६१...६२
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्।नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना॥६१
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्।प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः॥६२
पदच्छेदः-
न नक्तं दधि भुञ्जीत न च अपि अघृतशर्करम्।न अमुद्गयूषं न अक्षौद्रं न उष्णं न आमलकैः विना॥
ज्वर-असृक्पित्त-वीसर्प-कुष्ठ-पाण्डु-आमय-भ्रमान्।प्राप्नुयात् कामलां च उग्रां विधिं हित्वा दधिप्रियः॥
अन्वयः -
दधि नक्तं न भुञ्जीत, न च अपि अघृतशर्करं भुञ्जीत, न अमुद्गयूषं भुञ्जीत, न अक्षौद्रं भुञ्जीत, न उष्णं भुञ्जीत, न आमलकैः विना भुञ्जीत।६१विधिं हित्वा दधिप्रियः (नरः) ज्वर-असृक्पित्त-वीसर्प-कुष्ठ-पाण्डु-आमय-भ्रमान्, उग्रां कामलां च प्राप्नुयात्॥६२॥
सरलार्थः -
दधि रात्रौ न भक्षणीयम्।घृतं विना अथवा शर्करां विना दधि न भक्षणीयम्।मुद्गयूषं विना दधि न भक्षणीयम्।मधु विना दधि न भक्षणीयम्। उष्णं दधि न भक्षणीयम्।आमलकैः विना दधि न भक्षणीयम्।विधिं त्यक्त्वा दधिप्रियः नरः दधि खादति चेत् सः ज्वरः, रक्तपित्तं, वीसर्पं, कुष्ठं, पाण्डुरोगं, भ्रमरोगम् उग्रां कामलां च प्राप्नुयात्॥६२॥
आयुर्वेददीपिका-पदच्छेदः -
दध्नः अनेकप्रकारनिषिद्धत्वात् दिङ्-मात्र-उदाहरणार्थं दधिभोजनविधिम् आह- न नक्तम् इत्यादि। अत्र न नक्तम् इति अत्र न उष्णम् इति अत्र च नकारः क्रियया सम्बध्यते, तेन निशि उष्णं दधि सर्वथा एव न सेव्यम्। अघृतशर्करम् इत्यादौ च निषेधो नञा सम्बध्यते, तेन उभयप्रतिषेधात् सशर्करं भुञ्जीत इत्यादि वाक्यार्थः भवति। तेन घृत-आदीनां मध्ये अन्यतमसम्बन्धेन अपि दधि उपयोज्यं भवति। न नक्तम् इत्यादिवत् इह अपि नकारस्य क्रियासम्बन्धे मुद्गसूपसहितस्य अपि अघृतशर्करत्वमस्ति एव दध्न इति अनुपादेयत्वं स्यात्। जतूकर्णे- न अपि घृत-आदीनां मिलितानाम् अयोगात् दधि सेव्यम् उक्तम्। यद् उक्तं- “न अश्नीयात् दधि नक्तम् उष्णं वा न घृत-मधु-शर्करा-मुद्ग-आमलकैः विना वा” इति॥६१-६२
०१...०४ ०५...२५ २६...३० ३१...३५ ३६...३८ ३९...४१ ४२...४४ ४५...५० ५१...५५ ५६...६० चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ६३...६६