५६...६०

विकिपुस्तकानि तः

पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः।मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः॥५६
परापवादरतयश्चपला रिपुसेविनः।निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः॥५७
बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः।वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः॥५८
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः।सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः।५९

पदच्छेदः-
पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः।मर्म-उपहासिनः लुब्धाः परवृद्धिद्विषः शठाः॥५६
परापवादरतयः चपलाः रिपुसेविनः।निर्घृणाः त्यक्तधर्माणः परिवर्ज्याः नराधमाः॥५७
बुद्धि-विद्या-वयः-शील-धैर्य-स्मृति-समाधिभिः।वृद्ध-उपसेविनः वृद्धाः स्वभावज्ञाः गतव्यथाः।५८
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः।सेव्याः सत्-मार्गवक्तारः पुण्यश्रवणदर्शनाः॥५९

अन्वयः -
पापवृत्तवचःसत्त्वाः, सूचकाः, कलहप्रियाः, मर्म-उपहासिनः, लुब्धाः, परवृद्धिद्विषः, शठाः,परापवादरतयः, चपलाः, रिपुसेविनः,निर्घृणाः, त्यक्तधर्माणः, नराधमाः परिवर्ज्या:॥५७बुद्धिविद्यावयः-शीलधैर्यस्मृति-समाधिभिः वृद्धाः, वृद्ध-उपसेविन:, स्वभावज्ञा:, गतव्यथाः, सर्वभूतानां सुमुखाः, प्रशान्ताः, शंसितव्रताः, सन्मार्गवक्तारः, पुण्यश्रवणदर्शनाः, (जनाः) सेव्याः॥५९॥

सरलार्थः -
येषाम् आचरणं पापरूपम् अस्ति, वचनं पापरूपम् अस्ति, चित्तं पापरूपम् अस्ति, ते नराधमाः वर्जनीयाः।सूचकाः, कलह-प्रियाः, मर्म-उपहासिनः, लुब्धाः, परवृद्धिद्विषः, शठाः,परापवादे रममाणाः, चञ्चलाः, रिपुसेविनः, निर्दयाः, अधार्मिकाः नराधमाः परिवर्ज्या:॥५७बुद्धिः, विद्या, वयः, शीलं, धैर्यं, स्मृतिः, समाधिः इति एतैः गुणैः वृद्धाः जनाः सेवनीयाः।वृद्ध-उपसेविन:, स्वभावज्ञा:, गतव्यथाः, सर्वभूतानां सुमुखाः, प्रशान्ताः, शंसितव्रताः, सन्मार्गवक्तारः, पुण्यश्रवणदर्शनाः, जनाः च सेव्याः॥५९

आयुर्वेददीपिका-पदच्छेदः-
आप्त-उपदेशग्रहणार्थम् अनाप्तान् वर्ज्यान् पापवृत्तः इत्यादिना, सेव्यांन् च आप्तान् बुद्धीत्यादिना दर्शयति। वृत्तं चेष्टितं शरीरव्यापारः, सत्त्वं मनः; एषां पापत्वं पापहेतुत्वात्। शठाः क्रूराः। निर्घृणा निष्कृपाः। बुद्ध्यादिभिः वृद्धाः प्रभूतप्रशस्तबुद्ध्यादियुक्ता इति अर्थः। गतव्यथाः गतशोकादयः इति अर्थः। सुमुखाः प्रसन्नमुखाः। शंसितव्रताः कथितव्रताः॥|५६-५९

आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च।परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने॥६०

पदच्छेदः-
आहार-आचार-चेष्टासु सुखार्थी प्रेत्य च इह च।परं प्रयत्नम् आतिष्ठेत् बुद्धिमान् हितसेवने॥६०

अन्वयः -
इह च प्रेत्य च सुखार्थी बुद्धिमान् (नरः)आहार-आचारचेष्टासु हितसेवने परं प्रयत्नम् आतिष्ठेत्॥६०

सरलार्थः -
इह च प्रेत्य च सुखार्थी बुद्धिमान् (नरः)आहारे, आचारे तथा चेष्टासु यद् यद् हितं, तस्य सेवने परं प्रयत्नं कुर्यात्॥६०

आयुर्वेददीपिका-पदच्छेदः -
आहाराचारचेष्टासु इति निर्धारणे सप्तमी, तेन आहार-आचारचेष्टानां मध्ये यत् हितं तस्य सेवने प्रयत्नम् आतिष्ठेत् इति फलति; आचारः शास्त्रविहितम् अनुष्ठानम्॥६०

०१...०४ ०५...२५ २६...३० ३१...३५ ३६...३८ ३९...४१ ४२...४४ ४५...५० ५१...५५ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ६१...६२ ६३...६६

"https://sa.wikibooks.org/w/index.php?title=५६...६०&oldid=7168" इत्यस्माद् प्रतिप्राप्तम्