ.६) इति आदिना विशेषविधानेन युक्तः सन् सर्वरसम् एव अम्ललवणरस- उत्कटं भोजनं हेमन्ते फलति; वातप्रकृतेः तु कटुतिक्तकषायवर्जितं प्रभूतमधुर-अम्ल-लवणभोजनं हेमन्ते भवति; एवम् अन्यत्र अपि देहप्रकृति-ऋतुस्वभावपर्यालोचनया अनुगुणं तर्कणीयम्। यद् उक्तं वाग्भटेन- “नित्यं सर्वरसाभ्यासः स्व-स्व-अधिक्यम् ऋतौ ऋतौ” (वा.सू.अ.३) इति॥४१

०१...०४ ०५...२५ २६...३० ३१...३५ ३६...३८ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ४२...४४ ४५...५० ५१...५५ ५६...६० ६१...६२ ६३...६६

"https://sa.wikibooks.org/w/index.php?title=३९...४१&oldid=7171" इत्यस्माद् प्रतिप्राप्तम्